________________
६८ तृतीयं षोडशकम्
8 हेतु स्वरूप - फलमुखेन मलनिरूपणम्
=
= आगम: = सम्यक्परिच्छेदः, तेज सद्योगः सद्व्यापारः 'सत्क्रियात्मा, ततः सकाशात् विगमः । तत् तस्मात् । अयं = मलविगम: 'क्रिया, कार्ये कारणोपचारात् । अत एव सत्क्रियारूपमलविगमात् 'पुष्टिः शुद्धिश्च वक्ष्यमाणा चित्तस्य सम्भवति ॥३/३||
=
=
कल्याणकन्दली
इदञ्च स्वरूपमुखेन मलव्याख्यानम् । यत्तु टीकाकृता अपुनर्बन्धक - द्वात्रिंशिकावृत्ती १४/५ पृ. १६३] इत्युक्तं तत्तु फलद्वारा मलप्रतिपादनमवसेयम् । योगबिन्दौ तु ताम् । आत्मनोऽनादिमत्त्वेऽपि नायमेनां विना यतः || १६४ || - इति हेतुरूपेण मलनिरूपणं विज्ञेयमिति विवेक: । 'अयं कर्मबन्ध' इति व्याख्या । मल एवं स्वदर्शने सहजमलादिपदेन प्रतिपाद्यते, साङ्ख्यसम्प्रदाये दिदृक्षानाम्ना, शैवदर्शने भव - बीजाभिधानेन, वेदान्तिमतेऽविद्याप्रातिपदिकेन, सौगतसमये अविद्या - वासनाऽभिलापेन निरूप्यते । तदुक्तं योगविन्दी • दिदृक्षा- भवबीजादिशब्दवाच्या तथा तथा । इष्टा चान्यैरपि ह्येषा मुक्तिमार्गावलम्बिभिः || १६९ ॥ - इति । धम्मपदाख्ये सुगतग्रन्थे ---> अविज्जा परमं मलं <- [१८ / ९ ] इत्युक्तम् । मलनपदञ्च क्वचित् सहजमलं प्रतिपादयति [ यो. बि. १६८ ] क्वचिच्च विनाशादिकमिति [यो. चि. १४१] ध्येयम् ।
-->
-> मले कर्मबन्धलक्षणे <-- [द्वाद्वा. सहजं तु मलं विद्यात् कर्मसम्बन्धयोग्य
=
सम्यक्परिच्छेदः = हेयादिसद्भूतार्थगोचरयथार्थनिश्चय:, तेन सद्व्यापारः = सम्यक्परिच्छेदजन्य- सम्यग्व्यापार इत्यर्थः । विगमः क्षयोपशमादिस्वरूपः । तस्मात् = रागादिलक्षणमलप्रतियोगिकविगमस्य सदागमोपहितसत्क्रियाजन्यत्वात् मलविगमः एव क्रिया सत्क्रिया, मलविगमलक्षणे कार्ये कारणोपचारात् सत्क्रियात्मकस्य तत्कारणस्याऽज्रोपात्, तक्रादौ दध्युपचारवत् । अत्र मुद्रितप्रतौ तु 'क्रियाया: कारणे कार्योपचारादि' त्यत्यन्तमशुद्ध: पाठ इति कृत्वाऽस्माभिरपेक्षितः पाठोऽत्र स्वयं गृहीतः स चोपेक्षितः । इत्थमेव पूर्वोत्तरग्रन्थोपपत्तेः । सत्क्रियारूपमलविगमात् कारणीभूतसत्क्रियात्वेनोपचरितात् रागादिविलयात्, आरोपितसत्क्रियात्वविशिष्टात् रागादिह्रासादिति यावत् । यथा दधिरूपात् तक्रादितो मन्दाग्नेः पुरुषस्याऽन्त्रप्राबल्यरूपा पुष्टिराऽऽरोग्यलक्षणा शुद्धिश्च सम्भवतः तथा विहितसत्क्रियारूपात् मलविगमात् वक्ष्यमाणलक्षणा पुष्टिः शुद्धिश्र सम्भवतो व्यवहारनयेन । 'दासेन मे खरः क्रीतो दासोऽपि मे खरोऽपि मे' इति न्यायेन विहितविशुद्धसत्क्रियैव मलविगमद्वारा पुष्ट्यादिकं जनयतीति भावः । न हि द्वारेण द्वारिणोऽन्यथासिद्धिः । अत एव यत्र न द्वारोत्पादः न तत्राप्यन्वयव्यभिचारग्रस्ता सत्क्रिया, न वा सत्क्रियाविरहेऽपि अन्यतो मलविगमोत्पादे सत्क्रिया व्यतिरेकव्यभिचारकलङ्किता । न हि चक्रभ्रमणेऽव्यापारितेन | दण्डेन घटानुत्पादेऽपि विद्वांसोऽन्वयव्यभिचारमामनन्ति, न वा कदाचिद्दण्डं विनाऽपि हस्तादिनैव चक्रभ्रमणात् घटोत्पादेऽपि घटं प्रति दण्डस्य कारणताभङ्गमाचक्षते मनीषिण: । अत एव व्यवहारं विनाऽपि पूर्वाभ्यस्तकरणानां तथाभव्यत्वपरिपाकवतां | भरतादीनां कदाचित्केवलज्ञानोदयेऽपि तं प्रति व्यवहारस्य न हेतुताक्षतिरिति व्यवहारनयसाम्राज्यम् ।
विशुद्धतरव्यवहारनये तु सत्क्रिया मलविरहोपधायिकैव ग्राह्येति नान्वयव्यभिचारप्रसङ्ग इति सूक्ष्ममीक्षणीयम् । व्यवहारनयपराङ्मुखस्य व्यवहारनयाऽपलापिनो वा केवलनिश्चयवादिनो मार्गबहिर्भावद्योतनायैतादृशोपचारावलम्बनमकार । वस्तुतस्तु
अध्य, विष्टा वगेरे]. भूग श्लोमा 'खलु' शब्द वापरेल छे तेनो अर्थ अवधाराग = २ [ उण भागांनी ગયા.] આગમપદનો અર્થ છે સમ્યક્ નિશ્ચય. તેના દ્વારા સક્રિયાસ્વરૂપ સમ્યવ્યાપાર = પ્રવૃત્તિ થાય છે. જેનો મૂળ શ્લોકમાં 'संयोग' शब्दथी निर्देश रेल छे. सम्यई निश्चयथी जन्य सतुडियाथी रागादि भसनो विगम = विनाश [क्षयोपशम वगेरे] थाय છે. માટે કાર્યમાં કારણના ઉપચારથી મવિગમ ક્રિયા [= સક્રિયાસ્વરૂપ] છે. સક્રિયાસ્વરૂપ મલવિગમથી ચિત્તની પુષ્ટિ અને શુદ્ધિ સંભવે છે. જેનું સ્વરૂપ આગળના શ્લોકમાં બતાવવામાં આવશે. [૩/૩]
મલવિંગમ સત્ક્રમસ્વરૂપ પણ કહેવાય
વિશેષાર્થ :- અહીં એ વાત ખાસ ધ્યાનમાં રાખવા જેવી છે કે જિનોક્ત તત્ત્વનો સમ્યક્ નિશ્ચય થયા પછી તેના દ્વારા જે વિહિત સક્રિયા વિધિવિશુદ્ધ રીતે થાય તેનાથી રાગાદિ મલનો વિગમ = હ્રાસ = ક્ષયોપશમ વગેરે થાય છે. કાર્ય છે મલવિગમ, કારણ છે સમ્યનિશ્ચયજન્ય સક્રિયા. જેમ લચ્છી એ દહીનું કાર્ય છે અને દહીં એ લચ્છીનું કારણ છે. તેથી લચ્છીને દહીં કહેવામાં આવે ત્યાં કાર્યમાં કારણનો ઉપચાર સમજવામાં આવે છે. તે જ રીતે કાર્યમાં કારણનો ઉપચાર કરીને મલવિગમને પણ સક્રિયા १. सत्क्रियात्मनः सकाशादि ति ह प्रती पाठः । अन्यत्र 'क्रियात्मनः सद्व्यापारः सत् क्रियात्मनः सकाशात्' इति पाठ: । २. मुद्रितप्रती 'ततः ' इति अशुद्ध पाठः । ३ मुद्रितप्रती क्रियाया: कारणे कार्योपचारात् इत्यशुद्धः पाठः । ह. प्रतौ अपि 'कारणे कार्योपचारादि 'त्यशुद्धः पाठः । ४. मुद्रितप्रती 'शुद्धिपुष्टिश्व' इत्यशुद्धः पाठः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org