________________
८ प्रथम - षोडशकम्
ॐ गुणशून्यस्य साधुवेशग्रहणमकिञ्चित्करम्
बाह्यलिङ्गप्राधान्यदर्शिनो बालत्वे हेतुमाह -> 'बाह्यमित्यादि ।
बाह्यं = बहिर्हश्यं, लिङ्गं न अस्ति । यस्माच्च कार्यवशतः
बाह्यं लिङ्गमसारं तत्प्रतिवद्धा न धर्मनिष्पत्तिः । धारयति कार्यवशतो यस्माच्च विडम्बकोऽप्येतत् ॥ १/४॥ वेशादिचिह्न, असारं अफलं यतः तत्प्रतिबद्धा = तदविजाभाविनी धर्मनिष्पत्तिः स्वप्रयोजनाभिलाषात् विडम्बकोऽपि एतत् = लिङ्गं धारयति ।
=
कल्याणकन्दली
तथाविधगहन विषयाऽध्यापनादिकुशलस्याऽसहिष्णोः नमस्कारसहितादिकरणेऽपि मोक्षमार्गानुसारित्वमनाविलमेव, अन्याऽसाध्यविशिष्टतरविहितपरार्थसाधकत्वस्य गत्यन्तरेणाऽनुपपत्तेरित्यादिकमूहनीयमत्रागमानुसारेण ।
यत्तु महाभारते -> पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः । सर्वे व्यसनिनो मूर्खा यः क्रियावान् स पण्डितः ॥ <- [वनपर्व ३१३/११०] इत्युक्तं तत्र क्रियापदेन ज्ञानादित्रयानुसारिक्रियाऽवगन्तव्येति नातिव्याप्तिः । एतेन अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः । धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥ <- [ १२ / १०३] इति मनुस्मृतिवचनमपि व्याख्यातम् । -> लोभ-शोक-भय-क्रोध- मानवेगान् विधारयेत् । नैर्लज्ज्येर्ष्यातिरागाणामभिध्यायाश्च बुद्धिमान् ॥ <- [ ७/ [२७] इति चरकसंहितावचनमपि प्रकृतपण्डितलक्षणसूचकम् । कण्हं धम्मं विप्पहाय सुकं भावेथ पण्डितो - [६/ [१२] इति धम्मपदवचनमप्यत्रानुसन्धेयम् । द्वितीयकारिकायां नानाविध- धर्मपरीक्षणलक्षणव्यापारद्वारा बालादीनां स्वरूपमुक्तम्, इह चाचारद्वारेति न पौनरुक्त्यमविशेषो वाऽनयोरिति ध्येयम् ॥१/३॥
=
<
धर्मतया धर्मसाधनतया वा बाह्यलिङ्गप्राधान्यदर्शिनो बालत्वे हेतुमाह - बाह्यमिति । मूलग्रन्थे दण्डान्वयस्त्वेवम् -> बाह्यं लिङ्ग असारं, [ यतः] तत्प्रतिबद्धा न धर्मनिष्पत्ति:, यस्माच्च विडम्बकोऽपि कार्यवशत एतत् धारयति ॥ १ / ४ || असारं अफलं, मोक्षौपयिकफलापेक्षयेदमवगन्तव्यम् । ततश्च धन-यशः प्रभृत्यपेक्षया बाह्यवेशादेः सफलत्वेऽपि न क्षतिः । तत्प्रतिबद्धा तदविनाभाविनी बाह्यलिङ्गस्य व्यापकीभूतेत्यर्थः बहुव्रीहिसमासादवसेयः । तदुक्तं लिङ्गप्राभृते कुन्दकुन्दस्वामिना - -> धम्मेण होइ लिंगं, पण लिंगमित्तेण धम्मसंपत्ति - [२] । तदुक्तं मनुस्मृती अपि न लिङ्गं धर्मकारणम् - [६ / ६६ ] इति । कचित् कदाचित् मेतार्यघातकगृहीतसाधुलिङ्गस्वर्णकारादेरिव, मरणासन्नमन्त्रिसमाधिदानहेतुक-गृहीतयतिलिङ्गवण्डादेखि वा पश्चात् सम्यक्परिणामाधानसम्भवेऽपि सर्वत्र तादृशो नियमो नास्ति, विनयरत्नादौ व्यभिचारादिति भावः । विडम्बकोऽपि = नटवण्ठादिरपि सभ्यजनमनोरञ्जनाय लिङ्गं धारयति । न च तत्र साधुता समस्ति । तदुक्तं व्यवहारसूत्रभाष्ये -> वेसकरणं पमाणं न होई <- [२ / ३०९ ] | एवमेव पार्श्वस्थादावपि दृष्टव्यम् । यथोक्तं उपदेशमालायां -> दगपाणं पुप्फफलं अणेसणिज्जं गिहत्थकिच्चाई। अजया पडिसेवंति जइवेसविडंचगा नवरं ॥ ३४९ ॥ - आत्मदर्शनविरहस्यैतद्विजृम्भितत्वात्तदीयवेशस्याऽकिञ्चित्करत्वमेव । तदुक्तं मोक्षप्राभृते कुन्दकुन्दस्वामिना बाहिरसंगविमुको गवि मुक्को मिच्छभावणिग्गंधो। किं तस्स ठाणमउणं ण वि जागदि अप्पसमभावं ॥ ९७॥ - इति । तद्दर्शनोपदेशश्रवणादिना परस्य कथञ्चिल्लाभेऽपि तस्य गुणशून्यत्वात् । तदुक्तं उपदेशमालायामेव -> पढइ नडो वेरग्गं, निव्विज्जिज्जा य बहुजणो जेण । पढिऊण तं तह सढो, जालेण जलं समोअरइ । | || ४७४ || आत्माववोधकुलकेऽपि -> अप्पाणमबोहंता परं विबोहंति केइ तेवि जडा । भण परियणंमि छुहिए सत्तागारेण किं कज्जं ॥३८॥ इत्युक्तम् । अत एवोक्तं उत्तराध्ययनसूत्रे -> न वि मुंडिएण समणो, न ओंकारेण बंभणो || न मुणी रण्णवासेण, कुसचीरेण न तावसो || <- [उत्त. २५/३० ] इति । न मुण्डकेन समणो अब्बतो अलिकं भणं ।
->
=
=
કરતી વખતે તેના નિમિત્તે કોઈ દુર્લભબોધિ બની ન જાય તેનું પ્રધાન લક્ષ્ય રાખવું, શાસનવિરાધનાના ભોગે સંયમચર્યાને પ્રધાન न मनाववी, सोमर्यादा- शास्त्रीयव्यवहार-स्वशक्ति द्रव्य-क्षेत्र-ल-भाव वगेरेनो विचार रीने उचित प्रवृत्ति रवी.. आवा आयार દ્વારા રત્નત્રયના આરાધક એવા માર્ગસ્થ ક્ષયોપશમવાળા જીવને પંડિત જીવ જાણવો.[૧/૩]
ધર્મના માપદંડ તરીકે અથવા ધર્મસાધનરૂપે બાહ્ય વેશને પ્રધાનતયા જોનાર જીવને શા માટે બાલ જાણવો ? તે બાબતમાં મૂલકારથી હેતુ બતાવે છે કે –
गाशार्थ :- [કેવલ] બાહ્ય વેશ અસાર છે, કારણ કે ધર્મનિષ્પત્તિ તેને બંધાયેલી નથી. કેમ કે વિડંબક [નટ] પણ કાર્યવશ आध वेशने प्राशु २ . [१/४]
ठेवण बाह्य वंश असार
દીકાર્થ :- બહારથી દેખી શકાય તેવા વેશ વગેરે બાહ્ય ચિહ્ન નિષ્ફળ છે, કારણ કે ધર્મની નિષ્પત્તિ તેની અવિનાભાવી = વ્યાપક નથી. અર્થાત્ જ્યાં જ્યાં બાહ્ય સાધુવેશ હોય ત્યાં ત્યાં અવશ્ય તાત્ત્વિક ધર્મની ઉત્પત્તિ થયેલી જ હોય- એવો નિયમ નથી. કેમ કે પોતાના ધનપ્રાપ્તિ વગેરે પ્રયોજનને સિદ્ધ કરવાની ઈચ્છાથી નટ, બહુરૂપી વગેરે પણ બાહ્ય લિંગ-સાધુવેશ વગેરે
Jain Education Intemational
For Private & Personal Use Only
www.jainendrary.org