________________
* आचार्यस्यैव प्राणप्रतिष्ठाकर्तृत्वस्थापनम्
१८९
| भक्तिविशेषाऽऽधायकतयाऽऽद्रियन्ते । तथा चोक्तं ग्रन्थकृतैव पूजाविंशिकायां -> सयकारियाइ एसा जायइ लवणाइ बहुफला केई । गुरुकारियाइ अन्ने विसिद्धविहिकारियाए अ || थंडिल्ले वि य एसा मणठवणाए पसत्थिगा चेव । | आगास-गोमयाइहिं एत्थमुवलेवणाइ हियं ॥ उवयारंगा इह सोवओगसाहारणाण इट्ठफला । किंचि विसेसेण तओ सत्वे ते विभइयव्वत्ति ॥ (विं. विं. ८ / १३-१४-१५) आसामर्थलेशो यथा -> स्वयंकारितया स्थापनयैषा पूजा बहुफला जायत इति केचिन्मन्यन्ते । गुरवः = मातृ-पितृ-पितामहादयः तैः कारितयेत्यन्ये । विशिष्टविधिकारितयेति अपरे ।
कल्याणकन्दली
| तत एव स्वप्रतिष्ठापितत्वादिविशेषाः = स्वकारितत्व-गुरुकारितत्वादिविशेषा अपि पुरुषविशेषे = बाहुल्येन व्यवहारनयानुसृतजीवविशेषे भक्तिविशेषाधायकतया विशिष्टभक्तिबहुमानादिप्रयोजकतया आद्रियन्ते । तदुक्तं प्रतिमाशकवृत्ती
->
| प्रतिष्ठाजनिता आत्मगता समापत्तिरेव स्वनिरूपकस्याप्यालम्बनत्वसम्बन्धेन प्रतिष्ठितत्वव्यवहारजननीत्यर्थः, यां द्राक् = शीघ्रं | प्रत्यभिज्ञाय पूजा कृता विशिष्टफलदा स्यात् । विशिष्टं फलं = आकारमात्रालम्बनाध्यवसायफलातिशायि । तथा च प्रतिष्ठितविषयकं यथार्थं प्रत्यभिज्ञानमेव पूजाफलप्रयोजकमिति तेनाऽस्यां प्रतिष्ठायां गुणवतां प्रशस्तगुणानां कर्तृणां अधिकारिता; शुद्धस्य विशिष्टस्याऽऽशयस्य स्फूर्त्तये 'विशिष्टगुणवत्प्रतिष्ठितेयं' इति प्रत्यभिज्ञाने विशिष्टाध्यवसायस्य प्रत्यक्षसिद्धत्वात् । वैगुण्ये | | तु = प्रतिष्ठाविधिसामग्ग्रसम्पत्तौ तु ततः प्रत्यभिज्ञानात् स्वतोऽपि उपनताद् बाह्यसामग्री विना मनसोऽप्युपस्थितात् प्रतिष्ठाफलमिष्टम् [गा. ९६] |
=
=
→
->
गुरवः मातृ-पितृ -पितामहादय इति । अत्र च मातृ-पितृ-पितामहादिषु बिम्बप्रतिष्ठायाः प्रयोजककर्तृत्वमेवाभिमतम्, उत्सर्गतः सूरेरेव प्रतिष्ठाकर्तृत्वात् । एतत्तत्त्वमजानानाः केचितु • श्रावकेणैवाऽर्हत्प्रतिमाप्रतिष्ठा कार्या, दमयन्तीचरित्रभुवनसुन्दरीचरित्र-बृहत्कल्पादिषु श्रावकस्यैव जिनबिम्बप्रतिष्ठाकर्तृत्वेन श्रवणात् । तथाहि दमयन्त्यां -> तत्थ बहुमज्झदेसे | पवराययणं पराए भत्तीए । कारवियं जिणभुवणे पइट्ठियं संतिजिणबिंबं ॥ [ ] इत्येवमुक्तत्वात् दमयन्त्यैव प्रतिष्ठा कृता, | तत्र यतेरभावात् । भुवनसुन्दर्यां च शक्रावतारे एकं बिम्बमाश्रित्य शक्र - चक्रवर्ति-वासुदेवादयश्चक्रिरे प्रतिष्ठाम् <- इत्युक्तम् । | बृहत्कल्पभाप्यचूर्णौ सावओ कोऽवि पढमं जिणपडिमाए पतिट्ठवणं करेति <[ १७९२] इत्युक्तम् । श्रीप्रद्युम्नसूरिकृतस्य स्थानकापरनाम्नो मूलशुद्धिप्रकरणस्य वृत्तौ श्रीदेवचन्द्रसूरिणा -> काऊण पाणवित्तिं फलेहिं तो गिरिगुहाए मज्झम्मि | मट्टियमयजिणपडिमं काउं वंदेइ भत्ती ॥ १२६ ॥ - इत्येवं नर्मदासुन्दरीकृतत्वेन जिनप्रतिष्ठा दर्शिता । कथाकोशस्वोपज्ञवृत्ती अपि अडवीपएसे वेयङ्कवासिविज्जाहरेहिं भगवओ तिलोयनाहस्स जुगादिदेवस्स मुत्तासेलमई पडिमा पइट्ठिया अहेसि [गा. २ पृ. २- पं. ९ ] इत्युक्तमित्याहुः ।
1
<
->
अत्र वदन्ति दमयन्ती भुवनसुन्दरी-नर्मदासुन्दरीभिः स्थापनामात्रमेव कृतं न तु सम्पूर्णः प्रतिष्ठाविधिः समनुष्ठितः; | सङ्घाह्वान-वेदि-वारक-जवारकाणां तत्काल - देशयोरसम्भवात् । कथारत्नकोशे श्रीदेवभद्रसूरिदर्शितः ‘घोसावेज्ज अमारिं, रन्ना संघस्स तह य वाहरणं । विन्नाणियसम्माणं, कुज्जा खेत्तस्स य विसुद्धिं ॥ नवरं सुमुहुत्तंमि, पुव्वुत्तरदिसिमुहं सउणपुब्वं वज्जंतेसु चउब्विह-मंगलतूरेसु पउरेसु ।। तो सव्वसंघसहिओ ठवणायरियं ठवित्तु पडिमपुरो । देवे बंदइ सूरी परिहियनिरुवहयसुइ| वत्थो ॥ [पृ. ८६ गा. १७-१९-२०] इत्यादिः प्रतिष्ठाविधिस्तत्र न प्रवृत्त इति सुप्रसिद्धमेव । अङ्गाऽसिद्धौ कथं प्रधानसिद्धिः । बृहत्कल्पभाप्यचूर्ण्यादिषु चेनर्थानुपपत्तेः श्रावकाणां तत्प्रयोजककर्तृत्वमेवावसेयम् । तदुक्तं बृहत्कल्पभाष्यवृत्ती श्रीक्षेमकीर्तिसूरिभिः |
=
=
=
થવી વગેરે વિશેષ પ્રકારો પણ વ્યક્તિવિશેષમાં વિશેષ પ્રકારની ભક્તિ લાવવાના કારણે આદરણીય છે. (અર્થાત્ ‘આ પ્રતિમાની પ્રતિષ્ઠા મેં કરાવેલી છે' આવી બુદ્ધિ થવાથી અમુક ભાગ્યશાળીઓને વિશેષ પ્રકારની ભક્તિ ઉત્પન્ન થતી હોય તો તેવી વ્યક્તિએ પોતે જ પ્રતિષ્ઠા = અંજનશલાકા કરાવીને પ્રભુભક્તિ કરવી જોઈએ. આ પ્રમાણે અમુક જૈનાચાર્યો વિધાન કરે છે.) મૂળગ્રંથકાર શ્રીહરિભદ્રસૂરિ મહારાજે જ ત્રણ ગાથા દ્વારા પૂજાર્વિશિકામાં કહ્યું છે —> પોતે કરાવેલ સ્થાપનાથી આ પ્રતિષ્ઠા બહુફળવાળી થાય છે- એમ કેટલાક જૈનાચાર્યો કહે છે. પોતાના ગુરુવર્ષે કરાવેલ પ્રતિષ્ઠાથી બહુ ફળ મળે છે- એમ અન્ય જૈન વિદ્વાનો કહે છે. અમુક જૈન આચાર્ય ‘વિશિષ્ટ વિધિથી કરાવેલ સ્થાપનાથી પ્રતિષ્ઠા બહુફળવાળી થાય છે' એમ કહે છે. [૧] શુદ્ધ જમીનમાં પણ મનથી કરેલ સ્થાપનાથી આ પ્રતિષ્ઠા પ્રશસ્ત બને છે. (પ્રતિષ્ઠા બુદ્ધિથી) ખુલ્લી જગ્યામાં છાણ વગેરેથી ઉપલેપન = લિંપણ વગેરે પણ હિતકારી છે. [૨] ‘પોતાના ઉપયોગને સમાન એવા અનુષ્ઠાનોના ઉપકારક અંગ હોવાથી કંઈક વિશેષતાથી ઇષ્ટ ફળ આપનાર તે બધા પક્ષોનું વિભજન કરવું યોગ્ય વિભાગ કરવો. [૩] આ ત્રણેય ગાયાનો આંશિક અર્થ ટીકાકાર શ્રીમદ્જી જણાવે છે કે ‘પોતે કરાવેલ સ્થાપનાથી = પ્રતિષ્ઠાથી પૂજા બહુફળવાળી થાય છે' એમ કેટલાક જૈનાચાર્યો માને છે. ‘માતા, પિતા, દાદા વગેરે ગુરુજનોથી કરાવાયેલ પ્રતિષ્ઠાથી પૂજા બહુફળવાળી થાય છે' એમ અન્ય જૈનાચાર્યો કહે છે. ‘વિશિષ્ટ વિધિથી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org