________________
888 नानाविधप्रतिष्ठास्थले सम्यगनेकान्तवादप्रदर्शनम् 888 विशेषेणेष्टफलाः । कर्म हि सर्व सर्तस्योपयोगसदृशं प्रशस्तं, ज तु कस्यचित् किश्चित् जात्या प्रतिजियतम् । ततो यस्य सदुपकारकं तस्य तदिष्टमिति स्वकृतस्थापनादिपक्षाः सर्वेऽपि विभवतव्याः । स्वकृतस्थापनादिबुद्ध्या भक्तिविशेषोत्पत्तौ समीचीना ममत्वकलहाधुत्पत्तौ चाऽसमीचीना इति भावः ।
___ कल्याणकन्दली किञ्चिद्विशेषेण भक्त्यादिविशेषेण इष्टफलाः । अतो न ते दूषयितव्याः, तदुक्तं चैत्यवन्दनमहाभाष्येऽपि -> तो सत्ताऽपडिसिद्धा पवयणसोहावहा चिरपवत्ता । सच्चा न दसियन्वा आयरणा मुत्तिकामेहिं ॥३३॥ - इति । । सर्वेऽपि विभक्तव्या इति । सत्येतरविभजनमेवाऽऽवेदयति - स्वकृतस्थापनादिवृद्ध्या भक्तिविशेपोत्पत्ती जिनबिम्बादिगोचरभक्तिविशेषोत्पत्ती समीचीना इति ममत्व-कलहाद्युत्पत्तौ चासमीचीना इति भावः ।
यथोक्तं सम्यक्त्वप्रकरणे -> गुरुकारियाई केइ अन्ने सयकारियाइ तं बिंति । विहिकारियाइ अन्ने पडिमाए पूअणविहाणं -- ।।२५।। तद्व्याख्या चैवं -> गुरवो मातृ-पितृ-पितामहादय: तै: कारिताया: केचित्, अन्ये स्वयंकारितायाः, विधिकारितायास्त्वन्ये प्रतिमायास्तत्पूर्वाभिहितं पूजाविधानं ब्रुवन्ति, कर्तव्यमिति शेषः । अवस्थितपक्षस्तु गुर्वादिकृतत्वस्यानुपयोगित्वात् ममत्वाऽग्रहरहितेन सर्वप्रतिमा अविशेषेण पूजनीयाः, सर्वत्र तीर्थकृदाकारोपलम्भेन तबुद्धेरुपजायमानत्वात्, अन्यथा हि स्वाग्रहवशात् अर्हबिम्बेऽप्यवज्ञामाचरतो दुरन्तसंसारपरिभ्रमणलक्षणो बलवद्दण्डः समाढौकते । न चैवमविधिकृतामपि पूजयतः तदनुमतिद्वारेणाउज्ज्ञाभङ्गलक्षणदोषापत्तिः, आगमप्रामाण्यात् [श्राद्धविधिवृत्ति पृ.१३३] । तथाहि श्रीबृहत्कल्पभाष्ये > निस्सकडमनिस्सकडे वा वि चेइए सबहिं थुई तिन्नि। बेलं व चेइआणि य गाउं इक्किक्कया वा वि ॥१८०४।। <- इति । -> निश्राकृते = गच्छप्रतिबद्धे, अनिश्राकृते वा तद्विपरीते चैत्ये सर्वत्र तिम्रः स्तुतयो दीयन्ते । अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति, भूयांसि वा तत्र चैत्यानि ततो वेलां चैत्यानि वा ज्ञात्वा प्रतिचैत्यमेकैकाऽपि स्तुतिर्दातव्येति - इति वृहत्कल्पवृत्तिकृतः श्रीक्षेमकीत्त्याचार्याः । गुरुकारितादिप्रतिमापूजनमतप्रतिपादनावसरे श्रीतिलकाचार्यण तु दर्शनशुद्धिप्रकरणवृत्ती > परं मतान्येवैतानि, कार्यपक्षस्त्वर्हत्प्रतिमां दृष्ट्वा पूजयेद्, अन्यथाऽवज्ञा स्यात् -- [गा.२५ वृ.प्र.१७१] इत्युक्तम् । एतेन -> गच्छान्तरीयाः प्रतिमा न बन्दनीया गच्छान्तरपरिगृहीतत्वात् । यो यो गच्छान्तरपरिगृहीतः स सोऽवन्दनीयः यथाऽन्यगच्छसाधुः <- इति धर्मसागरमतमपि प्रत्युक्तम् । अत्रावस्थितपक्षो ह्येवं जिनपूजानियामकं उत्सर्गतो विधिकारितत्वमेव, गुरुकारितत्वस्वयंकारितत्वयोरपि तद्विशेषरूपयोरेवात्रोपन्यासात् । अत एव विषयविशेषपक्षपातोल्लसद्वीर्यवृद्भिहेतुभूततया तदन्यथात्वे च त्रयाणामपि पक्षाणां भजनीयत्वोक्तिः । विधिकारिताऽसम्पत्तावपवादतस्त्वाकारसौष्ठवमवलम्ब्य मनःप्रसत्तिरापादनीया । न चैवमविध्यनुमतिः अपवादालम्बनेन तन्निरासात् क्रमदेशनायां स्थावरहिंसाऽनुमतिवद् भक्तिव्यापारप्रदर्शनेन दोषोपस्थितिप्रतिरोधाद्वा काव्य इव व्यक्तिप्रदर्शनेनेति शास्त्रस्थितिः प्रतिमाशतकवृत्ती [गा.७१] व्यक्ता ।
उपलक्षणात् स्नात्र-पूजादी सामाचारीविशेषेण विविधविधिदर्शनेऽपि न व्यामोहः कार्यः, अर्हद्भक्तिफलस्यैव सर्वेषां साध्यत्वात् । गणधरादिसामाचारीष्वपि भूयांसो भेदा भवन्ति । तेन यद्यद्भर्माद्यविरुद्धमहद्भक्तिपोषकं तत्तन्न केषामप्यसम्मतम् । एवं सर्वधर्मकृत्येष्वपि ज्ञेयमिति श्राद्धविधिवृत्ती व्यक्तम् [पृ.१३२] । यद्यपि सम्यक्त्वकुलके -> अहिगारिणो अ सड्ढो वावणकुमग्ग-कुमइरहिउ अ । तेणं कारइअन्वं जिणभुवणं वंदणिज्जमिणं ।। निप्फाविऊण एवं जिणभवणं सुंदरं तहिं बिंब ।। विहिकारिअं च विहिआ सुपइट्ठा साहुणो मण्णा ।। - [ ] इत्युक्तम् । व्यवहारभाष्येऽपि -> आगमविहिणा कारिय सुगुरूवएसे सुसावगेहिं च । नायज्जिअवित्तेणं तं आययणं जिणा बिंति ।। सन्नाण-चरण-दसणपमुक्कसाहहिं जा परिग्गहिआ। ताओ जिणपडिमाओ अणाययणं हंति जुत्तिए । जिणबिंबमणायणं कुसाहपरतंतया समुट्ठि । दिटुंतो जिणपडिमाबोडियलिंगाइयाण इह || अणाययण पुण णाण-दसण-चरणघायणं ठाणं । मुक्खत्थिसुधम्मिजणवजणिज्जं विसुद्धभावेण ।। - [ ] इत्युक्तं तथापि पुष्टालम्बने तदपि बन्दनीयमेव । तदुक्तं बृहद्भाष्ये → असइ विहिचेइअम्मि सद्धाभंगाइ कारणं नाउं । बचंति तत्थ मुणिणो नो मुणिणो जे अगीयत्था ।। - [ ] इति । साम्प्रतं तु जीतेनाऽन्यतीर्थीयज्योतिष्काध्ययनवत्
| (અર્થાત્ કોઈ ધર્મક્રિયા કોઈને વરેલી નથી. કોઈ પણ ધર્મક્રિયાનો કોઈ ઠેકેદાર - ઈશરદાર નથી.) તેથી જેને જે પ્રકારનું અનુમાન ઉપકારક હોય તેને તે અનુકાન આદરવું સારું છે. માટે સ્વકૃતપ્રતિષ્ઠા વગેરે બધાય પક્ષોનું યોગ્ય વિભાજન કરવું. કહેવાનો ભાવ એ છે કે મેં આ પ્રતિમાની અંજનશલાકા - પ્રતિષ્ઠા કરાવેલ છે' વગેરે બુદ્ધિથી વિશેષ પ્રકારે પ્રભુભક્તિ ઉત્પન્ન થાય તો તે બધાય પક્ષો સારા છે. અને તેવા પ્રકારની બુદ્ધિથી-આગ્રહથી મમતા, ઝઘડા વગેરે ઉત્પન્ન થાય તો તે બધા પક્ષો ખરાબ છે. १. मुद्रितप्रती "तेषां' पदं नास्ति ।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org