________________
જૈન તર્કભાષા
४४
मनसो देहादनिर्गतस्य तस्य च स्वसन्निहितहृदयादिचिन्तनवेलायां कथं व्यञ्जनावग्रहो न भवतीति चेत्; शृणु; ग्रहणं हि मनः, न तु ग्राह्यम् । ग्राह्यवस्तुग्रहणे च व्यञ्जनावग्रहो भवतीति न मनोद्रव्यग्रहणे तदवकाशः; सन्निहितहृदयादिदेशग्रहवेलायामपि नैतदवकाशः, बाह्यार्थापेक्षयैव प्राप्यकारित्वाप्राप्यकारित्वव्यवस्थानात्, क्षयोपशमपाटवेन मनसः प्रथम- मर्थानुपलब्धिकालासम्भवाद्वा, श्रोत्रादीन्द्रियव्यापारकालेऽपि मनोव्यापारस्य व्यञ्जनावग्रहोत्तर - मेवाभ्युपगमात्, 'मनुतेऽर्थान् मन्यन्तेऽर्थाः अनेनेति वा मनः' इति मनःशब्दस्यान्वर्थत्वात्,
यावद् गृह्यमाणानि शब्दादिपरिणतद्रव्याणि, तत्सम्बन्धो वा व्यञ्जनावग्रहस्तथाऽत्रापीति शङ्काग्रन्थार्थः । तन्त्र युक्तिक्षमं, न हि प्रतिसमयं गृह्यमाणौदारिकपुद्गलापेक्षया स्पार्शनो रासनो वा व्यञ्जनावग्रह इष्यते, विषयग्रहणापेक्षयैव तन्त्रे तस्येष्टत्वात् । अयम्भावः प्रतिसमयं यदनन्तौदारिकादिपुद्गलग्रहणं तच्छरीरनामकर्मोदयसम्पाद्यत्वान्न व्यञ्जनावग्रहः, ज्ञानावरणकर्मक्षयोपशमप्रभवत्वादवग्रहस्येति। एवं हि विषयासम्प्राप्तावपि समर्थिते मनसो व्यञ्जनावग्रहे दूषणं पश्य भङ्ग्यन्तरेण विषयसम्प्राप्त्यैव तस्य तं समर्थयन्नाह 'देहादनिर्गतस्येत्यादि । शरीरादनिर्गतस्यापि = बाह्यार्थदेशमगतस्यापि स्वस्थानस्थस्यापीत्यर्थः, स्वकाये नैकट्यादतीवसम्बद्धं हृदयादिकं चिन्तयतो यो ज्ञेयेन हृदयादिलक्षणेन सम्बन्धः स एव तस्य व्यञ्जनावग्रहो भवेत् । तदपि नोपपत्तिमत्, यत एवं हि प्राप्यकारितायामिष्यमाणायां निःशेषमपि ज्ञानं प्राप्यकार्येव, सर्वस्यापि तस्य जीवेन सम्बद्धत्वात् । किं हि नाम तद् वस्तु यदात्मदेशेनासम्बद्धं भवेत् ? ततः पारिशेष्याद् बाह्यार्थापेक्षयैव प्राप्यकारित्वाप्राप्यकारित्वचिन्ता युक्तिमती, अप्राप्तस्य प्राप्तेः संयोगपदार्थत्वात् । बाह्यार्थस्तु मनसाऽप्राप्त एव गृह्यत इति न तदीय व्यञ्जनावग्रहप्रसिद्धिः । ननु नित्यसंयोगस्यापि कुत्रचित् स्वीकृतत्वान्नाप्राप्तस्य प्राप्तेरेवसंयोगपदार्थत्वमिति चेत् ? भवतु तत्र प्राप्यकारिता, तथापि न तस्य व्यञ्जनावग्रहसम्भव इत्याह ' क्षयोपशमपाटवेने 'ति । अयमत्र પરંતુ શ્રોત્રાદિ ઇન્દ્રિયોના વ્યાપાર વખતે પણ મનોવ્યાપાર તો થાય જ છે અને શ્રોત્રાદિ ઇન્દ્રિયોનો અર્થાનુપલબ્ધિકાળ છે એવું તો તમે પણ માનો જ છો. બસ, એ કાળે જ મનનો વ્યંજનાવગ્રહ છે.
ઉત્તરપક્ષ : તમે ગમે તેટલાં વલખાં મારો તો પણ મનનો વ્યંજનાવગ્રહ સિદ્ધ ક૨વામાં હજી તમને ઘણા ગ્રહો નડવાના છે. શ્રોત્રાદિનો વિષયસંપર્ક થયા પછી અર્થાનુપલબ્ધિકાળ હોય છે. પરંતુ ત્યારે મનોવ્યાપાર હોતો જ નથી. અર્થાનુપલબ્ધિકાળ રૂપ વ્યંજનાવગ્રહકાળ વ્યતીત થઈ ગયા પછી જ મનોવ્યાપાર થાય છે અને મનોવ્યાપાર થતાની સાથે જ અર્થાવબોધ અર્થાવગ્રહ થવા માંડે છે. શ્રોત્રાદિના અર્થોનુપલબ્ધિકાળે મનોવ્યાપાર જ હોતો નથી એટલે તમારી ઇષ્ટસિદ્ધિ થઈ નહીં શકે. वणी, 'मन' शब्द ए सान्वर्थ छे. 'मनुते अर्थान् इति मनः' = पार्थोनुं मनन (जवजोधन) अरे ते मन. अथवा तो, 'मन्यन्तेऽर्था अनेन इति मनः ' જેના વડે પદાર્થોનું મનન થાય તે મન. આ રીતે મન શબ્દની વ્યુત્પત્તિ પણ, પ્રથમ સમયથી જ મન દ્વારા અર્થાવબોધ થતો માનીએ तो ४ घंटे. प्रेम } स्व-अभिधेय पछार्थोनुं भाषा (= अर्थभाषा ) ४२ तेने ४ 'भाषा' 'हेवाय,
=
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org