________________
8 तीर्थकरकेवलिनि करुणाप्रतिपादनम्
एतच्च योगारम्भकारब्धयोगान् प्रत्युक्तम् । जिष्पन्नयोगानां तु चित्तं कीदृशम् ? इत्याह
एतदित्यादि ।
एतद्रहितं तु तथा तत्त्वाभ्यासात्परार्थकार्येव । सद्बोधमात्रमेव हि चित्तं निष्पन्नयोगानाम् ॥१३ / १२॥ एतद्रहितं तु = निर्विकल्पसंस्कारेण मैत्र्यादिभावनानाशात् तद्रहितमेव तथा = तेन प्रकारेण इतराऽसम्भविना तत्त्वाभ्यासात् = परमार्थाभ्यासात् प्रकृष्टभावना जनित - तद्विप्रमुक्त-तत्त्व 'ज्ञानाऽऽ हितसंस्कारादित्यर्थः । परार्थ| कार्येव परोपकारैकशीलमेव । सद्बोधः = निर्मलज्ञानं तन्मात्रमेव हि चित्तं निष्पन्नयोगानाम् । तल्लक्षणचेदं
३०९
कल्याणकन्दली
क्षान्त्यादिकमपि मैत्र्याद्यभ्यासलब्धसमतां विना नोपपद्यते तत्त्वतः । तदुक्तं योगसार एव शिरोमणिः । सोऽपि साम्यवतामेव मैत्र्यादिकृतकर्मणाम् ॥ <- [२/३७] इति ॥१३ / ११ ॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> निष्पन्नयोगानां चित्तं तु एतद्रहितं तत्त्वाभ्यासात्परार्धकारि एव सद्बोधमात्रमेव ॥१३/१२॥ निर्विकल्प संस्कारेण = ज्ञातृ-ज्ञेय-ज्ञानविकल्पानवभासपूर्विल-स्वप्रकाशबोधाभ्यासेन मैत्र्यादिभावनानाशात् तद्रहितमेव | = मैत्र्यादिरहितमेव । यत्तु विशेष्य-विशेषण- संसर्गतानवगाहिज्ञानं निर्विकल्पकमिति नैयायिकोपपादितं तन्नात्र ग्राह्यम्, तस्याऽत्राsकिञ्चित्करत्वात् । अन्ये तु परमार्थभूतं शुद्धवस्तुप्रकाशकं ज्ञानं निर्विकल्पकमित्याहुः । ज्ञेयभेदेनाऽप्रकाशकत्वे सति ज्ञानवेदनं | निर्विकल्पकमित्यपरे । न च प्राक् [१३ / ९ पृ. ३०६ ] चतुर्थी करुणा केवलिनि प्रतिपादिताऽत्र तु मैत्र्यादिव्यवच्छेदः निष्पन्न| योगानामुक्त इति विरोध इति शङ्कनीयम्, निर्विकल्पाभ्यासेन सविकल्पकमैत्र्यादिभावनानाशेऽपि निर्विकल्पात्मना तदनुवृत्तेरिष्टत्वात् । तदुक्तं स्याद्वादरहस्ये -> भगवतां मोहाभिव्यक्तचैतन्यविशेषरूपाया इच्छाया असत्त्वेऽपि तदनभिव्यक्तचैतन्यविशेषरूपानुजिघृक्षादिसत्त्वं न विरुद्धम् <- [म.स्या. रह. का. ७ द्वि. ख. पृ. ५२८ ] । अत्रानुजिघृक्षा = अनुग्रहपरिणामः = हितपरिणतिः = कल्याणा|शयः = उचिताध्यवसायः । यथा चैतत्तत्त्वं तथाऽस्माभिर्जयलताभिधानायां तट्टीकायामभिहितम् । ऐन्द्रस्तुतिचतुर्विंशतिकावृत्तौ अपि भगवतः सर्वेष्वपि जीवेषु अविशेषेण कृपालुत्वात् कृपाऽस्त्येव; अन्यथा माध्यस्थ्यहानिप्रसङ्गात् - [६ / १] इत्युक्तम् । बीजजन्यवृक्षफलेषु बीजसद्भाववत् निर्विशेषप्रकृष्टविशुद्धकरुणोपहिततीर्थङ्करत्वशालिनि करुणासद्भावोऽनाविल एवेत्यपि प्राहुः । प्रागुक्तमैत्र्यादिफलसद्भावात्तत्त्वतः तदनिवृत्तिरित्यपि नयान्तराभिप्रायो विभावनीयोऽत्र । इतरासम्भविना = सुखादिचिन्तान्येर्ष्यादिसम्भवशून्येन प्रकारेण मत्तः कायादयो भिन्नास्तेभ्योऽहमपि तत्त्वतः । नाहमेषां किमप्यस्मि ममाप्येते न किञ्चन ॥ एवं | सम्यग्विनिश्चित्य स्वात्मानं भिन्नमन्यतः । विधाय तन्मयं भावं न किञ्चिदपि चिन्तयेत् ॥ <- [ ५/१८-१९] इति तत्त्वानुशासना| द्युक्तस्वरूपमालम्ब्य परमार्थाभ्यासात् प्रकृष्टभावनाजनित-तद्विप्रमुक्ततत्त्वज्ञानाऽऽहितसंस्कारात् = प्रकृष्टमैत्र्यादिभावनाजनितेन | मैत्र्यादिविकल्पाननुविद्धतत्त्वज्ञानेन उपहितात् संस्कारात् । परोपकारैकशीलं = मोहाऽसम्पृक्तान्यहितकरणैकस्वभावम् । तन्मात्रमेव | = निर्मलज्ञानमात्रमेव हि चित्तं निष्पन्नयोगानाम् । तदुक्तं मुक्तिकोपनिषदि - मानसीर्वासनाः पूर्वं त्यक्त्वा विषयवासनाः । मैत्र्यादिवासनानाम्नीर्गृहाणाऽमलवासनाः ।। ता अप्यतः परित्यज्य ताभिर्व्यवहरन्नपि । अन्तः शान्तः समस्नेहो भव चिन्मात्रवासनः ॥ |<- [२/६९-७० ] इति । तादृशनिर्विकल्पदशायामेव तत्त्वतः सुखसंवेदनम् । तदुक्तं बृहत्कल्पभाष्ये -> निव्विकप्पसुहं सुहं
->
<
=
[ ५७१७] इति । परमतानुसारेण समाधिदशाऽत्राऽवबोद्धव्या, तदुक्तं विष्णुपुराणे -> तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते ॥ <- [६/७/९२] तस्य ध्येयस्य । परेषामपि सम्मतमिदम् । तदुक्तं बृहत्संन्यासोपनिषदि -> भ्रष्टबीजोपमा भूयो जन्माङ्कुरविवर्जिता । हृदि जीवन्विमुक्तानां शुद्धा भवति वासना || पावनी परमोदाराशुद्धसत्त्वानुपातिनी । आत्मध्यानमयी नित्या सुप्रतिष्ठेव तिष्ठति ।। [२/५९-६०] ←← इति ।
Jain Education Intemational
યોગીઓનું ચિત્ત કેવું હોય ? આ વાતને ગ્રંથકારશ્રી જણાવે છે.
ગાથાર્થ :- નિષ્પન્નયોગવાળા યોગીઓનું ચિત્ત મૈત્રી વગેરે ભાવનાઓથી રહિત જ હોય છે. તેમ જ તત્ત્વના અભ્યાસથી પરાર્થ કરનાર જ હોય છે. તથા કેવલ સદ્બોધસ્વરૂપ જ હોય છે. [૧૩/૧૨]
ૐ નિષ્પન્ન ઓગીના ચિત્તનો પરિચય
क्षान्त्यादिर्दशधा धर्मः सर्वधर्म
ટીડાર્થ :- નિષ્પન્નયોગીઓનું ચિત્ત મૈત્રી આદિ ભાવનાઓથી રહિત હોય છે, કારણ કે નિર્વિકલ્પક સંસ્કાર દ્વારા મૈત્રી વગેરે ભાવનાઓનો નાશ થાય છે. બીજા કોઈ જીવોમાં ન સંભવી શકે તેવા પારમાર્થિક તત્ત્વોના અભ્યાસથી અર્થાત્ પ્રકૃષ્ટ મૈત્રી વગેરે ભાવનાથી ઉત્પન્ન થયેલ અને મૈત્રી વગેરે ભાવનાથી તદ્દન મુક્ત બનેલ એવા તત્ત્વજ્ઞાનથી આવેલ સંસ્કારથી નિષ્પન્ન યોગીનું ચિત્ત પરોપકાર કરવાના જ એકમાત્ર સ્વભાવવાળું હોય છે. કારણ કે તેઓનું ચિત્ત બીજા દોષથી રહિત જ્ઞાનમાત્રસ્વરૂપ જ १. मुद्रितप्रती ज्ञानादीतरसंस्कारा... - इत्यशुद्धः पाठः ।
For Private & Personal Use Only
www.jainelibrary.org