________________
३०० त्रयोदशं षोडशकम्
पातञ्जलयोगसूत्रसमीक्षा
यदि चित्तवृत्तिनिरोधो योगलक्षणं तदा स्थानादीनां योगाङ्गत्वेऽपि योगत्वोपचारः । यदि च 'मोक्षयोजकव्यापारत्वमात्रं तदा जोपचार इति ध्येयम् ॥१३ / ४ ||
कल्याणकन्दली
| केइ इच्छन्ति ॥ ३ ॥ - इति ।
योगस्य ध्यानरूपस्य अभ्यास इति । इत्थमेव वक्ष्यमाणानालम्बनध्यानसिद्धेः, तदुक्तम् अभ्यासेन जिताहारोऽभ्यासेनैव | जितासनः । अभ्यासेन जितश्चासौऽभ्यासेनैवानिलत्रुटि: ।। अभ्यासेन स्थिरं चित्तमभ्यासेन जितेन्द्रियः । अभ्यासेन परानन्दोऽभ्यासेनैवात्मदर्शनम् । अभ्यासवर्जितैध्यनैः शास्त्रस्थैः फलमस्ति नो । भवेन्न हि फलैस्तृप्तिः पानीयप्रतिबिम्बितैः ||[ ] - इति । यदि 'योगः चित्तवृत्तिनिरोधो' [पा.यो.सू. १/२] इति पातञ्जलयोगसूत्रात् चित्तवृत्तिनिरोधः चित्तनिष्ठवृत्तिनिरोधत्वं योगलक्षणं तदा ' यम-नियमाssसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि योगस्य' [पा.यो.सू.२/२९] इति | पातञ्जलयोगसूत्रेण स्थानादीनां योगाङ्गत्वेऽपि हेतु-फलभावेन योगत्वोपचारः इति । सुगमार्थकल्पनावृत्तिकृतः श्रीयशोभद्रसूरे: | मतमुक्त्वा साम्प्रतं स्वाभिप्रेतमावेदयति - यदि च मोक्षयोजकव्यापारत्वमात्रं ‘मोक्षकारणीभूताऽऽत्मव्यापारत्वं योगत्वं' | इति योगलक्षणं सम्मतं तदा न स्थानादिषु योगत्वस्य उपचारः, शक्यार्थाऽबाधात् । ज्यायानयमेव पक्षः, लक्षणाया जघन्यवृत्तित्वात्, ऋजुगत्या सिध्यतोऽर्थस्य वक्रेण साधनाऽयोगात् । अत्र स्थानादिषु स्थानोर्णलक्षणं द्वयं कर्मयोग एव, स्थानस्य साक्षात् | ऊर्णस्याऽप्युच्चार्यमाणस्यैव ग्रहणादुच्चारणांशे क्रियारूपत्वात् । तथाऽर्थालम्बनानालम्बनलक्षणं त्रितयं ज्ञानयोग एव, अर्थादीनां साक्षाद् ज्ञानरूपत्वादिति । एवं स्थानादिषु प्रत्येकं इच्छा-प्रवृत्ति स्थैर्य सिद्धिभेदान्नानात्वमपि बोध्यम् । व्यवहारतोऽपुनर्बन्धकादयो हि स्थानादियोगस्वामिनः निश्चयनयेन तु चारित्रिण एवेति विवेकः इत्यादिकं व्यक्तं योगविंशिकाटीकायाम् [गा.२/३/ ४] । प्रकृते 'मुक्खेण जोयणाओ जोगो सब्बो वि धम्मवावारो' [यो. विं. १] इति योगविंशिकावचनात् समिति गुप्तिसाधारणं धर्मव्यापारत्वमेव योगत्वमिति मीमांसितवन्तः टीकाकृतः 'योगश्चित्तवृत्तिनिरोध:' [१ / २] इति योगसूत्रटिप्पणे । योगविंशिकावृत्तौ | अपि मोक्षकारणीभूताऽऽत्मव्यापारत्वस्यैव योगलक्षणत्वमावेदितम् [[ । योगशतकवृत्तौ निश्चयत आत्मनि ज्ञानादित्रितयसम्बन्धस्य व्यवहारतस्तु तत्कारणस्य योगत्वमाविष्कृतम् [गा. २] । अग्रे च तत्रैव -> • सर्वत्रोचितानुष्ठानं योगः - इति निष्टङ्कितमिति | [गा. २२] ध्येयम् । अधिकारविंशिकावृत्तौ श्रीसागरानन्दसूरिभिस्तु केचित्तु 'योगश्चित्तवृत्तिनिरोध' इत्याहुः योगलक्षणम् । तन्न चारु, यतोऽत्राश्रीयते को धातुः तैः 'युजिंच् समाधौ' 'युजूंपी योगे' इत्यनयोः ? यतो नैकोऽपि तदीयमनोरथव्रततिवृद्धये प्रभवति । आदौ समाधेर्योगाङ्गत्वेन स्वीकाराद् अङ्गाङ्गिभावो भज्येत । योग - समाध्योरन्यत्र तु धात्वर्थ एव लक्षणविरोधी, | निरोधविरुद्धत्वाद्योगस्य । न चैवं भवति योगारम्भक्रियाया योगत्वं, तदा चित्तवृत्तेरनिरोधात् कायवाङ्गनिरोधयोश्च योगत्वाभावाप्तेरनिष्टतैव । न च निर्विकल्पकसमाधावपि सर्वथा चित्तवृत्तिनिरोधः, तथा सति जडत्वापातात् किन्तु निरोध इव निरोधः । तथा चोपचरितमेव लक्षणं, न तत्त्वतः - [गा. १५] इत्युक्तम् । 'समत्वं योग उच्यते' [म.भा. शां. प. २६ / २८ ] इति महाभारते ।
->
આત્મા સાથે અત્યંત જોડે છે-એમ તત્ત્વવેત્તાઓ જાણે છે. તે ધ્યાનસ્વરૂપ યોગનો અભ્યાસ હોવાના કારણે આમ જાણવું. જો યોગનું લક્ષણ ‘ચિત્તવૃત્તિનિરોધ' એમ માન્ય કરવામાં આવે તો સ્થાન = આસન વગેરે યોગના અંગ હોવા છતાં તેમાં યોગપણાનો તાદાત્મ્યથી યોગનો ઉપચાર જાણવો. અને જો યોગનું લક્ષણ ‘મોક્ષયોજક વ્યાપારવત્ત્વ' માન્ય કરો તો ઉપચાર કરવો જરૂરી નહિ બને [કારણ કે તેમાં યોગપદનો મુખ્યાર્થ અબાધિત છે.] આ ધ્યાનમાં રાખવું [૧૩/૪]
Jain Education Intemational
=
વિશેષાર્થ :- સ્થાન વગેરે પાંચની યોજના આપણે ચૈત્યવંદનમાં વિચારીએ. [૧] યોગમુદ્રામાં [૨] સૂત્રના પદોમાં ઉપયોગ રાખીને [૩] સૂત્રના પદાર્થોની ધારણા કરીને, [૪] જિનપ્રતિમા વિશે દૃષ્ટિ સ્થિર કરીને અથવા મનમાં જિનપ્રતિમા-આકારનું ભાવન કરતાં ચૈત્યવંદન કરવા દ્વારા અતીન્દ્રિય પરમાત્મતત્ત્વમાં મનને જોડવાથી સ્થાન, વર્ણ, અર્થ, આલંબન અને અનાલંબન આ પાંચેય યોગોનો સર્વતોમુખી સુંદર રીતે અભ્યાસ = પરિભાવન કરવાથી મોક્ષ સાથે આત્માનું જોડાણ થાય છે. ધ્યાનસ્વરૂપ યોગના અભ્યાસસ્વરૂપ હોવાથી પાંચેય યોગોની પરિભાવના યોગાભ્યાસ કહેવાય છે.
[A] पातंजलयोगसूत्रमां 'योगः चित्तवृत्तिनिरोधः' आम गावे छे. पतंजलि ऋषिता भते [4] यम, [२] नियम, [3] आसन, [४] प्राणायाम, [4] प्रत्याहार, [६] धागा, [७] ध्यान अने [८] समाधि - आ आह योजना अंगो छे. तेथी સ્થાન, વર્ણ વગેરે યોગ નહિ પણ યોગના અંગ છે. તેથી સ્થાનાદિનો અભ્યાસ યોગાભ્યાસ નહિ પણ યોગાંગઅભ્યાસ બને, १. मुद्रितप्रतौ 'मोक्षयोजकब्यापारित्वमात्रं' इति पाठः ।
For Private & Personal Use Only
www.jainelibrary.org