________________
७४
જૈન તકભાષા पेक्षयाऽल्पविशेषपरः, अन्यथा सामान्यमात्रग्राहित्चे मनःपर्यायदर्शनप्रसङ्गात् । विपुला विशेषग्राहिणी मतिर्विपुलमतिः । तत्र ऋजुमत्या घटादिमात्रमनेन चिन्तितमिति ज्ञायते, विपुलमत्या तु पर्यायशतोपेतं तत् परिच्छिद्यत इति । एते च द्वे ज्ञाने विकलविषयत्वाद्विकलप्रत्यक्षे (नंदिसूत्र पृ.१०८) अत्र ज्ञानापेक्षया जानातीत्युक्तं दर्शनोपेक्षया च पश्यतीति कुत्रागमविरोधो मनःपर्यायदर्शन इति चेत्, न, अभिप्रायानवगमात्, मनःपर्यायज्ञानी मनोद्रव्यरूपेण परिणतान् पुद्गलान् तद्गतान् वर्णादिभावाँ-श्चैव साक्षादवबुध्यतेऽतो जानातीत्युच्यते, चिन्तितं बाह्यमर्थं त्वनुमानत एव, अतस्तदपेक्षया पश्यतीत्युच्यते तत्र मनोनिमित्तस्याचक्षुर्दर्शनस्य सम्भवात्, आह च चूर्णिकार:- सण्णिणा मणत्तेणं मण्णिते मणोखंधे अणंते अणंतपदेसिए दव्वट्ठताए तग्गए य वण्णादिए भावे मणपज्जवणाणेणं पच्चक्खं पेक्खमाणो जाणइत्ति भणितं, मुणियत्थं पुण पच्चक्खं णो पेक्खइ, जेण मणोदव्वालंबणं मुत्तममुत्तं वा सो य छउमत्थो तं अणुमाणओ पेक्खइ, अतो पासणिया भणिया'१ इति। अथवा, सामान्यत एकरूपेऽपि ज्ञाने क्षयोपशमस्य तत्तद्रव्याद्यपेक्ष्य वैचित्र्यसम्भवादनेकविध उपयोगः सम्भवति, यथाऽत्रैव ऋजुमतिविपुलमतिरूपः, ततो विपुलमत्यावगतविशिष्टतरमनोद्रव्याकारपरिच्छेदापेक्षया जानातीत्युच्यते, ऋजुमत्यावगतसामान्यमनोद्रव्याकारपरिच्छेदापेक्षया तु पश्यतीति, तथा चाह चूर्णिकृद् - 'अहवा छउमत्थस्स एगविहखओवसमलंभेऽवि विविहोवओगसंभवो भवइ, जहा एत्थेव ऋजुमइविपुलमईणं उवओगो, अओ विसेससामन्नत्थेसु उवजुज्जइ जाणइ पासइत्ति भणियं न दोसो'२ इति। अत्र ‘एगविहखओवसमलंभेऽवि'त्ति सामान्यत एकरूपेऽपि क्षयोपशमलम्भेऽपान्तराले द्रव्याद्यपेक्षया क्षयोपशमस्य वैचित्र्यसम्भवाद्विविधोपयोगसम्भवो भवतीति ज्ञेयम् । यथैव हि अग्रेतनापायापेक्षया प्राक्तनस्यापायस्य विशेषविषयकस्यापि व्यवहारतोऽवग्रहत्वं समर्थितं पूर्वं, निश्चयेन च एकसामयिक एवावग्रह पुनः प्रत्यपादि तद्वदत्रापि विशिष्टतरमनोद्रव्याकारच्छेदो व्यवहारनयेन दर्शनरूपोऽपि निश्चयेन पुनः सोऽपि ज्ञानमेव न दर्शनं, यतः सामान्यरूपमपि मनोद्रव्याकारप्रतिनियतमेव पश्यति, प्रतिनियतविशेषग्रहणात्मकं च ज्ञानं न दर्शनमत एव सूत्रेऽपि दर्शनचातुर्विध्यमेवावलोक्यते, न पञ्चविधमपि, मनःपर्यायदर्शनस्य સામાન્યમાત્રગ્રાહી માનો તો આને “જ્ઞાન' ન કહેતા “મન:પર્યવદર્શન’ કહેવું પડશે. કારણ કે જ્ઞાન વિશેષગ્રાહી હોય છે જ્યારે દર્શન સામાન્યપ્રાણી હોય છે. અને આવું માનવાથી અપસિદ્ધાન્ત દોષ આવે કારણ કે જૈન સિદ્ધાન્તમાં મન:પર્યવ દર્શન માન્યું નથી.
(૨) વિપુલમતિ મન:પર્યવજ્ઞાન ઋજુમતિ કરતા આ અધિક વિશેષગ્રાહી હોય છે. ઋજુમતિમાં જો “તેણે ઘડાનો વિચાર કર્યો એટલું જ જણાય તો વિપુલમતિમાં તેણે અમદાવાદી લાલ ઘડાનો વિચાર કર્યો ઈત્યાદિ જણાય.
અવધિજ્ઞાન માત્ર રૂપીદ્રવ્યવિષયક જ છે જ્યારે મન:પર્યવજ્ઞાન તો માત્ર મનોવિષયક જ છે. १. सञ्झिना मनस्त्वेन परिणतान् मनःस्कन्धाननन्तान् अनन्तप्रादेशिकान् द्रव्यार्थतया तद्गतांश्च वर्णादिकान् भावान् मनःपर्यवज्ञानेन प्रत्यक्ष प्रेक्षमाणो जानातीति भणितं, ज्ञातमर्थं पुनः प्रत्यक्षं न प्रेक्षते येन मनोद्रव्यालंबनं मूर्तममूर्तं वा, स च छद्मस्थस्तमनुमानतः प्रेक्षते, अतः पश्यत्ता भणिता । २. अथवा छद्मस्थस्य एकविधक्षयोपशमलाभेऽपि विविधोपयोगसम्भवो भवति, यथात्रैव ऋजुमतिविपुलमत्योरुपयोगः अतो विशेषसामान्यार्थेषुपयुज्यते जानाति पश्यतीति भणितं, न दोषः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org