________________
યોગમાહાભ્યદ્વાચિંશિકા/બ્લોક-૧ दोडार्थ :
સંસ્કારમાં સંયમ કરવાથી પૂર્વજાતિઓની ઘી અનુસ્મૃતિ, થાય છે. પ્રત્યયમાં સંયમ કરવાથી ઘી બુદ્ધિ અર્થાત્ પરચિતગત સર્વભાવોનું જ્ઞાન, થાય છે. કાયરૂપની શક્તિના સ્તંભમાં સંયમ કરવાથી તિરોધાન थाय छे. 5||
નોંધ :- સંસ્કારમાં સંયમ કરવાથી પૂર્વજાતિઓની ધી=અનુસ્મૃતિ અને પ્રત્યયમાં સંયમ કરવાથી પરિચિત્તની ધી=બુદ્ધિ અર્થાત્ પરચિત્તગત સર્વ ભાવોનું જ્ઞાન, થાય छ, अम थन र्यु, तेमां सो-५ माथी धीः' शनी अनुवृत्ति छ. Easi :
संस्कार इति-संस्कारे स्मृतिमात्रफले जात्यायुर्भोगलक्षणे च ‘एवं मया सोऽर्थोऽनुभूतः', 'एवं मया सा क्रिया कृता,' इति भावनया संयमात् पूर्वजातीनां= प्रागनुभूतजातीनां, धीरनुस्मृतिरवबोधकमन्तरेणैव भवति, तदुक्तं - "संस्कारस्य साक्षात्करणात् पूर्वजातिज्ञानम्" [३-१८] ।
प्रत्यये परकीयचित्ते केनचिन्मुखरागादिना लिङ्गेन गृहीते, परचेतसो धीर्भवति तथासंयमवान् ‘सरागमस्य चित्तं वीतरागं वा' इति परचित्तगतान् सर्वानेव धर्मान् जानातीत्यर्थः, तदुक्तं - 'प्रत्ययस्य परचित्तज्ञानं [३-१९], न च सा(तत्सा)लम्बनं तस्याविषयीभूतत्वात्' [३-२०] इति, लिङ्गाच्चित्तमात्रमवगतं, न तु नीलविषयं पीतविषयं वा तदिति अज्ञाते आलम्बने संयमस्य कर्तुमशक्यत्वात्तदनवगतिः, सालम्बनचित्तप्रणिधानोत्थसंयमे तु तदवगतिरपि भवत्येवेति भोजः ।
काय शरीरं तस्य रूपं चक्षुर्गाद्यो गुणः तस्य नास्त्यस्मिन् काये रूपमिति संयमाद्रूपस्य चक्षुर्ग्राह्यत्वरूपायाः शक्तेः स्तम्भे भावनावशात्प्रतिबन्धे सति, तिरोधानं भवति, चक्षुषः प्रकाशरूपस्य सात्त्विकस्य धर्मस्य तद्ग्रहणव्यापाराभावात्, तथा संयमवान् योगी न केनचिद् दृश्यत इत्यर्थः, एवं शब्दादितिरोधानमपि ज्ञेयं, तदुक्तं- “कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुषः(क्षुःप्र) प्रकाशासं(प्र)योगेऽन्तर्धानम्”, [३-२१], एतेन शब्दाद्यन्तर्धानमुक्तमिति ।।६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org