________________
પ્રમાણપરિચ્છેદ
૬૧ षोढा भिद्यमाना व्यञ्जनावग्रहचतुर्भेदैः सहाष्टाविंशतिर्मतिभेदा भवन्ति । अथवा बहु-बहुविधक्षिप्रा-ऽनिश्रित-निश्चित-ध्रुवैः सप्रतिपक्षादशभिर्भेदैर्भिन्नानामेतेषां षट्त्रिंशदधिकानि त्रीणि शतानि भवन्ति । बह्वादयश्च भेदा विषयापेक्षाः; तथाहि-कश्चित् नानाशब्दसमूहमाकर्णितं बहुं जानाति-‘एतावन्तोऽत्र शङ्खशब्दा एतावन्तश्च पटहादिशब्दा' इति पृथगभिन्नजातीयं क्षयोपशमविशेषात् परिच्छिनत्तीत्यर्थः । अन्यस्त्वल्पक्षयोपशमत्वात् तत्समानदेशोऽप्यबहुम् । अपरस्तु क्षयोपशमवैचित्र्याद् बहुविधम्, एकैकस्यापि शङ्खादिशब्दस्य स्निग्धत्वादिबहुधर्मान्वितत्वेनाप्याकलनात् । परस्त्वबहुविधम्, स्निग्धत्वादिस्वल्पधर्मान्वितत्वेनाकलनात् । अन्यस्तु क्रमेऽस्मिन्ननङ्गीकृते वस्त्ववगमाभाव एव प्राप्नोति । यतो नावगृहीतं वस्त्वीह्यते, ईहाया विचारख्पत्वादगृहीते च वस्तुनि निरास्पदत्वेन विचारायोगादित्यादावग्रहं निर्दिश्य पश्चादीहा निर्दिष्टा। न चानीहितं निश्चीयते, निश्चयस्य विचारपूर्वकत्वादिति प्रागपायादीहा निर्दिष्टा। न चापायविषयतामनीतं धार्यते, वस्तुधारणाया अर्थावधारणरूपत्वात्, तस्य च निश्चयमन्तरेणायोगादिति धारणादावपायः। ततश्च न्याय्य एष क्रम इति स्थितम् । यदुक्तं भाष्ये “ईहिज्जइ नाऽगहियं, नज्जइ नाणीहियं न याऽनायं, धारिज्जइ जं वत्थु तेण क्कमोऽवग्गहाइ उ"१ (विशे.भा.२९६) लोकानुभवोऽपि तथैवेति युक्त्या श्रुत्याऽनुभूत्या चैष क्रमो न्याय्य इति सम्यक् स्थितम् । क्वचित्क्रमस्य सतोऽप्यनुपलक्षणमेषामाशूत्पादादुत्पलशतपत्रव्यतिभेदक्रमवत् । अनेनैव क्रमेणात्मनो दर्शनज्ञानावरणादेः क्षयोपशमोऽपि प्रादुर्भवति, अतोऽपि युक्त उक्तक्रमः। यथाक्रमाविर्भूतनिजकारणजन्यत्वादवग्रहादयोऽपि तथाक्रमोपेताः स्थासकोशकुशूलादिवदिति भावः । इदमत्रावधातव्यम् → तत्तद्रव्यक्षेत्रकालभावापेक्षविचित्र-तत्तत्क्षयोपशमवशात् कदाचिदालोचनमात्रं सामान्यगोचरं, कदाचिदर्थावग्रहोऽपि अवान्तरसामान्यविषयः, कदाचित्संशयोऽपि, कदाचिदीहापर्यन्तं, क्वचिदपायान्तः, कदाचित्तु धारणापर्यन्ताः सर्वेऽप्येते समुन्मीलन्तीति विशेषः। इत्थञ्चावग्रहादीनां क्रमसिद्धौ एकजीवद्रव्याविष्वग्भावेनैकत्वेऽपि परिणामविशेषात् ४ भथा उत्पन्न थाय छे. तेमi G@म (=पश्चानुपुवा) : व्यतिम (=अनानुपूर्वी) थता नथी ! भेटले કે ધારણા-અપાય-ઈહા-અવગ્રહ એવા ઊંધા ક્રમથી કે પછી ઈહા-અવગ્રહ-ધારણા-અપાય અથવા, અવગ્રહ, અપાય-ઈહા-ધારણા વગેરે રૂપ આડા અવળા ક્રમથી પણ તે ઉત્પન્ન થતા નથી. તદુપરાંત તેમાં ન્યૂનતા પણ હોતી નથી. એટલે કે ક્યારેક અવગ્રહ પછી ઈહા વગર સીધો અપાય જ ઉત્પન્ન થાય. આ રીતે ન્યૂનતા પણ હોતી નથી. (હા, અપેક્ષિત ક્ષયોપશમ ન હોય તો અપાય સુધી ન પહોંચાય એવું બને, ક્યારેક અવગ્રહ થયા પછી તરત વિક્ષેપ (=વિષયાંતરસંચાર) થતા ઈહા વગેરે થાય જ નહીં એવું પણ બને, પણ ધારણા સુધી પહોંચવામાં તો યથાક્રમ અવગ્રહાદિ ચારે ય જ્ઞાન थाय ४. तेभ ओई 'शोर्ट:2' होतो नथी. मा तात्पर्य 'न्यूनत्वेन' पहनु छ.)
શંકાઃ અનેકવાર જાણવાના કારણે અભ્યસ્ત ( ચિરપરિચિત) બની ગયેલા પદાર્થોને વિશે તો १. ईह्यते नागृहीतं ज्ञायते नानीहितं न चाज्ञातम्, धार्यते यद्वस्तु तेन क्रमोऽवग्रहादिस्तु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org