________________
પ્રમાણપરિચ્છેદ
नर्थान् पुनस्तदन्यथाऽनुपपत्त्याऽनुमानेनैव परिच्छिनत्तीत्ति द्रष्टव्यम् । तद् द्विविधमृजुमतिविपुलमतिभेदात् । ऋज्वी सामान्यग्राहिणी मतिः ऋजुमतिः । सामान्यशब्दोऽत्र विपुलमत्यतथारूपपरिणामान्यथानुपपत्तितोऽनुमानतो जानाति, आह च भाष्यकृदपि ' जाणइ बज्झेणुमाणेणं" ( विशे. भा. गा. ८१४) । प्रयोगश्चात्रेत्थं द्रष्टव्यः चिन्तकस्य मनसोऽयं घटाद्याकारपर्यायः चिन्तनीयबाह्यवस्तुजनितः, तदाकारपर्यायत्वात्, यो हि यदाकारपर्यायः स तद्वस्तुजनितो यथा स्फटिके जपाकुसुमरक्ताकारपर्यायो जपाकुसुमजनितः । इत्थञ्चैतदङ्गीकर्तव्यं यतो मूर्तद्रव्यालम्बनमेवेदं मनःपर्यवज्ञानमिष्यते, मन्तारस्त्वमूर्तमपि धर्मास्तिकायादिकं जीवादिकं वा मन्येरन् । ततोऽनुमानत एव चिन्तितमर्थमवबुध्यते नान्यथेति प्रतिपत्तव्यम् । अत एव लक्षणवाक्ये मनोमात्रज्ञानत्वमपहाय मनोमात्रसाक्षात्कारित्वमुक्तमिति नाव्याप्तिरिति भावः । 'सामान्यग्राहिणीति अस्यां च व्युत्पत्तौ स्वतन्त्रमेव ज्ञानमभिधेयं, यदा पुनस्तद्वानभिधेयो विवक्ष्यते तदैवं व्युत्पत्तिः ऋज्व सामान्यग्राहिणी मतिरस्येति ऋजुमतिः, तथा विपुला = विशेषग्राहिणी मतिरस्येति विपुलमतिः । सामान्यग्रहणं च यथा 'घटोऽनेन चिन्तित' इत्यादिसामान्याकाराध्यवसायनिबन्धनभूत-कतिपयपर्यायविशिष्टमनोद्रव्यपरिच्छित्तिलक्षणं । विशेषग्रहणं च यथा ‘स च घटः सौवर्णः पाटलिपुत्रकोऽद्यतनो महानपवरकस्थितो फलपिहित' इत्याद्यध्यवसायहेतुभूत-प्रभूतविशेषविशिष्टमनोद्रव्यपरिच्छित्तिलक्षणं । एतेन 'मतिपदं ज्ञानपरं ज्ञानस्य च ऋजुत्वं विपुलत्वं चायुक्तं, 'निर्गुणा गुणा:' ( तत्त्वार्थ. ५/४० ) इति वचनात्, मूर्तेषु चैष व्यवहारः, 'ऋज्वी विपुला चाङ्गुलिरिति, ज्ञाने त्वमूर्ते एतत्कल्पना न साधीयसीति अपहस्तितं द्रष्टव्यं, ग्राह्यनिष्ठाया ऋजुताया विपुलतायाश्चैव ग्रहणात्, तथैव च ज्ञानस्य तथाव्यपदेशाद् या मतिः सामान्यं गृह्णाति सा ऋज्वी, विशेषं गृह्णतीति च विपुलेत्यर्थः । सामान्यपदमप्यत्र स्तोकाभिधायि ज्ञेयमन्यथा मनःपर्यायदर्शनप्रसङ्गात्, अतो विशेषमेव गृह्णन्त्यपि सा एकं द्वौ वा गृह्णन्ती प्रवर्तते, विपुलमतिश्च विपुलान् विशेषान् गृह्णन्ती प्रवर्तते । अतः विशुद्धिकृतो विशेषोऽस्य दर्शितो भवति । अस्ति हि अन्यदपि वैलक्षण्यमनयोः तथाहि - ऋजुमतिश्च प्राप्त्यनन्तरं कस्यचित् प्रमादादिवशतः प्रतिपतेदपि, विपुलमतिश्च आकेवलप्राप्तेः तिष्ठति । उक्तं च 'विशुद्धयप्रतिपाताभ्यां तद्विशेषः' (तत्त्वा. १/२५) ‘मनःपर्यायदर्शनप्रसङ्गादि’ति ननु कथं मनःपर्यायदर्शनं निषिद्ध्यते ? आगमानुरोधेनेति चेत्, आगमे तदभिहितमेव तथा हि 'सन्निपंचेंदिआणं पज्जत्तयाणं मणोगए भावे जाणइ पासइ २ વસ્તુનો વિચાર કર્યો છે, અન્યથા આ દ્રવ્યમનનો આવો આકાર જે જોવા મળે છે તે અસંગત બની જાય' અહીં એટલો ખ્યાલ રાખવો કે આ અનુમાન તો મતિ-શ્રુતજ્ઞાનાત્મક થશે. મન:પર્યવજ્ઞાન તો દ્રવ્યમનનો (પુગલોનો) જે સાક્ષાત્કાર કર્યો તેને જ કહેવાય. આના બે ભેદ છે.
-
(१) ऋतुभति मनःपर्यवज्ञान : आा सामान्यग्राही होय छे. अहीं 'सामान्य' पहनो अर्थ खेवो સમજવો કે ‘વિપુલમતિની અપેક્ષાએ અલ્પવિષયોનું ગ્રહણ કરે છે,' બાકી તો આ પણ વિશેષગ્રાહી જ છે, પણ ફરક એટલો કે વિપુલમતિની અપેક્ષાએ અલ્પવિશેષોનું ગ્રહણ કરે. જો આને १. जानाति बाह्यानुमानेन । २. संज्ञिपञ्चेन्द्रियाणां पर्याप्तानां मनोगतान् भावान् जानाति पश्यति ।
Jain Education International
For Private & Personal Use Only
=
93
www.jainelibrary.org