SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ योगभ्रष्टत्वस्वरूपाख्यानम् ३११ शतक्षारपुटशोध्यरत्जन्यायेन कुलयोग्यादीनां = गोत्रयोगिव्यतिरिक्तानां कुलयोगि-प्रवृत्तचक्रप्रभृतीनां इह = प्रक्रमे तासां = मैत्र्यादीनां मूलाधाजं मार्गानुसारिक्रिया जनित पुण्यानुबन्धिपुण्यलक्षणबीजन्यासः, तद्युक्तानाम् । तत्र = कल्याणकन्दली तदद्याप्युपपद्यते । हिंस्राहिंस्रे मृदुक्रूरे तस्मात्तत्तस्य रोचते ।। - [ ] इत्युक्तम् । जिनाज्ञाभ्यास एव हि जिनाराधनोपायः यथोक्तं यस्य चाराधनोपायः सदाज्ञाभ्यास एव हि । यथाशक्तिविधानेन नियमात्स फलप्रदः ।। - [ ] इति । बहुतरभवानुवृत्तः निर्दोषो भवति, तत्संस्कारप्रकर्षात् । इदमेवाभिप्रेत्यं योगवाशिष्ठे -> विषाण्यमृततां यान्ति सतताभ्यासयोगतः < 1 - [निर्वाणप्रकरणे उत्तरार्धे ६७/२८] इत्युक्तम् । एतेनेदमपि ज्ञायते यदुत सातिचारादप्यनुष्ठानादभ्यासतः कालेन निरतिचारमनुष्ठानं भवतीति । बाह्योऽपि अभ्यासो हि कर्मणां कौशलमावहति । न हि सकृन्निपातमात्रेणोदबिन्दुरपि ग्रावणि निम्नतामादधातीति तत्त्वं व्यक्तमुक्तं द्रव्यसप्ततिकावृत्तौ [गा. ८ पृ.१०] । यथोक्तं परैः अभ्यासेन क्रियाः सर्वा अभ्यासात् सकलाः कलाः । अभ्यासाद् ध्यानमौनादि किमभ्यासस्य दुष्करम् ॥ ← [ ] इति । अन्यत्रापि अभ्यासो हि कर्मणां कौशलमावहति <- [ ] इत्युक्तम् । - जं अब्भसेइ जीवो गुणं च दोसं च एत्थ जम्मंमि । तं पावइ परलोए तेण य अब्भासजोगेणं ॥ ← [ ] इत्यपि प्रसिद्धम् । यथोक्तं वीरभद्रसूरिभिः आराधनापताकायां > जह खलु दिवस भत्थं रयणीए सुमिणयम्मि पिच्छति । तह इह जम्म भत्थं सेवंति भवंतरे जीवा ॥ ९८९ ॥ - इति । इयञ्च गाथा योगशतके मूलकृदुद्धृता । अन्यत्रापि -> > प्रादुर्भवेद् यथाभ्यासं संस्कारो हि भवान्तरे - [ ] इत्युक्तम् । योगशास्त्रेऽपि तदनुसारेणैव -> जन्मान्तरसंस्कारात्स्वयमेव किल प्रकाशते तत्त्वम् । सुप्तोत्थितस्य पूर्वप्रत्ययवन्निरुपदेशमपि || - [१२/१३] इत्युक्तं श्रीकलिकालसर्वज्ञेन । दृढाभ्यासाऽऽ| हितसंस्कारादेवाऽग्रेतनगुणप्राप्तिरपि झटिति सुकरा च भवति । यथोक्तं बोधिचर्यावतारे न किञ्चिदस्ति तद्वस्तु यदभ्यासस्य दुष्करम् <- [६ / १४] | अभ्यासेनैव ज्ञानदीपकप्रकाशप्रसारः । तदुक्तं योगकुण्डल्युपनिषदि -> यथाऽग्निर्दारुमध्यस्थो नोत्तिष्ठन्मथनं विना । विना चाभ्यासयोगेन ज्ञानदीपस्तथा न हि ॥ - [३ / १४-१५ ] इति । यथाभ्यासेन शास्त्राणि स्थिराणि स्युर्महान्त्यपि । तथा ध्यानमपि स्थैर्यं लभतेऽभ्यासवर्तिनाम् || <- [३ / १४] इति तत्त्वानुशासनवचनमप्यत्र स्मर्तव्यम् । भगवद्गीतायां > प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्विषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ - [ ६ / ४५ ], योगशिखोपनिषदि च - पूर्वजन्मकृताभ्यासात् सत्वरं फलमश्नुते - [ १ / १४३] इति प्रोक्तम् । न ह्यभ्यासविकले वक्ष्यमाण| परतत्त्वं प्राप्यते, तदुक्तं भगवद्गीतायामपि -> अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ।। ← - [ ८/८] इति । एतेन योगाभ्यासादिहैव मुक्त्यनुपधाने व्यर्था योगप्रवृत्तिरित्यपि प्रत्याख्यातम्, इह योगासमाप्ती परत्र | तदनुकूलसामग्रीप्राप्तिसम्भवात् । इदमेवाभिप्रेत्य भगवद्गीतायां . • शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते । अथवा योगिना| मेव कुले भवति धीमताम् ॥ <- [भ.गी. ६/४१-४२] इत्युक्तम् । योगभ्रष्टत्वञ्च न विध्यादिभञ्जकत्वं किन्तु योगारम्भकत्वे -> सति विधिविशुद्धप्रवृत्त्या तत्परिपालकत्वे सति कालादिसामग्रीवैकल्यात् तदसमापकत्वम् । न च नानाजन्मव्यवधानेनाऽभ्यासशुद्धयादिप्रतिपादनमसङ्गतमिति शङ्कनीयम्, कालक्रमसाध्यस्यार्थस्य शीघ्रमनुपस्थितेः । न खलु न्यग्रोधबीजानि अह्नायैव न्यग्रोधशाखिनं सान्द्रशाद्वलदलजटिलशाखाकाण्डनिपीतमार्तण्डचण्डातपमण्डलमारभन्ते किन्तु क्षितिसलिलानिलसम्पर्कात्परम्परोपजायमानाङ्कुरपत्र- काण्ड - नालादिक्रमेण । एवमिहापि युक्त्यागमसिद्धः कालक्रम आस्थेयः । इदञ्चत्सर्गिकम् । ततो न मरुदेव्यादिना व्यभिचार उद्भावनीय इति दिक् । गोत्रयोगिव्यतिरिक्तानां गोत्रयोगिनां श्रुतशक्तिवैकल्यात् न योगशुद्धिसम्भवः । कुलयोगि- प्रवृत्तचक्रप्रभृतीनां प्रकमे मैत्र्यादीनां मार्गानुसारिक्रियाजनित- पुण्यानुबन्धिपुण्यलक्षणवीजन्यासः = मार्गानाभोगेऽपि सदन्धन्यायेन मार्गानुसारिक्रियया । जनितस्य पुण्यानुबन्धिपुण्यलक्षणस्य बीजस्य वपनं तद्युक्तानाम् । इदञ्च हेतुगर्भविशेषणम् । कुलयोग्यादीनां श्रुतशक्तिसमावेशात् ક્ષારના પુટ-પડો દ્વારા રત્ન શુદ્ધ થાય છે એ દૃષ્ટાંતથી આ વાત સમજવી. [કેવા જીવોનો અભ્યાસ શુદ્ધ થાય ? તેનો જવાબ એ છે કે] ગોત્રયોગીથી ભિન્ન એવા કુલયોગી, પ્રવૃત્તચક્રયોગી વગેરે યોગીઓ, કે જેઓ મૈત્રી વગેરે ભાવનાઓના માર્ગાનુસારી ક્રિયાથી ઉત્પન્ન થયેલ પુણ્યાનુબંધી પુણ્યસ્વરૂપ બીજના ન્યાસથી યુક્ત છે, તેઓનો મૈત્રી વગેરે સંબંધી અભ્યાસ પ્રસ્તૃતમાં વિવક્ષિત છે. ૪ પ્રકારના ઑગીઓ [योगी ४ प्रकार छे. [4] गोत्रयोगी, [2] लयोगी, [3] प्रवृत्तययोगी अने [४] निष्पन्न योगी.] मां [4] गोत्रयोगी રેને જાણવા કે જે માત્ર ગોત્રથી-નામથી ‘યોગી' છે. પરંતુ વાસ્તવમાં યોગ સાથે એમને કશી નિસ્બત નથી. સામાન્યથી તેમના ર્વજો યોગ સાધતા હોવાના કારણે તેઓ ભૂમિભવ્ય સુંદરગોત્રવાળા કહેવાય. પરંતુ પછીથી સાધના નીકળી ગઈ ને માત્ર યોગી' ગોત્ર-નામ રહ્યું. દા.ત. કબીરનો અશ્રદ્ધાળુ અવસ્થાવાળો દીકરો. [૨] ‘કુલયોગી’ તેમને જાણવા કે જે યોગીના કુળમાં Jain Education International = For Private & Personal Use Only www.jainelibrary.org
SR No.004834
Book TitleShokshaka Prakarana Part 2
Original Sutra AuthorHaribhadrasuri
AuthorYashovijay of Jayaghoshsuri
PublisherDivya Darshan Trust
Publication Year2000
Total Pages250
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy