________________
३०८ त्रयोदशं षोडशकम् * धर्मप्राप्ति-ध्यानसिद्धिकृते मैत्र्याद्यावश्यकता * व्यवस्थितवस्त्वपराधमपश्यतो बाह्यार्थेषु सुख-दुःखहेतुतानाश्रयणान्माध्यस्थ्यमवलम्बमानस्य भवति ॥१३/१०||
केषां पुनरेताश्चतस्रः परिणमन्तीत्याह -> 'एता' इत्यादि । एताः खल्वभ्यासात्क्रमेण वचनानुसारिणां पुंसाम् । सद्वृत्तानां सततं श्राद्धानां परिणमन्त्युच्चैः ॥१३/११॥ एता: = प्रागुक्ताः खलु = पुनः अभ्यासात् = पुनः पुनरावृत्तेः क्रमेण = आजुपूर्त्या वचनानुसारिणां -
= पाषाणां सटवत्तानां = सच्चरित्राणां सततं = अनवरतं श्राद्धाना = श्रद्धायुक्ताना|| परिणमन्ति = आत्मसाद्भवन्ति उच्चैः = अत्यर्थम् ॥१३/११||
कल्याणकन्दली अध्यात्मगीतायां -> वैषयिकपदार्थेषु सुखं दुखं न वस्तुतः । तत्र मिथ्यात्वबोधेन मोही भवति मानवः ॥२४|| - इति । विषयाणां सुख-दुःखाऽहेतुता तु परेषामपीष्टैव । तदुक्तं विष्णुपुराणे -> वस्त्वेकमेव दुःखाय सुखायेोद्भवाय च । कोपाय च यतस्तस्माद् वस्तु दुःखात्मकं कुतः ? ।। तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते । तदेव कोपाय ततः प्रमादाय च जायते ।। तस्माद् दुःखात्मकं नास्ति न च किञ्चित् सुखात्मकम् । मनसः परिणामोऽयं सुख-दुःखादिलक्षणः ।। - [२/ ६/४५-४६-४७] इति । शिष्टं स्पष्टम् । चतुर्विधा अपि मैत्र्यादिभावना यथोत्तरं विशिष्ट-विशिष्टतरविवेकजन्याः । एतत्कारिकानुसारेण योगभेदद्वात्रिंशिकायां -> आपातरम्ये सद्धेतावनुबन्धयुते परे । सन्तुष्टिर्मुदिता नाम सर्वेषां प्राणिनां सुखे ॥५॥ करुणातोऽनुबन्धाच्च निर्वेदात्तत्त्वचिन्तनात् । उपेक्षा ह्यहिते काले सुखे सारे च सर्वतः ॥६॥ -- इत्युक्तम् ॥१३/१०॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> एताः खलु क्रमेण अभ्यासात् वचनानुसारिणां सद्वृत्तानां सततं श्राद्धानां पुंसां उच्चैः परिणमन्ति ॥१३/११॥ इयं कारिका लोकविंशिकावृत्ति-योगभेदद्वात्रिंशिकावृत्ति-योगसूत्रटिप्पणादौ समुद्धृता [लो.वि.गो.७ यो.भे.९८/७ यो.टि.१/३३] । श्रद्धायुक्तानां उपलक्षणात् संवेगोपेतानाञ्च, तेषामपि आसन्नसमाधिलाभादेः परेषामपि सम्मतत्वात्, तदुक्तं योगसूत्रे -> तीव्रसंवेगानामासन्नः - [१/२१] । आत्मसात् भवन्ति = फलोपधायिका भवन्ति, फलञ्चैतासां यथाक्रमं सुखीा -दुःखितोपेक्षा-पुण्यद्वेषाऽपुण्यतिरस्कारपरित्यागः । तदुक्तं योगभेदद्वात्रिंशिकायां --> सुखीया॑ दुःखितोपेक्षा पुण्य-द्वेषमधर्मिषु । राग-द्वेषौ त्यजन्नेता लब्ध्वाऽध्यात्म समाश्रयेत् ।। - [द्वा.द्वा.१८/७] इति । वाचस्पतिमिश्रोऽपि तत्त्ववैशारद्यां -> सुखितेषु मैत्री = सौहार्दै भावयतः इर्ध्याकालुष्यं निवर्तते चित्तस्य । दुःखितेषु च करुणां आत्मनीव परस्मिन् दुःखप्रहाणेच्छां भावयतः परापकारचिकीर्षाकालुष्यं चेतसो निवर्तते । पुण्यशीलेषु प्राणिषु मुदितां = हर्षं भावयतोऽसूयाकालुष्यं चेतसो निवर्तते । अपुण्यशीलेषु चोपेक्षां = माध्यस्थ्यं भावयतोऽमर्षकालुष्यं चेतसो निवर्तते । ततश्चास्य राजसतामसधर्मनिवृत्तौ शुक्लो धर्म उपजायते -- [यो.सू.१/३३ त.वै.पृ.९८] इत्याह । प्रागुक्त [१२/१४] ध्यानसिद्ध्यै मैत्र्यादीनामावश्यकता प्रसिद्धैव । तदुक्तं न्यायविजयेन अध्यात्मतत्त्वालोके -> ध्यानस्य सिद्धयै दृढभावनानामावश्यकत्वं विबुधा वदन्ति । मैत्री प्रमोदं करुणामुपेक्षां युञ्जीत तद् ध्यानमुपस्करोति ।। - [६/१४] इति । मैत्र्यादिविरहे तु धर्मप्राप्तिर्दर्लभा । तदुक्तं योगसारे -> धर्मकल्पद्रुमस्यैता मूलं मैत्र्यादिभावनाः । यैर्न ज्ञाता न चाभ्यस्ताः स तेषामतिदुर्लभः ।। <- [२/७] इति । प्रागुक्तથોડું-ઘણું સુખ છે - એવું જોવા છતાં તેની અસારતા અને ક્ષણિકતાને લીધે તેની ઉપેક્ષા કરવી-આ નિર્વેદસાર ૩જી ઉપેક્ષા જાણવી. [૪] વસ્તુનો સ્વભાવ જેનો સાર-નિષ્કર્ષ હોય તે ઉપેક્ષા તqસાર જાણવી. જેમ કે સારી કે ખરાબ વસ્તુ વાસ્તવમાં રાગ-દ્વેષનું કારણ નથી, પરંતુ પોતાનું મોહનીય કર્મ તેનું કારણ છે. મોહનીય કર્મની વિકૃતિથી ઉત્પન્ન થયેલ પોતાના અપરાધની વિચારણા કરતો જીવ પોતાના =િ વસ્તુના સ્વભાવમાં વ્યવસ્થિત એવી બાહ્ય વસ્તુના અપરાધને જતો નથી. તેવું ન જોવાથી બાહ્ય પદાર્થમાં સુખકારણતાનો કે દુઃખકારણતાનો તે આશ્રય નથી કરતો. આમ બાહ્ય પદાર્થને સુખ-દુઃખકારણ ન માનવાથી મધ્યસ્થતાને ધારણ કરતા જીવની ઉપેક્ષા તqસાર જાણવી. [૧૩/૧૦].
કેવા જીવોને આ મૈત્રી વગેરે ચાર ભાવનાઓ પરિણમે છે ? આનો જવાબ જણાવતા મૂલકારશ્રી કહે છે કે –
ગાથાર્થ :- આ ભાવનાઓ ક્રમશઃ અભ્યાસ કરવાથી આગમને અનુસરનારા, સુંદર ચારિત્રવાળા અને સતત શ્રદ્ધાવાળા पुरुषोने अत्यंत परिशरामे छ. [१३/११]
मैत्री वगेरे भावना 8ोने पराभे ? રીડાર્ચ :- સર્વત્ર કાર્યમાં] આગમને આગળ કરનારા, સુંદર ચારિત્રવાળા અને સદા શ્રદ્ધાવાળા એવા પુરુષોને - જીવોને પૂર્વોકન મૈત્રી વગેરે ચાર ભાવનાઓ વારંવાર પુનરાવર્તન = અભ્યાસ કરવાથી અત્યંત આત્મસાન થાય છે. [૧૩/૧૧]
આ બધું યોગનો આરંભ કરનાર અને જેણે યોગારંભ કરી દીધેલ છે તેવા યોગાભ્યાસી યોગીઓને આશ્રયીને કહ્યું. નિષ્પન્નયોગવાળા
For Private & Personal Use Only
Jain Education Intemational
www.jainelibrary.org