________________
9 भवबहुमान-पापबहुमानाभावविचारः 9 यावत् आसेवितं = अभ्यस्तं अपि ज जातु = कदाचित् बहुमन्यते = उत्कटेच्छाविषयीकरोति पापं = मिथ्यात्वमोहनीयं तत्कार्य वा' प्रवचनोपघातादि । इह कुभवतरसकल्पं पापं मिथ्यात्वादि, अमृतरसास्वादकल्पो भाव: सम्यक्त्वादिस्वसेयः ॥३/१५||
अविरतसम्यग्दृष्टेरपि पापक्रिया दृश्यत एवेति कथं ज तबहुमान: ? इत्यत आह → 'यद्यपी'त्यादि । यद्यपि कर्मनियोगात् करोति तत्तदपि भावशून्यमलम् । अत एव धर्मयोगात् क्षिप्रं तत्सिद्धिमाप्नोति ॥३/१६।।
कल्याणकन्दली । औपशमिक-क्षायोपशमिक-क्षायिकादिसम्यग्दर्शनात्मकामृतगोचरानुभवस्वरूपरसवेदी, तदुक्तं पुष्पमालायां -> गंठिं भणंति मुणिणो घणरागद्दोसपरिणइसरूवं । जम्मि अभिन्ने जीवा न लहंति कयावि संमत्तं ।।९३।। तं गिरिवरं व भित्तुं अपुचकरणुग्गवज्जधाराए । अंतोमुहुत्तकालं गंतुं अनियट्टिकरणंमि ।।९६।। पइसमयं सुझंतो खविउ कम्माई तत्थ बहुयाई । मिच्छत्तम्मि उइन्ने खीणेऽणईअम्मि उवसंते ।।९७|| संसारगिम्हतविओ तत्तो गोसीसचंदणरसं व । अइपरमनिब्बइकरं तस्संते लहइ सम्मत्तं ॥९८॥
-इति । स च न कदाचित् उत्कटेच्छाविषयीकरोति = सप्ततिकोटाकोटिप्रमित-स्थितिबन्धनियतकर्मानुभागबन्धोपधायकाभिलाष - |गोचरीकुरुते मिथ्यात्वमोहनीयं तद्विपक्षगतोपादेयत्वसंवेदनपूर्वं, तद्धेयतानुभवात्; तत्कार्यं वा = मिथ्यात्वकार्यं वा प्रवचनोपघातादि, तथाविधरुचिविशेषादेव । न हि सुलब्धामृतास्वादो विषमिव विषोद्गारमपि कदाचित् बहुमन्यते, चेत् सकर्णः । तदुक्तं मूलकारैरेव अष्टकप्रकरणे --> यः शासनस्य मालिन्येऽनाभोगेनाऽपि वर्तते । स तन्मिथ्यात्वहेतुत्वादन्येषां प्राणिनां ध्रुवम् || बध्नात्यपि तदेवालं परं संसारकारणम् । विपाकदारुणं घोरं सर्वानर्थविवर्धनम् ।। - [२३/१-२] इति । एतदनुसारेणोक्तं टीकाकृता साधुसामग्यद्वात्रिंशिकायां ---> यस्तु शासनमालिन्येऽनाभोगेनाऽपि वर्तते । बध्नाति स तु मिथ्यात्वं महानर्थनिबन्धनम् ।।६/ ३०|| ४- इति । भक्तपरिज्ञाप्रकीर्णकेऽपि ---> संसारमूलबीअं मिच्छत्तं -५९] इत्युक्तम् । इत्थञ्च शासनापभ्राजनादे: मिथ्यात्वजन्यत्वे सति मिथ्यात्वजनकत्वं यथा उपाधिजनितस्य संसारसुखस्य उपाधिजनकत्वमिति बोध्यम् । ॥ इदश्चात्रावधेयम् -> पावं न तिब्वभावा कुणइ, ण बहुमण्णई भवं घोरं । उचियट्ठियं च सेवइ, सञ्वत्थ वि अपुणबंधोत्ति ||॥१३।। - इति योगशतकवचनेन मूलकारैः अपुनर्बन्धके जन्म-जरा-मरण-रोग-शोकादिदुःखमय-भीमभवबहुमानविरहः प्रतिपादितः प्रकृते च सम्यग्दृष्टौ पापबहुमानविलयः प्रदर्शितः । युक्तञ्चैतत् सूक्ष्मबोधविरहेणाऽपुनर्बन्धकेऽनिष्टकार्यबहुमानाभावेऽपि तत्कारणपापबहुमानात्यन्तायोगाऽसम्भवात् । न च तीब्रभावेन पापाऽकरणादपुनर्बन्धकेऽपि पापबहुमानाऽयोग एवेति वक्तव्यम्, मन्दमिथ्यात्वोदयेन पापपक्षपातसम्भवात् । सम्यग्दृष्टेस्तु सूक्ष्मबोधसमन्वितत्वेन भीमभवलक्षणकार्य-तत्कारणपापोभयगोचरबहुमानस्यात्यन्ताऽयोगात् । अत्र चार्थे कुक्कुरमृगारिदृष्टान्तभावना कार्या । यथोक्तं उपदेशमालायां -> पत्थरेणाऽऽहओ कीवो, पत्थर डकुमिच्छइ । मिगारिओ सरं पप्प, सरुप्पत्तिं विमग्गइ ॥१३९|| - इति । ऋषिभाषितेऽपि -> पत्थरेणाहतो कीवो खिप्पं डसइ पत्थरं । मिगरिऊ सरं पप्प, सरुप्पत्तिं विमग्गति ।[१५/२०] -इत्युक्तम् । श्वोपमोऽपुनर्बन्धकः, सिंहस्थानीयः सम्यग्दृष्टिः, प्रस्तर-शरतुल्यो भीमभव: शरोत्पत्तिस्थानाभिषिक्तं पापम् । कर्कशगुरुतरप्रस्तरं द्विषन्नपि श्वा मांसादिलाभे प्रस्तरक्षेपिणं लेढि, सूक्ष्मविवेकविकलत्वात् । सिंहस्तु न तथा, तथाविधसूक्ष्मविवेकपरिकलितत्वात्तद्वदेवेदमपि तत्त्वं बोध्यम् । अपुनर्बन्धकस्य श्वोपमोपदर्शनेन न तन्निन्दाऽभिप्रायोऽस्माकं किन्तु सूक्ष्मविवेकविकलतासादृश्यदर्शने एव तात्पर्यम् ॥३/१५॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यद्यपि कर्मनियोगात् तत् करोति तदपि अलं भावशून्यं [करोति] । अत एव धर्मयोगात् क्षिप्रं तत्सिद्धिं आप्नोति ॥३/१६॥ इयं कारिका लोकविंशिकावृत्त्यादौ [लो.वि.पृ.१६५] समुद्भुता । આદિને ક્યારેય પણ ઉત્કટ ઈચ્છાનો વિષય બનાવતો નથી. પ્રસ્તુતમાં ખરાબ ભોજનના રસ સમાન મિથ્યાત્વ વગેરે છે તથા અમૃતના રસાસ્વાદસમાન સમકિત વગેરે ભાવ છે-એમ જાણવું. [૩/૧૫] [ અહીં શંકા થાય કે –– અવિરતસમ્યગ્દષ્ટિ જીવની પણ પાપક્રિયા દેખાય જ છે. તેથી તેને પાપનું બહુમાન = ઉત્કટ ઈચ્છા કિમ ન હોય ? - આ શંકાનું સમાધાન આપતાં મૂલકારશ્રી ફરમાવે છે કે –
ગાચાર્ગ :- જો કે કર્મના બળાત્કારથી તે પાપ કરે છે. પરંતુ તે પણ અત્યંત ભાવશૂન્ય કરે છે. માટે જ ધર્મયોગથી તે तुरंत सिद्धिने पामे छ. [3/१६]
.... तो 8 समलित 28 ॥ १. 'मुद्रितप्रती 'वा' नास्ति ।
For Private & Personal Use Only
Jain Education Interational
www.jainelibrary.org