________________
८६ तृतीयं षोडशकम्
सम्यग्दृष्टेः पापप्रवृत्तिविचारः
यद्यपि कर्मणः = निकाचितचारित्रमोहस्य नियोगात् अत्यर्थ भावेज
= व्यापारात् करोति तत् पापं तदपि = तथापि अलं क्लिष्टाध्यवसायेल शून्यं करोति । ततः सम्यग्दृष्टेः तप्तलोहपदन्यासतुल्या पापे प्रवृत्तिः अस्वारसिकीति न तद्बहुमान इत्यर्थः । अत एव 'इदं न साधु' इति पापाऽबहुमानादेव धर्मयोगात् तीव्रधर्मोत्साहात् (क्षिप्रं = ) शीघ्रं तस्य = धर्मस्य सिद्धिं आप्नोति सम्यग्दृष्टिः ॥ ३/१६||
कल्याणकन्दली
=
=
=
=
=
--> गुण
<
निकाचितचारित्रमोहस्य व्यापारात् पापं स्त्रीभोगादि पारदार्यादिकं वा करोति । तदुक्तं उपदेशमालायां दोसबहुविसेसं पयं पयं जाणिऊण निसेसं । दोसेसु जणो न विरज्जइत्ति कम्माण अहिगारो || जं न लहइ सम्मत्तं लधूणवि जं न एइ संवेगं । विसयसुहेसु य रज्जइ, सो दोसो राग-दोसाण ॥ <- [ उप.मा. ३१५/१२४] इति । नैषधीयचरिते श्रीहर्षेणापि --> दुर्जया हि विषया विदुषाऽपि -- [ ५/१०९] इति प्रोक्तम् । बाणभट्टेनाऽपि कादम्बर्यांन हि ( शक्यं दैवमन्यथाकर्तुमभियुक्तेनापि • [ पृ. १९३] इत्युक्तम् । निकाचितकर्मापेक्षयेदमपि सम्यक् । तथापि -> यद्यपि निषेव्य| माणा मनसस्तुष्टिकारका विषयाः । किम्पाकफलादनवद् भवन्ति पश्चादतिदुरन्ताः ॥ १०७ ॥ - इति प्रथमरतिवचनविमर्शादिना | अत्यर्थं क्लिष्टाध्यवसायेन शून्यं करोति, तदुक्तं श्राद्धप्रतिक्रमणसूत्रे -> सम्मदिट्ठी जीवो जइ वि हु पावं समायरे किंचि । अप्पोसि होइ बंधो जेण न निद्धंधसं कुणइ ||३६|| - इति । प्रकृतेऽयमाशयः पृष्ठलग्नव्याघ्रस्य पुरो धावतः खदिराङ्गारभृतखातिकाप्राप्तौ तन्मध्यपतिततप्तलोहपिण्डेषु अकामेनापि एकं द्वे त्रीणि वा पदानि न्यस्य झटिति तामतिक्रामतः पुरुषस्य प्रवृत्त्या सदृशा तप्तलोहपदन्यासतुल्या संवेगसारा पापे प्रवृत्तिः अस्वारसिकी = स्वरसतोऽप्रयुक्ता इति हेतोः न तद्बहुमानः | = पापपक्षपातः । तदुक्तं मूलकारैरेव योगदृष्टिसमुच्चये --> • अतोऽन्यदुत्तरास्वस्मात् पापे कर्मागसोऽपि हि । तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद्यदि || ७० || वेद्यसंवेद्यपदतः संवेगातिशयादिति । चरमैव भवत्येषा, पुनर्दुर्गत्ययोगतः || ७१ || <- इति । अत एव तस्य कायपातित्वमेव न तु चित्तपातित्वम् । तदुक्तं सम्यग्दृष्टिद्वात्रिंशिकायां टीकाकृताऽपि -> तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद्यदि । इत्युक्तेः कायपात्येव चित्तपाती न स स्मृतः ॥ ←- [द्वा. द्वा. १५/११] इति । अत एव तत्प्रवृत्तिः निर्ज्जराफला । इदमेवाभिप्रेत्य समयसारे जं कुणदि सम्मदिट्ठी, तं सब्वं णिज्जरणिमित्तं - [१९३] इत्युक्तम् । अध्यात्मगीतायामपि -> अध्यात्मज्ञानतो ज्ञानी प्रारब्धकर्मशक्तितः । कामभोगे ह्यनासक्तो भोगभोक्ता न बध्यते ॥ १८८ ॥ - इत्युक्तम् । पञ्चदश्यामपि विद्यारण्येन प्रारब्धकर्मप्राबल्याद् भोगेष्विच्छा भवेद्यदि । क्लिश्यन्नेव तदाऽप्येष भुङ्क्ते विष्टिगृहीतवत् ॥ - [ ७ / १४३] इत्युक्तम् । 'एष' = आत्मज्ञानी -- इत्यभिमतम् । यद्यपि ग्रन्थिभेदेऽपि सम्भाव्या इच्छा: प्रारब्धदोषतः <-- [६/ १६३] इति पञ्चदश्यादिवचनोक्ता इच्छा: कदाचित् सम्यग्दृष्टेः स्युस्तथापि 'इदं न साधु = सुष्ठु' इति पापा बहुमानादेव ' इदं शोभनमि' ति पापपक्षपातप्रच्यवादेव धर्मयोगात् सिद्धिमाप्नोति ।
-->
<--
=
तीव्रधर्मोत्साहात् शीघ्रं धर्मस्य
=
=
=
For Private & Personal Use Only
वस्तुतस्तु मोक्षाकाङ्क्षाव्याप्तचित्तत्वात् सम्यग्दृष्टेर्या या चेष्टा सा सा मोक्षपर्यवसानफला, चित्तानुरूपफलत्वात्सर्वव्यापाराणाम् । अत एव भिन्नग्रन्थेः कुटुम्बचिन्तनादिकोऽपि व्यापारो निश्चयतो योगो निर्जराफलश्च । अत एव = सर्वव्यापाराणां चित्तानुरूपफलत्वादेव धर्मयोगात् = धर्मयोगत्वेन परिणामितात् कुटुम्बचिन्तादिव्यापारात् सकाशात् प्रतिबन्धककर्मापगमेन क्षिप्रं तत्सिद्धिं = धर्मनिष्पत्तिं आप्नोतीत्यर्थः । शङ्कराचार्येणापि गीताभाष्ये --> • सम्यग्दर्शनात् क्षिप्रं मोक्षो भवति <- [४ / ३९] इति गदितम् ।
ઢીકાર્ય :- જો કે નિકાચિત ચારિત્રમોહનીય કર્મની બળજબરીથી સમકિતદષ્ટિ પાપ કરે છે. તો પણ અત્યંત ક્લિષ્ટ અધ્યવસાયથી શૂન્યપણે કરે છે. તેથી સમકિતદષ્ટિની પાપમાં પ્રવૃત્તિ તમલોહપદન્યાસતુલ્ય = તપેલ લોખંડના ગોળા ઉપર પગ મૂકવા જેવી અત્યંત સકંપ હોય છે. તો જ સમકિત ટકી શકે. આથી પાપપ્રવૃત્તિ સ્વારસિક = સ્વરસપ્રયુક્ત નથી. માટે જ સમકિતીને પાપનું બહુમાન નથી-એ સિદ્ધ થાય છે. ‘આ [પાપ] સારું છે' એવું પાપનું બહુમાન = પક્ષપાત ન હોવાથી જ ધર્મના તીવ્ર ઉત્સાહથી શીઘ્ર ધર્મની સિદ્ધિને સમકિતદષ્ટિ જીવ પ્રાપ્ત કરે છે. [૩/૧૬]
* उत्पना तो 8शे !
વિશેષાર્થ :- તમે કલ્પના કરો કે તમે જંગલમાં એકલા જઈ રહ્યા છો, સાંજનો સમય છે; અંધારું ચારે બાજુ ફેલાઈ રહેલ છે અને તમારી પાછળ એકાએક વાઘની ગર્જના સંભળાય છે. તમે એકદમ આગળ ખુલ્લા પગે દોડો છો, તમને પકડવા તમારી પાછળ વાઘ દોડી રહ્યો છે. દોડતાં દોડતાં તમને આગળ સળગતા અંગારાથી ભરેલી ખાઈ દેખાય છે અને તેની વચ્ચે પગ મૂકવાની જગ્યાએ તપેલા લોખંડના લાલધૂમ ગોળા ગોઠવાયેલા છે. તમે તે વખતે શું કરો ? [૧] વિકરાળ વાઘને તમારી જાત સોંપી દો કે [૨] સળગતા અંગારાથી ભરેલી ખાઈમાં બળીને ભડથૂ થઈ જાવ કે [૩] તપેલા લોખંડના ગોળા ઉપર લાંબા લાંબા ઝડપથી
Jain Education Intemational,
www.jainelibrary.org