SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ૫૪ જૈન તર્કભાષા यावत्, यथा 'श्रोत्रग्राह्यत्वादिना प्रायोऽनेन शब्देन भवितव्यम्' 'मधुरत्वादिधर्मयुक्तत्वात् शाङ्खादिना' वा इति । न चेयं संशय एव; तस्यैकत्र धर्मिणि विरुद्धनानार्थज्ञानरूपत्वात्, नैश्चयिकार्थावग्रहस्य दर्शनरूपत्वस्वीकारात्सर्वं सुस्थं स्यात् । किञ्च, ज्ञानस्य साकारोपयोगरूपतया स्वसंविदितत्वमस्ति, दर्शनस्य पुनर्निराकारोपयोगरूपतया न स्वसंविदितत्वम् । नैश्चयिकार्थावग्रहोऽपि निराकार एव सूत्रे प्रतिपादितः । तथा च प्रयोगः - नैश्चयिकावग्रहो दर्शनरूपः उपयोगरूपत्वे सति स्वसंविदितत्वाभावात् यन्नैवं तन्नैवं यथा ज्ञानम् । घटादावतिव्याप्तिवारणार्थं सत्यन्तं हेतुविशेषणम् । निराकारत्वसामान्यमात्रागोचरत्वादिकं सर्वं दर्शनवद् नैश्चयिकार्थावग्रहेऽपि समानमेव । इत्थमेव च श्रीहेमचन्द्रसूरिणोक्ता दर्शनस्य अवग्रहपरिणामिकारणताऽपि उपपद्यते। तदुक्तं 'अक्षार्थयोगे सति 'दर्शनम्' = अनुल्लिखितविशेषस्य वस्तुनः प्रतिपत्तिः, तदनन्तरमिति क्रमप्रतिपादनार्थमेतत् । एतेन दर्शनस्यावग्रहं प्रति परिणामितोक्ता' (प्र.मी.१/१/२६ वृत्तौ)। न च कथं दर्शनस्य प्रमाणकोटिबहिर्भावः प्रकृतग्रन्थकारसंदर्शित उपपद्येत, दर्शनस्यावग्रहरूपत्वे तस्य ज्ञानभेदत्वेन प्रमाणकोटिनिविष्टत्वादिति वाच्यम्, मत्यंशत्वेऽपि नैश्चयिकार्थावग्रहस्य प्रवृत्तिनिवृत्तिव्यवहाराक्षमत्वादेव न प्रमाणकोटिप्रवेशो। व्यावहारिकार्थावग्रहादारभ्यैव प्रमाणकोटिपरिगणनादिति ब्रूमः । तदेवं नैश्चयिकार्थावग्रहदर्शनयोरवैलक्षण्यं शब्दतोऽसदपि अर्थतः प्रतिभाति। किञ्च, विवक्षितवस्त्ववगमारम्भे छद्मस्थानां प्रथमं तावद् दर्शनोपयोग तदनन्तरञ्च ज्ञानोपयोग इत्यागमे प्रसिद्धं तदपि नैश्चयिकार्थावग्रहस्य दर्शनरूपत्वे निर्वहति, नैश्चयिकार्थावग्रहेणैव विवक्षितवस्त्ववगमारम्भात् । केवलं नैश्चयिकार्थावग्रहस्यैकसामयिकत्वं आगमप्रसिद्ध दर्शनस्य पुनरन्तमौहुर्तिकत्वमिति वैलक्षण्यमवशिष्यत इति पर्यालोच्यमिदं पर्युपासितगुरुकुलैः । ___ 'न चेयं संशय एवेति → नन्वनिश्चयस्वाभाव्यादीहा संशयज्ञानान्न भिद्यत इति चेत्, न, संशयपूर्वकत्वादीहाया संशयाद् भेदः । अवग्रहेहयोरन्तरालेऽभ्यस्तेऽपि विषये संशयज्ञानमस्त्येव, आशुभावात्तु नोपलक्ष्यत इति पूर्वोत्तरकालभावित्वादनयोः कालकृतो भेदः । एवं स्वरूपकृतोऽपि भेदः समस्ति, संशयस्यैकस्मिन् धर्मिणि विरुद्धनानाधर्मावगाहितया दोलायमानस्वभावत्वाद्, ईहायास्तु सम्भावनाप्रत्ययस्वभावत्वात्। चलितप्रतिपत्तिरूपः संशयः, संशयितस्य प्रमातुरुत्तरकालं विशेषलिप्सायां प्रतिपतनमीहेति જે અપાય પછી વિશેષધર્મને જાણવા માટે ઈહા અને તદુત્તરવર્તી અપાય થતા હોય તે પ્રથમ અપાય વ્યાવહારિક અર્થાવગ્રહ બને છે. જે અપાય પછી વિશેષવિષયક ઈહા-અપાય ન થાય તેને માત્ર અપાય જ કહેવાય. તે વ્યાવહારિક અર્થાવગ્રહ બની શક્તો નથી એટલું ખાસ સમજી રાખવું. આ રીતે અર્થાવગ્રહનું નિરૂપણ અહીં પૂર્ણ થયું. * Jहानु नि३५ए। * હવે ક્રમપ્રાપ્ત ઈહાનું નિરૂપણ કરે છે. સૌપ્રથમ ઈહાનું લક્ષણ (= સ્વરૂપ) જણાવે છે. શબ્દાદિ જે પદાર્થનો અવગ્રહ થયો હોય તે જ પદાર્થ વિશે વિશેષ આકાંક્ષા થવી તેને “ઈહા' કહેવાય છે. આ 5 ' मेवो (नैश्चयि) अवि थय। पछी ॥ ३५ शे? 3 २४. उसे ? 3 २०६ शे? ना, આંખ વગેરેનો વિષય ન બનતા કાનથી સંભળાયો માટે આ શબ્દ હોવો જોઈએ આવી સંશયપૂર્વકની Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004656
Book TitleJain Tarkabhasha
Original Sutra AuthorYashovijay Upadhyay
AuthorUdayvallabhvijay
PublisherDivya Darshan Trust
Publication Year2004
Total Pages276
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy