________________
तृतीय कम्
विनियोगं लक्षयति -> 'सिद्धेश्चेत्यादि ।
सिद्धेश्वोत्तरकार्यं विनियोगोऽवन्ध्यमेतदेतस्मिन् । 'सत्यन्वयसम्पत्त्या सुन्दरमिति तत्परं यावत् ||३ / ११॥
सिद्धेश्व उत्तरकालभावि कार्य विनियोगो नाम आशयभेदो विज्ञेयः । एतत् = विनियोगाख्यं सिद्धयुत्तरका अवन्ध्यं = न कदाचिन्निष्फलम् एतस्मिन् सति = सआते अन्वयसम्पत्त्या = भङ्गेऽपि सुवर्णघटन्यायेन सर्वश फलानपगमात् विनियोजितधर्मापगमेऽपि भूयो झटिति तत्संस्कारोद्बोधसम्भवादनेकजन्मान्तरसन्तानक्रमेणाऽविच्छेद सम्पत्त्या हेतुभूतया इति हेतोः तत् = सिद्धयुत्तरकार्यं परं शैलेशीलक्षणं सर्वोत्कृष्टधर्मस्थानं यावत् सुन्द
कल्याणकन्दली
ॐ सुवर्णपटन्यायविचारः ॐ
उवज्झाएहि, सुयं विणयं च गाहिए। ते चैव खिंसइ बालो, पावसमणुत्ति वृच्चइ || [ १७/४] - इति प्रोक्तम् । क्षुद्रादय स्त्वत्यन्तमयोग्या धर्मस्थानस्य । सिद्धिकृते च विघ्नजयवत् योगशास्त्राचाराङ्गादिदर्शिता महाव्रत-दर्शन- ज्ञान - चारित्रादिभावन अनित्यादि-मैत्र्यादिभावनाश्वासेवनीयाः ॥३ / १०॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् --> सिद्धेश्व उत्तरकार्यं विनियोगः, एतत् अवन्ध्यम्, एतस्मिन् सति अन्वयसम्पत्त्या इति तत् परं यावत् सुन्दरम् || ३ / ११ || इयमपि कारिका योगविंशिकावृत्ति-कूपदृष्टान्तविशदीकरणवृत्त्यादौ संवादित्वेनोदृङ्किता योगविंशिकावृत्तौ चास्या व्याख्यालेशस्टीकाकृता --> अबन्ध्यं = न कदाचिन्निष्फलं एतत् = धर्मस्थानमहिंसादि, एतस्मिन् | = विनियोगे सति अन्वयसम्पत्त्या = अविच्छेदभावेन, तत् = विनियोगसाध्यं धर्मस्थानं सुन्दरम् ' इति : ' भिन्नक्रमः समाप्त्यर्थश्च, यावत्परमित्येवं योगः यावत् 'परं' = प्रकष्टं धर्मस्थानं समाप्यत इत्यर्थः -- इत्येवमुपदर्शितः । 'सिद्धेश्वोत्तरकार्यमित्यनेन स्वस्याऽनुपशान्तत्वे परस्मिन्नुपशमाधानाधिकारित्वमपाकृतम् । तदुक्तं पञ्चकल्पभाष्ये जो सहिं पलितं अलसो तु न विज्झवे मारणं । सो न वि सहहियव्वी परघरदाहप्पसणम्मि || [१३९३] इति ।
-->
<--
ननु सिद्धाऽहिंसानां समीपे हिंसाशीला अपि हिंसां कर्तुं नालमिति स्वीकुर्मः किन्तु तत्सन्निधानविरहे पुनरपि ते हिंसाव्यापूता भवन्त्येव । न हि समवसरणगताः सिंह- व्याघ्र - सर्प नकुलादायः तदुत्तरकालं सर्वदा सर्वेऽपि हिसां त्यजन्त्येवेत्येकान्तो जिनागमवेदिभिरपि स्वीक्रियते । ततश्च विनियोगस्य वन्ध्यत्वमेव विनियोजितधर्मस्य प्रच्यवादिति । एवमेव सिद्धाऽहिंसानामपि योगिनाममुत्र भवितव्यतादिनियोगेन सर्प-सिंहादिगतौ हिंसनशीलत्वमपि सम्भवति । ततश्च न परापेक्षया न वा स्वापेक्षया विनियोगस्याऽवन्ध्यत्वनियमो युक्त इति चेत् ? अत्र वदन्ति - सुवर्णघटन्यायेन सर्वथा = हेतुरूपेण फलानपगमात् = फलाऽविनाशात् । घटत्वेन रूपेण सौवर्णघटभङ्गेऽपि सुवर्णत्वेन रूपेण तु सुवर्णघटलक्षणस्य फलस्याऽविनाशवत् तथाविधकषायोदयात् विनियोजितधर्मापगमेऽपि = विनियोजितधर्मत्वेन रूपेण विनियोजितस्य धर्मस्य नाशेऽपि तत्संस्काररूपेणाऽविनाशात् तद्व्यक्त्यभावेऽपि तच्छक्त्यनपगमात् भूयो झटिति तत्संस्कारोद्बोधसम्भवात् = विनियोजितधर्मगोचरवासनाभिव्यक्तियोगात् अनेकजन्मान्तरसन्तानक्रमेण अविच्छेदसम्पत्त्या = स्व- परयोः पुनर्विनियोजितधर्मघटनसम्पत्त्या हेतुभूतया एतत् अवन्ध्यमिति बोध्यम्
અધિક-ગુણસંપન્ન યોગી પુરુષનો વિનય, ભક્તિ, બહુમાન, વૈયાવચ્ચ વગેરે કરવામાં તે તત્પર હોય તથા સમાન ગુણવાળા કે મધ્યમગુણવાળા પુરુષને સહાય, મદદ કરવામાં તે સંકોચ ન રાખે અને ગુણહીન પુરુષને વિશે કરુણાથી તેનું હૈયું ભીનું હોય. આ પ્રાપ્ત થયેલ તાત્ત્વિક ધર્મસિદ્ધિની ઓળખ છે. ૩૫૦ ગાથાના સ્તવનમાં જણાવેલ છે કે —> વિનય અધિક ગુણ સાધુનો રે, મધ્યમનો ઉપગાર રે, સિદ્ધિ વિના હોવે નહિ રે, કૃપા હીનની સાર રે ← [3/10]
વિનિયોગનું લક્ષણ બતાવતાં મૂલકારથી ફરમાવે છે કે –
માથાર્થ :- સિદ્ધિનું ઉત્તરકાલીન કાર્ય વિનિયોગ છે. આ અમોઘ છે. [કારણ કે] આ વિનિયોગ હોતે છતે અવિચ્છિન્નતાની પ્રાપ્તિ થાય છે. એ કારણે તે વિનિયોગ શ્રેષ્ઠ ધર્મસ્થાન સુધી સુંદર છે. [૩/૧૧]
વિનિયોગ સ્વરૂપ પ્રતિપાદન
ટીડાર્થ :- સિદ્ધિના ઉત્તર કાલમાં થનાર કાર્યને વિનિયોગ નામનો આયવિશેષ જાણવો. સિદ્ધિનું ઉત્તરકાલીન વિનિયોગ નામનું કાર્ય ક્યારેય પણ નિષ્કુલ જતું નથી. આનું કારણ એ છે કે વિનિયોગ થયે છતે કદાચ તે બાહ્ય ધર્મ અનુષ્ઠાનરૂપે ભાંગી પડે તો પણ સુવર્ણઘટન્યાયથી સર્વથા ફલ ચાલી નથી જતું. જેમ સોનાનો ઘડો ભાંગી જાય તો પણ સુવર્ણરૂપે તો તે હાજર જ રહે છે તેમ અન્યમાં વિનિયોગ કરેલ ધર્મ કદાચ ચાલી જાય તો પણ ફરી ઝડપથી, વિનિયોગ કરેલ ધર્મના સંસ્કારની અભિવ્યક્તિ સંભવ હોવાથી અલગ અલગ અનેક જન્મની પરંપરાથી ક્રમે કરીને અવિચ્છિન્નરૂપે વિનિયોજિત ધર્મ પ્રાપ્ત થાય છે. આમ વિનિયોગ १. मुद्रितप्रती तु सत्यद्रयसम्पत्न्या' इत्यशुद्धः पाठः । २ मुद्रितप्रती
'उत्तरकालभावकार्य' इति पाठः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org