________________
८२ तृतीयं षोडशकम्
28 क्रियायाः सत्त्वशुद्धिकारणताद्योतनम् 88 एते = पूर्वोक्ताः सर्वेऽपि कथञ्चित्क्रियारूपत्वेऽपि तत्त्वत: = परमार्थतः तदुपलक्ष्या आशय भेदा अवगन्तव्या: । अयं = पञ्चप्रकारोऽप्याशयो भाव उच्यते, उपयोगस्य भावनालक्षणत्वात् । अनेन = भावेज विना चेष्टा काय-वाङ्-मनोव्यापाररूपाः तुच्छा, द्रव्यक्रियात्वेन फलाऽजजनीत्यर्थः ॥३/१२॥
= कल्याणकन्दली -- मूलग्रन्थे दण्डान्वयस्त्वेवम् -> एते सर्वेऽपि तत्त्वत आशयभेदा अवगन्तव्याः । अयं भावः, अनेन विना चेष्टा तुच्छा [यतः] द्रव्यक्रिया ॥३/१२॥ इयं कारिका कूपदृष्टान्तविशदीकरणवृत्ति-पञ्चविंशत्युत्तरशतगाथाप्रमितसीमन्धरस्वामिस्तवनटिप्पणादौ गृहीता । एवमस्याः कारिकाया उत्तरार्द्धः प्रतिमाशतकवृत्ती द्विर्गृहीतः [प्र.श.का.६०/९२] । कथञ्चित् = क्वचित प्रयत्नातिशयजन्यत्वादिना क्रियारूपत्वेऽपि परमार्थतः = ऐदम्पर्यार्थमाश्रित्य तद्पलक्ष्याः = विशिष्टबाह्यक्रियाद्योतिता अनुबन्धजनकत्वादिरूपेण आशयभेदा अध्यवसायविशेषात्मका एव अवगन्तव्याः । अत एव पञ्चप्रकारोऽपि प्रणिधानादिपदप्रतिपाद्य आशयो भाव उच्यते, उपयोगस्य भावनालक्षणत्वात् । अत एव प्रणिधानादिविशिष्टाऽऽवश्यकक्रिया नोआगमतो भावावश्यकमुच्यते । प्रणिधानाद्यात्मकेन भावेन विना कायवाङ्मनोव्यापाररूपाः चेष्टाः तुच्छाः = असाराः, अत्र मूलकारः हेतुगर्भविशेषणमुक्तंद्रव्यक्रिया इति । ततश्च प्रणिधानादिशून्या चेष्टा द्रव्यक्रियात्वेन तुच्छेत्यर्थः । अत एव प्रणिधानाथुपयोगविकलाया यथोक्तविधिसमन्विताया अपि षडावश्यकक्रियाया नोआगमतो द्रव्यावश्यकत्वमाम्नातं पूर्वाचार्यः । तदुक्तं अन्यत्रापि -> 'तक्कविहूणो विज्जो लक्खणहीणो अ पंडिओ लोए । भावविहणो धम्मो तिन्नि वि नूणं हसिज्जंति || -[ ] इति । न च द्रव्यक्रियात्वेऽपि तुच्छता कथं ? योग्यतायामपि द्रव्यपदप्रयोगात्, मूलकारैरेव -> समयम्मि दब्वसद्दो पायं जं जोग्गयाइ रूढोत्ति «- [पंचा.६/ १०] इति पञ्चाशके प्रोक्तत्वादिति शङ्कनीयम्, क्रियायाः सत्त्वशुद्धिकारणतावच्छेदककोटौ प्रणिधानादिभावपूर्वकत्वस्य निवेशात्, एकान्तेनैव भावशून्याया: कारणतावच्छेदकशून्यत्वेन फलजननेऽकिश्चित्करत्वात् । ततश्च सा फलाऽजननी = शुभानुबन्धप्रभूतनिर्जरादिलक्षणफलजननाऽप्रत्यला इत्यर्थः । द्रव्यशब्दस्याऽत्राऽप्राधान्यपरत्वात् । तदुक्तं मूलकारः एव पश्चाशके -> अप्पाहण्णेऽवि | इहं कत्थइ दिट्ठो उ दव्वसद्दोत्ति । अंगारमद्दगो जह दव्वायरिओ सयाऽभव्यो । ८- [६/१३] इति । भावक्रिययोः स्वतन्त्रयोः स्वरूपं योगदृष्टिसमुच्चये --> तात्त्विक: पक्षपातश्च भावशून्या च या क्रिया । अनयोरन्तरं ज्ञेयं भानुखद्योतयोरिव ।।२२३।।
- इत्युक्तम् । युक्तश्चैतत्, द्रव्यक्षेत्रादिसापेक्षत्वेन क्रियाप्रकर्षस्य मर्यादितत्वात, विशुद्धस्वस्वभावसापेक्षतया भावप्रकर्षस्य निरव-|| धित्वात् भावस्य क्रियातोऽभ्यर्हितता स्पष्टैव । क्रियाया भावार्थत्वं, न तु भावस्य क्रियार्थत्वमित्यतोऽपि भावस्य प्राधान्यम् ।। तद्युक्ततयैव तदाक्षेपकतयैव वा क्रियाया उपादेयतेति निश्चयानुगृहीतव्यवहारपन्था विभावनीयः । अत्राऽस्मदीयकारिके -> फलं|| माधुर्यहीनं हि, शरीरं विगतचेतनम् । सुगन्धविकलं पुष्पं, विलीनाऽऽलोकनाटकम् ॥१॥ भोजनं लवणापेतं, च्यूतविद्यो हि| पण्डितः । प्रणिधानादिशून्या हि धर्म क्रिया तथा मता ।।२।। - इति । प्रणिधानादिशून्याया अन्तर्मालिन्यगर्भाया अचरमावर्त्तिकर्तृकायाः धर्मक्रियायाः प्रत्यपायाऽऽवहत्वमपि । तदिदमभिसन्धाय योगलक्षणद्वात्रिंशिकायां -> एतैराशययोगैस्तु विना धर्माय न क्रिया । प्रत्युत प्रत्यपायाय लोभ-क्रोधक्रिया यथा ।। - [द्वा.द्वा.१०/१६] इति टीकाकृतोक्तम् । लेशतोऽपि प्रणिधाना
रे कथञ्चिद्विधिभते सति प्रयज्यमानस्य द्रव्यपदस्य त योग्यतापरत्वमेवेति विवेकः ॥३/१२॥ प्रवृत्ति तु८७ छ, [11 ] द्रव्यश्याम छ. [3/१२]
* .... तो लियामा सावने भैरता व ** ટીડાર્ગ :- પૂર્વે જણાવેલ પ્રણિધાન વગેરે બધાય આંશિક રીતે ફિયાસ્વરૂપ હોવા છતાં વાસ્તવમાં તે વિશિષ્ટ બાહ્ય ક્રિયાથી જાણનાર આશયવિશેષાત્મક = અધ્યવસાયવિશેષ સ્વરૂપ જાણવા. આ પાંચેય પ્રકારના પ્રણિધાનાદિ આશય ભાવ કહેવાય છે, કારણ કે ઉપયોગ એ ભાવલક્ષાણ = ભાવસ્વરૂપ છે. આ પ્રણિધાનાદિ ભાવ વિનાની તન, વચન, મનની ક્રિયા તુચ્છ છે, કારણ કે तिव्ययिाम छ. माटे ते ३७ जनती नथी. [3/१२]
વિશેષાર્થ :- પ્રણિધાન, પ્રવૃત્તિ, વિનય વગેરેના સ્વરૂપમાં ક્રિયાત્મકતા હોવા છતાં તે પ્રધાન નથી, ગૌણ છે. મુખ્ય તો છે વિશિષ્ટ બાહ્ય ક્રિયાથી વ્યક્ત થતો અંદરનો પરિણામ-આશય-અધ્યવસાય. બહારની ક્રિયા ખોખાના (Box) સ્થાને છે. જ્યારે ભાવ એ ખોખાની અંદર રહેલ સોનાના હારના સ્થાને છે. સુવાર્થહારને સાચવવા માટે ખોખું છે. તેમ અંદરના પરિણામને ટકાવવા-વધારવા બાહ્ય ક્રિયાની જરૂર છે. પરંતુ સોનાનો હાર જેને લાવવો જ ન હોય તેના માટે ખોખા બનાવવાનો પુરુષાર્થ અસાર છે, તેમ જેને ભાવ-પરિણામ પ્રગટાવવાનું લક્ષ જ નથી તેની બાહ્ય ધર્મક્રિયા તુચ્છ છે, વિશિષ્ટફલદાયી નથી. ધર્મક્રિયાને તુચ્છ-અસાર ન બનાવવી હોય તો ધર્મક્રિયામાં પ્રણિધાનાદિ ભાવોને ઉમેરવા અત્યંત જરૂરી છે. ગળપણ વિનાના ગુલાબજાંબુ તુચ્છ કહેવાય, સુગંધ વિનાનું કુલ અસાર કહેવાય, પ્રાણ વિનાનું શરીર નિરર્થક કહેવાય, તેમ આંશિક પણ ભાવ વિનાની ક્રિયા
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org