________________
७० तृतीयं षोडशकम्
* मोक्षं प्रति पृष्टेरावश्यकतास्थापनम् ॐ प्रवाहे सति क्रमेण = तत्प्रकर्षप्राप्तिपरिपाट्या, तस्मिन् जन्मनि भवान्तरेषु वा प्रकृष्यमाणवीर्यस्य जीतररा मुक्ति: परा : तात्त्विकी सर्वकर्मक्षयलक्षणा शेया ॥३/४||
कल्याणकन्दली निसर्गसम्यग्दर्शनादिप्रभावेण मुक्तिश्रवणात्तेषामन्यथासिद्धत्वात् । अत एव देशनालब्धि-सिद्धिसाधकतया पुष्टेरावश्यकतेत्यपि प्रत्याख्यातम्, तच्छ्न्यानामपि हीनाङ्गोपाङ्गाऽनादेयापकीय॑सातादिग्रस्तानामपि च मुक्तिप्राप्तिश्रुतेरिति चेत् ?
___ अत्रोच्यते, यत्तावदुक्तं तत्परिपन्थित्वात्', तदसत् अपवर्गायाऽऽवश्यकानां प्रथमसंहनन-चरमशरीरादीनां बहिरङ्गानामपि विना पुष्टिमसम्भवात्, अन्तरङ्गानामुपशमनाप्रभृतिकारणानामपि प्रकृष्टपरिशुद्धपुण्यपरिपाकप्राप्यत्वेन कर्मप्रकृत्यादी कण्ठत: कथितत्वाच । तदुक्तं शिवशर्मसूरिभिः कर्मप्रकृती --> सब्बुवसमणा मोहस्सेव उ तस्सुवसमकियाजोग्गो । पंचेंदिओ उ सन्नी पज्जत्तो लद्धितिगजुत्तो ।। «- [क.उपशमनाकरण - गा.३] इति । -> 'लद्धितिगजुत्तो' त्ति पंचिंदितो सण्णि पज्जत्तो - एयाहिं लद्भिहिं सहितो, अहवा उवसमलद्धी-उवएससवणलद्धी-पउग्गलद्भिरिति एयाहिं सहिओ -क. कर्मप्रकृतिचूर्णिकारः । तदुक्तं कर्मप्रकृतिटीकायां मलयगिरिसूरिभिरपि --> 'लब्धित्रिकयुक्त:' = पञ्चेन्द्रियत्व-संज्ञित्वपर्याप्तत्वरूपाभिस्तिसृभिर्लब्धिभिर्युक्तः अथवा उपशमलब्ध्युपदेशश्रवणलब्धि-करणत्रयहेतुप्रकृष्टयोगलब्धिरूपलब्धित्रिकयुक्तः
- इति । एतासां लब्धीनां विना विशुद्धपुण्यपरिपाकमयोगात् । अनेन मोहक्षयार्थमपि पुण्यपरिपाकस्यावश्यक्लुप्तत्वमावेदितम्, मिथ्यात्वादिक्षयकृते विशुद्धपुण्यविपाकप्राण्यानां जिनकालिकत्वादीनामावश्यकत्वात् । तदुक्तं कर्मप्रकृतिचूर्णी -> खातियसम्मत्तं उप्पाएउं को आढवेइ ? भण्णइ जिणकाले वट्टमाणो मणुस्सो अट्ठवासाउओ उप्परिं वट्टमाणो मणुस्सो पट्ठवेंतो - [क.प्र. उप.क.गा.३२ पृ.२६] इति ।
अत एव धर्महेतुतया पुण्यबन्धस्यापीष्टत्वम् । तदक्तं साक्षेप - परिहारं दानद्वात्रिंशिकायां टीकाकृताऽपि -> नन्वेवं पुण्यबन्धः स्यात् साधोर्न च स इष्यते । पुण्यबन्धान्यपीडाभ्यां छन्नं भुङ्क्ते यतो यतिः ।। दीनादिदाने पुण्यं स्यात्तददानं च पीडनम् । शक्तो पीडा प्रतीकारे शास्त्रार्थस्य च बाधनम् ।। किञ्च दानेन भोगाप्तिस्ततो भवपरम्परा । धर्माधर्मक्षयान्मुक्तिर्ममक्षोनेष्टमित्यदः ।। नैवं यत्पुण्यबन्धोऽपि धर्महेतुः शुभोदयः । बढेर्दाह्यं विनाश्येव नश्वरत्वात्स्वतो मत: ।। भोगाप्तिरपि नैतस्मादभोगपरिणामतः । मन्त्रितं श्रद्धया पुंसां जलमप्यमृतायते ।। 6-[द्वा.द्वा.१/१४-१८] इति । अत एव प्रक्षालनाद्धि पङ्कस्येत्युक्तिरप्यत्रा:लब्धप्रसरा, मलविगमद्वारा बद्धकोष्ठतादिरोगनिरासाय एरण्डतैलवत् मोक्षौपयिकबाह्याभ्यन्तरकारणकलापमेलनद्वारा घनघातिकर्मविनाशाय पुष्टिरप्युपयुज्यत एव, तदनन्तरं तस्या एरण्डतैलवत् स्वयमेव विलयात् । न हि तादृशपुष्टिसम्पादकाध्यवसायस्थानमस्पृष्ट्वा | कोप्यद्यावधि मुक्तिं गतः । अत एव तद्वैजात्यादित्यपि प्रत्याख्यातम्, 'विषकण्टकं कण्टकान्तरेण निष्काशयेदिति न्यायेन निरुपाधिकनिःश्रेयसं प्रति विजातीयत्वेऽपि शुद्धोपाधिरूपत्वेन पापापगमसामग्रीसम्पादकतया पुष्टेरावश्यकत्वमनाविलम् । न हि वस्तुतोऽयमपि नियमो यदूत सजातीयमेव कारणं भवेदिति । दृश्यते हि वृश्चिकादपि वृश्चिकोत्पत्तिर्गोमयादपि वृश्चिकोत्पत्तिः । नियतारम्भवादनिरासविस्तरस्तु मत्कृत-जयलताया 'ज्ञेयः । यदपि पुण्यप्रकृतेः स्वर्णशृखलात्वमन्यत्रोक्तं तदपि लवसत्तमसुरादिपुण्यापेक्षया स्त्र्याधुपभोगसम्पादकनिकाचितपुण्यविवक्षया वा भवस्थितिकारित्वावच्छेदेनैव क्लिष्टरागादिपरिणामोपधायकत्वावच्छेदेनैव वा तत्र पर्यवस्यति न तु मोक्षोपायभूतावश्यककारणकलापसम्पादकत्वावच्छेदेनाऽपीति । एतेन --> शुद्धा योगा रे यदपि यतात्मनां, म्रवन्ते शुभकर्माणि । काश्चननिगडांस्तान्यपि जानीयात, हतनिर्वतिशर्माणि -[७/७] इति शान्तसुधारसवचनमपि व्याख्यातम्, मुक्तिसुखप्रतिबन्धकत्वावच्छेदेनैव शुद्धयोगेषु स्वर्णशृङ्खलात्वविधानादिति भावनीयम् ।
इदश्चात्रावधेयम् --> लब्धात्मलाभायाः शुद्धेरनुबन्धित्वं यावत्कालमभिमतं पुष्टेरनुबन्धित्वञ्च मोक्षौपयिकोचिताऽऽवश्यकतव्यापारकालपर्यन्तम् । अनेन वैयावृत्त्यस्याऽप्रतिपातिगुणत्वमपि व्याख्यातम् । मोक्षौपयिका पुष्टिः शुद्धिं विनाऽलभ्या क्षपकश्रेण्यध्यवसायप्रायोग्यशुद्धिश्च तथाविधपुष्टिमृतेऽप्राप्येत्युभे उत्पत्तौ स्थितौ च मिथः सहकारिण्यौ । न चैवमन्योन्याश्रय इति |
म्, ध्यानसमतावत् अप्रकृष्टयो:तयोमिथ उत्कृष्टयो: कारणत्वात् । नयान्तरेण त्वन्धस्थानीया पुष्टिः पङ्गस्थानीया च शुद्धिरित्यन्योन्यसहकारेणाऽविच्छन्नयोस्तयो: शिवनगरप्राप्ती तुल्यवत्कारणता । प्रकृष्यमाणवीर्यस्य = स्वघातिकर्मचतुष्कक्षयार्थमपेक्षितप्रकर्षशालिना वीर्यान्तरायक्षयोपशमविशेषेण युक्तस्य मुक्तिः सर्वकर्मक्षयलक्षणा = कृत्स्नकर्मक्षयहेतुका विनाशिसचिदानन्दજીવની સર્વકર્મક્ષય-સ્વરૂપ તાત્ત્વિક મુકિત જાણવી કે જે જીવન વીલાસ ઘાતિ કર્મના ક્ષય માટે અપેક્ષિત પ્રકર્ષને પામતો હોય. [૩/૪]]
જ પ્રષ્ટિ અને દ્વિમાંથી એકની પણ ઉપેક્ષા ન ચાલે જ 4. मोहिमशनस्ट पाशित स्याबा८२५२५ (मध्यम) माय-१.५४-१२८
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org