________________
७९
* सिद्धेः स्थैर्ययमेऽन्तर्भावः सूत्रार्थोभयनिष्णाते तीर्थकल्पे गुरौ विजयादिना 'युता, आदिना वैयावृत्त्य-बहुमानादिग्रहः । हीने च = स्वापेक्षया हीजगुणे जिणे वा दयादिगुणेन = दया-दान-दु:खोद्धाराभिलाषेण सारा = प्रधाना । उपलक्षणात् मध्यमोपकारफलवतीत्यरातसेयम् ॥३/१०॥
कल्याणकन्दली . वैरादिविनाशकानामहिंसादिसिद्धेरनुबन्धविकलत्वे तु पारमार्थिकसिद्धिबहिर्भावोऽवगन्तव्यः ।
इदश्चात्रावधातव्यम् -> इच्छाप्रवृत्तिस्थैर्यसिद्धिभेदेन चतुर्धा योगविभागे त्वियं स्थैर्ययोगेऽवतरति, दर्शितहेतुद्वयव्यङ्ग्यपारमार्थिकत्वकलितत्वेनाऽतिचारादिविपक्षचिन्तारहितत्वात् । तदुक्तं योगदृष्टिसमुच्चये -> विपक्षचिन्तारहितं, यमपालनमेव यत् । तत्स्थैर्यमिह विज्ञेयं, तृतीयो यम एव हि ।।२१७।। - इति । 'तृतीयो यम' इति स्थिरयम इति । तदुक्तं योगविंशिकायामपि -> तह चेव एयबाहगचिंतारहियं थिरत्तणं नेयं - [यो.वि.६] इति । यद्वेच्छादिभेदेन चतुर्धा योगविभागेऽपि तत्सन्निधौ वैरत्यागात् परार्थसाधकत्वेनेयं सिद्भिरेवावसेया । तदुक्तं योगदृष्टिसमुचये → परार्थसाधकं त्वेतत्सिद्धिः शुद्धान्तरात्मनः । अचिन्त्यशक्तियोगेन चतुर्थो यम एव तु ।।२१८। इति । 'चतुर्थो यम' - इति सिद्धियमाभिधानयोग इत्यर्थः । तदुक्तं योगविंशिकायामपि → सञ्च परत्थसाहगरूवं गुण होइ सिद्धि त्ति ८- [यो.विं.६] इति । अनेनाऽऽभ्यासिकमात्राऽहिंसाद्युपलब्धेः तात्त्विकसिद्भिबहिर्भावो द्योतितः ।
गुरौ = स्वापेक्षया गौरवाहे । हीने च दयादिगुणेन प्रधानेति, अन्यथा स्वस्यैव तात्त्विकधर्माऽभाजनत्वं स्यात्, कठोरचित्तस्य धर्माऽयोग्यत्वात् । तदुक्तं --> दीनं हीनं जनं दृष्ट्वा, कृपा यस्य न जायते । सर्वज्ञभाषितो धर्मस्तस्य चित्ते न विद्यते ।। - [ ] इति । 'आद्यन्तयोर्ग्रहणे तन्मध्यपतितोऽपि गृह्यते' इति न्यायेन उपलक्षणात् = अधिक-हीनपदयोः । उपलक्षणत्वात् = स्वार्थबोधकत्वे सति स्वार्थेतरार्थबोधकत्वात् मध्यमोपकारफलवती = मध्यमगुणे स्वापेक्षया तुल्यगुणे वा उपकारान्विता स्वनिष्ठकार्यतानिरूपितकारणतासम्बन्धेन मध्यमगुणोद्देश्यकोपकारविशिष्टेत्यर्थः । तदुक्तं टीकाकृता योगविंशिकावृत्ती -> अतिचाररहिताधिकगुणे गुर्वादौ विनय-वैयावृत्त्य-बहुमानाद्यन्विता हीनगुणे निर्गुणे वा दया-दान-व्यसनपतितदु:खापहारादिगुणप्रधाना मध्यमगुणे चोपकारफलवत्यधिकृतधर्मस्थानस्याऽहिंसादेः प्राप्ति: सिद्धिः - [यो.वि.१/प्र.३] इति । तदक्तं योगलक्षणद्वात्रिंशिकायामपि --> सिद्भिस्तात्त्विकधर्माप्ति: साक्षानुभवात्मिका । कृपोपकारविनयान्विता हीनादिषु क्रमात् ।।
- [द्वा.द्वा.१०/१४] इति । अनुभवात्मिकेत्यनेनाभव्यादिद्रव्यलिङ्गिसन्निधो वैरत्यागेऽपि तेषां तात्त्विकसिद्धिविरह उपदर्शितः न हि ते तात्त्विकाहिंसादिधर्मस्थानं स्वरसेन साक्षादनुभवन्ति ।।
इदश्चात्र ध्यातव्यम् -> अधिके विनयादियुक्तत्वेनौद्धत्याहङ्कारादिशून्यत्वमुपदर्शितम, मध्यमे उपकारान्वितत्वाभिधानेन तस्येाऽसुया-मात्सर्य-द्वेष-सन्ताप-कलहवृत्ति-परपरिवादपरिणामादिपरिहारो द्योतितः । हीने दयादिसारत्वोक्त्या क्षुद्रता-तुच्छतानिन्दा-तिरस्काराद्यत्यन्तविरहो विद्योतित: । न ह्यतात्त्विकधर्मसिद्धेरजीर्णकल्पा औद्धत्याहङ्कारेादय: तात्त्विकधर्मसिद्धौ सम्भवन्ति । तदक्तं --> तज्ज्ञानमेव न भवति यस्मिन्नदिते विभाति रागगणः । तमसः कृतोऽस्ति शक्तिः दिनकरकिरणाग्रतः स्थातम ।। 6- [ ] इति । वस्तुतः तस्य सर्वज्ञमतविज्ञानमेव नास्ति । तदुक्तं उपदेशमालायां -> बत्थिव्व वायुपुण्णो परिभमई जिणमयं अयाणंतो। थद्धो निम्विन्नाणो, न य पिच्छइ कंचि अप्पसमं ।।३८१।। - इति । उत्तराध्ययनेऽपि --> आयरियનાશ કરવાના લીધે તે સિદ્ધિને તાત્ત્વિક = પારમાર્થિક જાણવી. આ પારમાર્થિક સિદ્ધિ સૂત્રાર્થઉભયમાં નિષગાત એવા તીર્થસમાન ગૌરવાહ પુરુષને વિશે વિનાદિથી યુક્ત હોય. આદિપદથી વૈયાવચ્ચ, બહુમાન વગેરે પણ સમજી લેવાના. તથા પોતાની અપેક્ષાએ હીનાવાળા અથવા નિર્ગગને વિશે દયા, દાન, દુ:ખોદ્ધારાદિના અભિલાષથી પ્રધાન હોય. [અધિકહીનના ઉપલક્ષાગથી મધ્યમગુણવાળાને વિશે ઉપકારાત્મક ફલની જનક હોય- એમ જાણવું. [૩/૧૦].
KU ઘર્મસિદ્ધિના અજીથી દૂર રહ્યો / વિશેષાર્થ :- સિદ્ધિનો અર્થ છે અહિંસા વગેરે તે તે ધર્મસ્થાનની પ્રાપ્તિ. તે તાત્વિક તો જ કહી શકાય જો તેના સાન્નિધ્યથી ફૂર વૈરી એવા જીવોના વેર વગેરે શમી જાય. સિદ્ધ થયેલા ધર્મનો પ્રભાવ જ એવો છે કે પોતાની આસપાસના જીવોમાં પોતાને પ્રાપ્ત થયેલ ધર્મને સંક્રમ થઈ જ જાય. તથા જે સિદ્ધિ પારમાર્થિક ન હોય તો તે સિદ્ધપુરુષ પોતાનાથી અધિકગુણસંપન્ન ગૌરવયોગ્ય વ્યક્તિ વિશે પણ ઉદ્ધત, અકકડ બને. આ અભિમાન સિદ્ધિનું અજીર્ણ છે. તેમ જ તે સિદ્ધિની અતાવિકતાના લીધે તેને સમાન ગુણવાળા, મધ્યમગુવાળા જીવોની ઈર્ષ્યા, નિંદા વગેરેનો ચેપી રોગ પાગ લાગુ પડે અને પોતાનાથી હીનાગવાળા કે નિર્ગુણ પુરુષનો ધિકકાર, તિરસ્કાર પાર કરે. જો આવું હોય તો દેખાતી ધર્મસિદ્ધિ ચોક્કસ નકલી જ હોય. અસલી ધર્મસિદ્ધિ હોય તો ११. ह. प्रती 'यता, आदिना' इति नास्ति ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org