________________
१९० अष्टमं षोडशकम्
28 विविधप्रतिष्ठाविचारविमर्शः ॐ स्थण्डिले - शुद्धस्थानमात्रे अपि एषा मनःस्थापनया विशिष्टविधिसामग्री विना पश्चनमस्कारस्थापनामात्रेणापि प्रशस्ता = अभिमता, अत्राऽऽकाशगोमयादिभिः = पवित्रोवस्थ(मय)गोमयादिभिः उपलेपनादि भूम्यादेहितं. तावतमात्रविधेरपि फलदत्वात् । एते सर्वेऽपि पक्षा: स्वोपयोगसाधारणानामनुष्ठानानां 'उवयारंगत्ति' उपकारागाजीति किचिद्
- कल्याणकन्दली -> श्रावकाः केचित् जिनानां प्रतिमासु प्रथमतः ‘पट्ठवणे'त्ति प्रतिष्ठापनं कर्तृकामाः... <- [गा.१७९२-वृ. ] इति ।। श्रावकस्य प्रतिष्ठाकर्तृत्वे तु 'प्रतिष्ठां कर्तृकामा' इत्युक्तं स्यात् । ततश्चाचार्यः प्रतिष्ठां करोति, तं कुर्वन्तं श्रावकः प्रयुङ्क्ते इत्यर्थपरमेव तज्जातम् । कथाकोशवृत्तिवचनंमपि विद्याधरकृतं प्रतिमान्यसनमेव बोधयति, न तु प्राणप्रतिष्ठाम्; 'महुरानगरी घरे कए पढमं अरिहंता पइट्ठविति, मंगलनिमित्तं । जह न करेति घरं पडति - [१७७६] इति वृहत्कल्पभाष्यविशेपचूर्णिवचनवत् । तदुक्तं जीवानुशासने श्रीदेवसूरिभिः → जइ पुण पइट्टअत्यो हवेज तो महुरणयगेहेसु । मंगलपडिमाणं पि हु तुम्ह मया पावइ पइट्ठा - ||१३|| सूरेः प्रतिमाप्राणप्रतिष्ठाकर्तृत्वं तु -> रूप्यकच्चोलकस्थेन विधिना मधु-सर्पिषा ।। नेत्रोन्मीलनं कुर्यात्, सूरिः स्वर्णशलाकया ।। - [ ] इति वाचकोमास्वातिकृत-प्रतिष्ठाकल्पवचनात प्रसिद्भमेव । समुद्राचार्येणापि -> सदसेण धवलबत्थेण वेढियं वास-धूव-पुप्फेहिं । अभिमंतियं तिवारा सूरिणा सूरिमंतेण ।। -[ ] इत्युक्तम् । -> थुइदाण-मंतनासो आहवणं तह जिणाण दिसिबंधो । नेत्तुम्मीलण-देसणा गुरुअहिगारा इहं कप्पे ।। ।। एतानि गुरुकृत्यानि, शेषाणि तु श्राद्धकृत्यानि इति तपागच्छसामाचारीवचनात - इति गणरत्नसूरिणा प्रतिष्ठाकल्पे यदक्तं ततोऽपि प्राणप्रतिष्ठायाः प्रधानकर्तृत्वं श्रावके न सिध्यति, नेत्रोन्मीलनस्यैव व्यवहारतः तात्त्विकप्रतिष्ठारूपत्वात् । प्राचीनसामाचारीप्रकरणेऽपि (पृ.३१) अयमेवार्थ उक्तः । सकलचन्द्रोपाध्यायेनाऽपि प्रतिष्ठाकल्पे दर्शनज्ञानचारित्रोपेतस्य निष्परिग्रहस्य महाप्रभावकस्याचार्यस्यैव प्रतिष्ठाधिकारित्वमावेदितम् [पृ.४] । कथारत्नकोशेऽपि श्रीदेवभद्रसूरिभिरेव -> सोवत्रवट्टियाए कुजा महसकराहिं भरियाए । कणगसलागाए बिंब-नयण-उम्मीलणं लग्गे । सम्मं पइट्टमंतेण अंगसंधीसु अक्खरनासं । कुणमाणो एगमणो सूरि वासे खिवेज तहा ।।- [प्र.८६ गा.४२/४३] इत्येवं सूरेरेव प्राणप्रतिष्ठाया: प्रधानकर्तत्वमाविष्कृतम् । प्रतिष्ठाकल्पेऽपि -> तो इ8से | पत्ते हेमसलागाए. मंतविहिपुचं जिणनेत्तुम्मीलणयं करेज बन्ने नसं तत्थ ।। अच्छी-निलाड-संधिसु हियए. बिय सिरिपयाइए बन्ने । रययरस बट्टियाए गहियमहू धिरमणो सूरि ।। - [ ] इत्येवं सूरेः प्राणप्रतिष्ठाविधिनियोगः प्रोक्तः । यदपि शत्रुञ्जयमाहात्म्ये धनेश्वरसूरिभिः - प्रतिष्ठामर्हतां यो हि कारयेत्सूरिमन्त्रतः । सोऽहत्प्रतिष्ठां लभते यथा वापस्तथा फलम् ॥ <- [4/५००] इत्युक्तं ततोऽपि सूरेरेव प्राणप्रतिष्ठाकर्तृत्वं श्रावकादीनाञ्च तत्कारकत्वं सिध्यतः । अन्यत्रापि -> प्रतिष्ठाप्या जिनेन्द्राणां प्रतिमा निर्मिता नवाः । विधिना सरिमन्त्रेण गुरुणा ब्रह्मचारिणा || [ ] इत्युक्तम् । चैत्यवन्दनमहाभाष्येऽपि -> इय बहविहबिंबाई सूरिहिं पइट्ठाई दीसंति । भबियाणंदकराई पभावगाइं पवयणस्स ||३१|| <- इत्युक्तम् । काशहृदश्रीभिन्नमाल-सत्यपुरादिषु संवत्सरान्विताचार्यनामाक्षराणि जिनबिम्बेषु दृश्यन्त एव प्राणप्रतिष्ठाकर्तृतया। तदुक्तं जीवानुशासने देवसूरिभिः -> तह कासदह-सिरिभिल्लमाल-सच्चउरबिंबमाईणं । अपमाणयं कुणंतेहिं तेहिं अप्पा भवे खित्तो ।। - [१४] इति । काशहदीयजिनस्तोत्रेऽपि -> नमि-विनमिकुलान्वयिभिर्विद्याधरनाथ-कालिकाचार्यः । काशहदशवनगरे प्रतिष्ठितो जयति जिनवृषभः ।। - [ ] इत्युक्तम् । विध्यनभिज्ञनया प्राणप्रतिष्ठाकरणे महापाय एव । तदुक्तं पादलिप्तसूरिभिः -> अवियाणिऊण य विहिं जो हवेति मूढमाणो । अहिमाण-लोहजुत्तो निवडइ संसारजलहिंमि ।। - इति । प्राणप्रतिष्ठाकरणे सूरेर्यथा न महाव्रतादिलोपः तथा विविदिषुभिः श्रीअजितदेवसूरिविरचितं मोहोन्मूलनवादस्थानकं विलोकनीयम् । आचारदिनकरे तु खरतरगच्छीयेन श्रीवर्धमानसूरिणा -> आचार्यः पाठकैश्चैव साधुभिः ज्ञानसक्रियः । जैनविप्रैश्च क्षुल्लकैश्च प्रतिष्ठा क्रियतेऽर्हतः ।। - [प्रतिष्ठाविधि-पृ.१४७-गा.१४] इत्युक्तं तच्चिन्तनीयम् ।
शुद्धस्थानमात्रेऽपि मनःस्थापनया पश्चनमस्कारमात्रेणाऽपि प्रशस्ता = फलावहा । न च बिम्बविरहे शुद्धस्थानमात्रे मन:स्थापनया नमस्कारकरणे को हि लाभ इति शङ्कनीयम्, तत्र मनोमयस्य बिम्बस्य सद्भावात्, बिम्बस्याऽष्टविधत्वेन परैरप्युक्तत्वात्, यथोक्तं -> शैली दारुमयी लौही लेप्या लेख्या च सैकती । मनोमयी मणिमयी प्रतिमाऽष्टविधा स्मृता ।। - [ ] કરાવેલ પ્રતિકાથી પૂજન ફળવાળી થાય છે.' એમ અપર જૈનાચાર્યો માને છે. [૧] કેવળ શુદ્ધ જગ્યામાં પણ મનસ્થાપનાથી = વિશિષ્ટ વિધિ-સામગ્રી વિના નવકારની સ્થાપના કરવા માત્રથી પાણ પૂજ પ્રશસ્ત છે, માન્ય છે. શુદ્ધ જમીનમાં પ્રભુપ્રતિમાની બુદ્ધિથી પવિત્ર ઘાસ = દ” નામનું ઘાસ, છાશ વગેરેથી શુદ્ધ જમીન વગેરેનું ઉપલેપન = લિપાણે પાણ હિતકારી છે અર્થાત ફક્ત આટલી વિધિ પણ ફળ આપે છે. [૨] આ બધા ય પક્ષો પોતાના ઉપયોગને સમાન = અનુરૂપ એવા અનુમાનોના ઉપકારક અંગો છે. આથી કોઈક વિશેષતાથી વિશિષ્ટ ફળને આપે છે. કારણ કે દરેક ક્રિયા = અનુમાન બધાને ઉપયોગસદશ = સ્વોપયોગસમાન | = પોતાના ઉપયોગને અનુસાર સુંદર હોય છે. કોઈ પણ અનુષ્ઠાન કોઈને સ્વાતિથી = પ્રકૃતિથી = સ્વભાવથી પ્રતિનિયત નથી.
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org