SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ * लिङ्गस्य नमस्कार्यतायामुपयोगविचारः 88 ततो ज तद्धारयितुः प्रणन्तु: वा फलदमित्युभयथाऽप्यसारमित्यर्थः ॥१/४|| 'त्यागलक्षणत्वादिदं शोभनं भविष्यतीत्याशइवयाह -> 'बाह्ये'त्यादि । बाह्यग्रन्थत्यागान चारु, नन्वत्र तदितरस्यापि । कञ्चकमात्रत्यागान हि भुजगो निर्विषो भवति ॥१/५।। बाह्यग्रन्थस्य = धनधान्यादेः त्यागात् न चारु - शोभनं, बाह्यलिङ्ग गुणशून्यं ननु - जिश्चितं; अत्र लोके कल्याणकन्दली इच्छालोभसमापन्नो समणो किं भविस्सति ?।। - [१९/९] इति धम्मपदवचनमप्यत्रानुस्मर्तव्यम् । परिषहोपसर्गभीरोर्न वेषमात्रादपवर्गाप्तिः । तदुक्तं मुनिसुन्दरसूरिभिः अध्यात्मकल्पद्रुमे -> परिषहान्नो सहसे न चोपसर्गान्न शीलाङ्गधरोऽपि चासि । तन्मोक्ष्यमाणोऽपि भवाब्धिपारं, मुने ! कथं यास्यसि वेषमात्रात् ?|| आजीविकार्थमिह यद्यतिवेषमेष, धत्से चरित्रममलं न त कष्टभीरुः । तद्देत्सि किं न न बिभेति जगज्जिघृक्षमत्युः कुतोऽपि नरकश्च न वेषमात्रात् ।। - [अ.क.१३/४-५] इत्यादि ।। सुगमार्थकल्पनावृत्तिकारमते बाह्यलिङ्गाऽसारत्वे धर्मनिष्पत्त्यव्याप्यत्वस्य विडम्बकगृहीतत्वस्य च स्वातन्त्र्येण हेतुत्वम् । योगदीपिकाकृन्मते च बाह्यलिङ्गाऽसारतायां धर्मनिष्पत्त्यव्याप्यत्वस्यैव हेतुत्वम् तस्य तात्त्विकधर्मानुपधायकत्वे च विडम्बकग्राह्यत्वस्य हेतुत्वमिति विशेषः । न तत् = बाह्यलिङ्गं धारयितुः = स्वाश्रयस्य प्रणन्तुः वा = स्वप्रणामकारिणो वा फलदं = सद्धर्मयोगक्षेमवृद्धिलक्षणफलदायि इति हेतोः उभयथाऽपि = बाह्यलिङ्गधारकस्य तत्प्रणामकारकस्याऽप्यपेक्षया असारं = धर्मनिष्पत्तिलक्षणसारशून्यम् । इदञ्चोपलक्षणं कदाचिदुभयोरपि विपरीतफलप्राप्तेः । द्रव्यलिङ्गिनि बह्वारम्भादिदर्शनोत्तरमपि साधुत्वबुद्ध्या प्रणन्तुः कर्मबन्धकत्वोक्तेरावश्यकनियुक्त्यादी व्यक्तत्वात् । तदुक्तं तत्र -> जह वेलंबग-लिगं जाणंतस्स णमओ हवइ दोसो। णिद्धंसमिय णाऊण बंदमाणे धुवो दोसो ।। <- [आ.नि.११४९] इति दिक् ॥१/४॥ मूलग्रन्थे दण्डान्वयश्चैवम् > ननु बाह्यग्रन्थत्यागात् तत् न चारु, यतःतत्] इतरस्यापि अत्र भवति । न हि कञ्चकमात्रत्यागात् भुजगो निर्विषो भवति ॥१/५॥ निश्चितं न चारु = शोभनं इत्यत्र विशेषणमुखेन हेतुमावेदयति - वाह्यलिङ्ग स्वरूपतो गुणशून्यमिति । तस्य स्वरूपतो दुष्टत्वे त्वशोभनमित्युक्तं स्यात् । स्वरूपतो गुणवत्त्वे च चार्विति वक्तव्यं स्यात् । परं तदुभयविरहात् 'न शोभनमित्येवोक्तिः । न च विनिगमनाविरहान्नाऽशोभनमित्यपि वाच्यं स्यादिति वाच्यम्, आशङ्कितस्यैवानभिमतस्य व्यवच्छेदात्, लोके तस्याऽशोभनत्वेनाऽप्रसिद्धेः । एतेन बाह्यलिङ्गं चार्वेव, बाह्यग्रन्थत्यागात्, सम्प्रतिपन्नवदिति प्रत्युक्तम्, केवलं बाह्यलिङ्गं न चारु, गुणशून्यत्वात्, तथाविधवण्ठादिगृहीतलिङ्गवदित्यस्याऽपि मनीषितसाध्यसाधने बद्धकक्षत्वात् । यथोक्तं आवश्यकनियुक्ती -> लिगं पमाणं ? वंदाहि उ निण्हए तुमे सब्वे ! -- । न चैतावता सत्प्रतिपक्षमात्रत्वमेवेति शङ्कनीयम्. पार्श्वस्थादिसत्कबाह्यलिङ्गं न चारु, अन्येषां बोधिदुर्लभत्वादिनिमित्तत्वात् धर्मप्रतिपन्धित्वाद्वेत्यादिना पूर्वोक्तानुमाने व्यभिचाराच्छोभनत्वाभावसिद्धेः । तदुक्तं सूत्रकृताङ्गे -> जे याऽबुद्धा महाभागा, वीरा असमत्तदंसिणो । असुद्धं तेसि परकंतं, सफलं होइ सञ्चसो ।। - [सूत्रकृ.१/८/२२] इति । 'सह फलेन = कर्मबन्धेन वर्तते इति सफलं' इत्येवं व्याख्यातं श्रीशीलाङ्काचार्येण तद्वृत्तौ । अत एव केवलस्य द्रव्यलिङ्गस्याऽशुद्धत्वसिद्धिरप्यनाविला । नैश्चयिकसम्यग्दर्शनादिकलिते एव तस्योपयोगित्वं नमस्कार्यतादौ । तदुक्तं टीकाकृताऽपि अध्यात्ममतपरीक्षावृत्तौ -> द्रव्यलिङ्गं हि तद्वति स्वत एवं गुणवत्त्वप्रतिसन्धापकतया स्वसमानाधिकरणगुणवत्त्वप्रतिसन्धापकतया वा नमस्कर्तव्यतायामुपयोगि सत् तद्विषयकमुत्साहमाधायाऽध्यात्म-|| शुद्धय प्रभविष्णु, न तु प्रतिमादिवत्तटस्थतयैव स्वसदृशस्मारकतया । तथा च द्रव्यलिङ्गं सावद्यस्वाश्रयविषयकोत्साहाधायकतया ધારણ કરે છે. [સાધુવેશ ધારણ કરવા છતાં તેની પાસે તાત્ત્વિક ધર્મ નથી રહેતો.] માટે તેવા કેવલ બાહ્ય વેશને ધારણ કરનારને કે તેને પ્રણામ કરનારને બેમાંથી કોઈને પણ ફલ નથી. માટે બાહ્ય વેશ લેનાર અને નમનાર બન્નેની અપેક્ષાએ બાહ્ય વેશ ધર્મનિષ્પત્તિની द्रष्टिने नि०६॥ . [१/४] વિશેષાર્થ :- કેવળ બાહ્ય લિંગને = વેશને ધારણ કરવાથી જ તાત્વિક ધર્મ ઉત્પન્ન થઈ નથી જતો. નટ, બહુરૂપી વગેરે પાગ પૈસા, યશ, કીર્તિ વગેરે માટે સંન્યાસીના વેશને ધારણ કરીને સંન્યાસી જેવો આબેહુબ હાવભાવ કરે તેટલા માત્રથી તે વંદનીય બની જતા નથી. બાહ્ય વેશને જ ધર્મસાધનરૂપે પ્રધાનતાથી જોનાર બાલ જીવ જ કહેવાય [૧૪] અહીં એવી શંકા થાય કે –– બાહ્ય સાધુવેશને ધારણ કરવો એ પણ સંસારત્યાગ સ્વરૂપ હોવાના લીધે સુંદર બનશે. માટે | બાહ્ય લિંગને અસાર કહેવું બરાબર નથી. <– તો તેના સમાધાનમાં મૂલકારથી ફરમાવે છે કે – માશાર્ચ :- ખરેખર બાહ્ય ગ્રંથિના ત્યાગના લીધે તે [બાહ્ય લિંગ સુંદર નથી, કારણ કે તે અન્યને [= પશુ વગેરેને પાર आमा छोय [संम] ७. sivilना त्यामात्रयी सा५ २ विनानो कई नथी तो. [१/५] 3 મંતવંગ પરિગ્રહ છોડો છું १. मुद्रितप्रती 'फटमिति पाठः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.004833
Book TitleShokshaka Prakarana Part 1
Original Sutra AuthorHaribhadrasuri
AuthorYashovijay of Jayaghoshsuri
PublisherDivya Darshan Trust
Publication Year2000
Total Pages240
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy