________________
૧૬)
જૈન તકભાષા
आप्तवचनादाविर्भूतमर्थसंवेदनमागमः । न च व्याप्तिग्रहणबलेनार्थप्रतिपादकत्वाद् धूमवदस्यानुमानेऽन्तर्भावः, कूटाकूटकार्षापणनिरूपणप्रवणप्रत्यक्षवदभ्यासदशायां व्याप्तिग्रहनैरपेक्ष्येणेवास्यार्थबोधकत्वात् । यथास्थितार्थपरिज्ञानपूर्वकहितोपदेशप्रवण आप्तः । वर्णपदवाक्यात्मकं तद्वचनम् । वर्णोऽकारादि: पौद्गलिकः । पदं सङ्केतवत् । अन्योऽन्यापेक्षाणां पदानां समुदायो वाक्यम् ।
'आगम' इति → प्रमाणमिति गम्यते । अर्थसंवेदनस्य प्रमाणत्वेन प्रतिपादिते सति नैयायिकादिपरिकल्पितशब्दलक्षणाऽऽगमप्रामाण्यं प्रत्युक्तं भवति, शब्दस्य जडत्वेन ज्ञानानात्मकतया प्रामाण्याभावात् । शब्दस्य जडत्वमनूपदमेव वक्ष्यते । उपचारात्तु आप्तवचनमपि प्रमाणं स्यात् ।
'वर्णोऽकारादि: पौद्गलिक' इति → न च कथं शब्दस्य पौद्गलिकत्वं, तस्याऽऽकाशगुणरुपतया द्रव्यत्वाभावादिति वाच्यम्, यतः शब्दपौद्गलिकत्वं हि प्रमाणतः प्रसिद्धं, तथाहि - शब्दः पौद्गलिकः प्रतिहन्यमानत्वात्, वायुना नीयमानत्वात्, द्वारतोऽनुगमनात्, विघातकारित्वाच्च । प्रचण्डशब्दोद्भेदजनितगिरिशिलाभेदोऽपि शब्दस्य पुद्गलमयत्वे प्रामाण्यमाबिभर्ति। सम्प्रति रात्निका अपि यन्त्रजनितशब्दात्मकशस्त्रेण रत्नभेदं कुर्वाणा दृश्यन्ते । प्रचण्डशब्देन कर्णान्तर्वर्तिपटलभेदोऽपि जायमानो दृश्यत, एतत्सर्वं शब्दस्य पुद्गलप्रभवत्वं प्रसाधयतीति सुस्थितं ‘पौद्गलिको वर्ण' इति । जैनाऽऽगमे शब्दस्य भाषावर्गणापुद्गलानां परिणामत्वेन प्रतिपादितत्वेन सिद्धान्तसिद्धोऽयं पक्षः । एतेन, शब्दस्याऽऽहङ्कारिकत्वं ब्रुवाणा साङ्ख्या:, नित्यद्रव्यत्वं ब्रुवाणाश्च मीमांसका प्रतिक्षिप्ताः ‘उत्पन्नो विनष्टो वा शब्दः' इति प्रत्यक्षेणैव नित्यत्वबाधात्, पौद्गलिकत्वोक्तित एव नित्यानित्यात्मकस्यैव शब्दस्य सिद्धेश्च ।
'पदं सङ्केतवदिति → अकार-मकार-उकारादेर्विष्णु-ब्रह्मा-शङ्करादौ सङ्केतितत्वेन तत्तदर्थवाचकत्वेन सम्बन्धादेकस्मिन् वर्ण आनुपूर्वीविशेषाभावादानुपूर्वीविशेषमपूर्णत्वस्य पदलक्षणत्वं परित्यज्य सङ्केतवत्त्वं पदत्वमित्येवमुक्तम् । अस्मात्पदादयमर्थो बोद्धव्य इति, इदं पदममुमर्थं बोधयत्विति वेच्छा सङ्केतः, न त्वीश्वरीयत्वमपि तत्र निवेशनीयं, आधुनिकैः सङ्केतितेऽपि पदत्वव्यवहारात् । (વ્યાતિ) નિશ્ચિત હોય તો અનુમિતિ થઈ જવી જોઈએ અને જો અન્યથાઅનુપપત્તિ (વ્યાતિ) નિશ્ચિત ન હોય તો અસિદ્ધમાં સમાવિષ્ટ જાણવો.
* स्वतंत्र मागम प्रभाानुं नि३५। * પ્રત્યક્ષપ્રમાણનું નિરૂપણ કર્યા બાદ પરોક્ષપ્રમાણના પાંચ ભેદો જણાવેલા. તેના દરેક ભેદનું ક્રમશઃ નિરૂપણ કરતા કરતા હવે છેલ્લા આગમ પ્રમાણનું નિરૂપણ કરે છે. સૌપ્રથમ તેનું લક્ષણ જણાવે છે. આપ્તવચનને આગમ કહે છે. આવા આતવચનથી ઉત્પન્ન થતો અર્થબોધ તે આગમપ્રમાણ.
પૂ.પક્ષ : જે રીતે ધૂમ-વહ્નિ વચ્ચેના અવિનાભાવસંબંધ (વ્યામિ)ના ગ્રહણ દ્વારા જે જ્ઞાન થાય છે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org