________________
પ્રમાણપરિચ્છેદ
इतिलब्धीन्द्रियमेवार्थग्रहणशक्तिलक्षणं प्रमाणं सङ्गिरन्ते; तदपेशलम्; उपयोगात्मना फलं हानोपादानोपेक्षाज्ञानलक्षणं तदा स्वार्थव्यवसायात्मकं करणसाधनं ज्ञानं प्रत्यक्षं सिद्धमेवेति न परमतप्रवेशः, तच्छक्तेरपि सूक्ष्माया: परोक्षत्वात् । तदेतेन सर्वं कादिकारकत्वेन परिणतं वस्तु कस्यचित् प्रत्यक्षं परोक्षं च कदिशक्तिरूपतयोक्तं प्रत्येयम् । ततो ज्ञानशक्तिरपि च करणत्वेन निर्दिष्टा न स्वागमेन युक्त्या च विरुद्धा इति सूक्तम् ।”
एतन्मतं प्रतिक्षिपति 'तदपेशलमि'त्यादिना। तथा च उपयोगेन्द्रियमेव प्रमाणत्वेन वक्तुमुचितमव्यवहितत्वात् । तथा च लब्धीन्द्रियस्य सन्निकर्षादिवदुपचारत एव प्रामाण्योपपत्तिरिति ध्येयम् |
अथ लब्धीन्द्रियमेवाव्यवहितत्वेन प्रमाणं, उपयोगस्य तु तद्व्यापारात्मकतया व्यवधायकत्वाभावात । यथा हि घटोत्पत्तौ दण्डव्यापारात्मकतया चक्रभ्रमणस्य न व्यवधायकत्वं तथैव फलज्ञानोत्पत्ती लब्धीन्द्रिय-व्यापारात्मकतया उपयोगेन्द्रियस्य न व्यवधायकत्वमिति चेत्, अत्र ब्रूमः - यथा हि दण्डः साक्षाच्चक्रभ्रमणे व्याप्रियते न तथा लब्धीन्द्रियं साक्षादुपयोगं जनयति, उपयोगस्योपकरणेन्द्रियप्रभवत्वात् । यदुक्तं तत्त्वार्थवृत्तौ श्रीहरिभद्रसूरिभिः 'निर्वृत्त्याश्रयत्वादुपकरणस्य, तत्प्रभवत्वात् श्रोत्राधुपयोगस्य' इति। तथा - लम्भनं लब्धिः = ज्ञानावरणकर्मक्षयोपशमविशेषः, यत्संनिधानादात्मा द्रव्येन्द्रियनिर्वृति प्रति व्याप्रियते, तन्निर्मित आत्मनः परिणामविशेष उपयोगः' इति (प्र.मी.वृत्तौ)। इत्थं च साक्षादुपयोगेन्द्रियाजनकतया न लब्धीन्द्रियस्य द्वारत्वं वक्तुमुचितं । द्वारलक्षणं चेदम् - तज्जन्यत्वे सति तज्जन्यजनकत्वं द्वारत्वम्' उपयोगे लब्धीन्द्रिय-जन्यत्वाभावेन तद्द्वारत्वमपि न सम्भवति । किञ्च, दण्डो हि चक्रे भ्रमणं जनयति, लब्धीन्द्रियं त्वात्मनि स्वार्थसंवित्तियोग्यतामेवादधाति, न तूपयोग, यदुक्तं 'तत्र लब्धिस्वभावं तावदिन्द्रियं स्वार्थसंवित्तावात्मनो योग्यतामादधद्भावेन्द्रियतां प्रतिद्यते' इति (प्र.मी.वृत्तौ)। तथा चायं क्रमोऽत्र प्रतिभाति यदुत लब्धीन्द्रियं हि निर्वृत्तिं जनयति, सत्यां च निर्वृत्तौ उपकरणोपयोगौ भवतः, निवृत्त्याश्रयत्वादुपकरणस्य, तत्प्रभवत्वाच्चोपयोगस्य, सत्येव चोपयोगेऽर्थवोधः । यद्वा, निश्चयतो हि उपयोगेन्द्रियमेव प्रमाणं, व्यवहारतो लब्धीन्द्रियमपि स्यात्, एतन्नये उपचाररस्य संमतत्वादिति दिक् । न च एवं सत्यागमे श्रूयमाणं लब्धीन्द्रियनिमित्तकत्वं उपयोगस्य व्याहन्येत इति वाच्यम्, उपयोगे जननीये लव्धेनिमित्तत्वे मनस एव साधकतमत्वप्रतिपादनात् । यदुक्तं इन्द्रियवादे આપત્તિ આવશે જે અનુભવબાધિત છે. માટે માનવું જ પડે વ્યાપાર વિનાના કારકથી ક્રિયા થઈ શકે નહીં. જ્ઞતિક્રિયા ત્યારે જ થઈ શકે જયારે આત્મા વ્યાપારયુક્ત (ઉપયોગયુક્ત) હોય. એટલે ઉપયોગેન્દ્રિય એ જ પ્રમાણ તરીકે સિદ્ધ થાય છે.
* લબ્ધીન્દ્રિય પ્રામાણ્યવાદનું નિરસન એક પૂર્વપક્ષ : શ્લોકવાર્તિકમાં શ્રીવિદ્યાનન્દ કહ્યું છે કે - આત્માની અર્થગ્રહણ કરવાની શક્તિ (=લબ્ધીન્દ્રિયો એ જ પ્રમાણ છે. કારણ તરીકે તેનો (અર્થગ્રહણ કરવાની શક્તિનો) ઉલ્લેખ કરવામાં કોઈ વિરોધ નથી. તેથી લબ્ધીન્દ્રિય જ પ્રમાણ છે.
ઉત્તરપક્ષ : તમારી વાત બરાબર નથી. અવ્યવહિતનિયતપૂર્વવર્તિને જ કારણ મનાય છે. તમે તો લબ્ધીન્દ્રિયને પ્રમાણ કહો છો પણ એ તો વ્યવહિત છે. જુઓ, લબ્ધીન્દ્રિયથી સીધો અર્થબોધ થતો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org