________________
शतक ५.-उद्देशक ८.
भगवत्सुधमस्वामिप्रणात भगवतासूत्र.
१३५
द्विगुणादयोऽपि अनन्तगुणान्ताः--' एवं ' इति द्विविधा अपि भवन्ति. ततश्चः--
"कोलाऽपएसयाणं एवं एकेकओ हवइ रासी, एकेकगुणठाणम्नि एगगुणकालयाईसे." एकगुणकाल-द्विगुगकालादिषु गुणस्थानकेषु मध्ये एकैकस्मिन् गुणस्थानके कालाऽप्रदेशानाम् एकैको राशिर्भवति, ततश्चाऽनन्तत्वाद् गुणस्थानकराशीनाम् अनन्ता एव कालाऽप्रदेशराशयो भवन्ति. अथ प्रेरकः-- . “ओह अगंतगुणतणमेवं कालापएसयाणं ति, जं अणंतगुणठाणेसु होति रासी विहु अणंता." ' एवं ' इति-यदि प्रतिगुणस्थानकं कालाऽप्रदेशराशयोऽभिधीयन्ते इति. अत्रोतरम्:--
" भन्नइ एगगुणाण वि अणंतभागम्मि जं अगंतगुणा, तेणाऽसंखगुण चिय हवंति णाणतगुणियत्तं." अयमभिप्रायः--यद्यपि अनन्तगुणत्वादीनाम् अनन्तराशयः, तथ.पि एकगुणकालत्वादीनाम् अनन्तभाग एव ते वर्तन्ते-इति न तद्द्वारेण कालाप्रदेशानाम् अनन्तगुणत्वम् , अपि तु असंख्यात गुणत्वमेव इति.
“एवं ता भावमिणं पडुच्च कालापएसिया सिद्धा, परमाणुपोग्गलाइसु दव्वे वि हु एस चेव गमो." एवं तावद् ‘भावं :-वर्णादिपरिणामं ' इमम् ' उक्तस्वरूपम् एकाद्यनन्तगुणस्थानवर्तिनमित्यर्थः. प्रतीत्य कालाप्रदेशिकाः पुद्गलाः सिद्धाः, कालाप्रदेशता वा पुद्गलानां सिद्वा प्रतिष्ठिता. द्रव्येऽपि द्रव्यपरिणाममपि अङ्गीकृय परमावादिषु एष एव भवपरिणामोक्त एव गमः-व्याख्या.
__ " ऐमेव होड़ खेत्ते एगपएसावगाहणाइसु, ठाणंतरसंकति पडुच कालेण मग्गणया." एवमेव द्रव्यपरिणामवद् भवति क्षेत्रे क्षेत्रमधिकृत्य एकप्रदेशावगाढादिषु पुद्गलभेदेषु स्थानान्तरगमनं प्रतीत्य कालेन कालाऽप्रदेशानां मार्गणा, यथा क्षेत्रतः, एवम् अवगाहनादितोऽपि-इत्येतदुच्यतेः
"संकोय-विकोयं पि हु पडुच्च ओगाहणाए एमेव, तह सुहम-बायर-निरेय -सेय-सदाइपरिणामं." अवगाहनायाः संकोचम् , विकोच च प्रतीय कालाप्रदेशाः स्युः, तथा सूक्ष्म--बादर-स्थिरा--ऽस्थिर-शब्द--मनः--कर्मादिपरिणाम च प्रतीत्येति.
" एवं जो सव्वो चिय परिणागो पुग्गलाण इह समये, तं तं पडुच्च एसिं कालेणं अप्पएसत्तं." 'एसिं ' ति पुद्गलानाम् इत्यर्थः.
" कालेण अप्पएसा एवं भावाऽपएसएहितो, होति असंखिजगुणा सिद्धा परिणामबाहुल्ला. ऐतो दव्यादेसण अप्पएसा हवंतिऽसंखगुणा, के पुण ते ? परमाण, कह ते बहुय ! त्ति तं सुणसु. अणु-संखेज्जपएसिय-असंखगुण-अणंतप्पएसिया चेव, चउरो चिय रासी पोग्गलाण लोए अणंताणं.
त्थाऽणतेहितो सुत्तेऽणतप्पएसिएहितो, जेण-प्पएसद्वाए भणिया अणुओ अणंतगुणा." अनन्तेभ्यो-ऽनन्तप्रदेशिकस्कन्धेभ्यः प्रदेशार्थतया परमाणवोऽनन्तगुणाः सूत्रे उक्ताः. सूत्रं चेदम्:-" सम्वत्थोवा अणंतपएसिया खंधा दव्वट्ठाए, ते चेव पएसट्टयाए अणंतगणा, परमाणपुग्गला दबद्वयाए पएसद्वयाए अणेतगुणा, संखेजपएसिआ खंधा दव्वद्वयाए संखेज्जगुणा, ते चेव पएसद्वयाए असंखेज्जगुणा, असंखेज्जपएसिया खंधा दव्वट्टयाए असंखेजगुणा, ते चव पएसट्टयाए असंखगुण ति."
“संखेजतिमे भागे संखेजपएसियाण वट्टति, नवरमसंखेज्जपएसियाण भागे असंखइमे." संख्येयतमे भागे' संख्यातप्रदेशिकानाम् , असंख्याततमे भागे असंख्यातप्रदेशिकानाम् अणवो वर्तन्ते-उक्तसूत्रप्रामाण्याद् इति.
" सँइ वि असंखेज्जपएसियाणं तेसिं असंखभागत्ते, बाहुलं साहिज्जइ फुडमवसेसाहि रासीहिं."
१. प्र० छा:-कालाऽप्रदेशक नामेवम् एकैकतो भवति राशिः, एकैकगुणस्थाने एकगुगकालकादिषु. २. आह अनन्तगुणत्वमेवं कालाप्रदेशकानामिति, यद् अनन्तगुणस्थानेषु भवन्ति राशयोऽपि खलु अनन्ताः. ३. भण्यते एकगुणानामपि अनन्तभागे यद् अनन्तगुणाः, तेन असंख्यगुणा एव भवन्ति नाऽनन्त गुणिकत्वम् . ४. एवं तावद् भाव मिमं प्रतीत्य कालाप्रदे शकाः सिद्धाः, परमाणुपुदूलादिषु द्रव्येऽपि खलु एष एव गमः, ५. एवमेव भवति क्षेत्रे एकप्रदेशावगाहनादिषु, स्थानान्तरसंक्रान्ति प्रतीत्य कालेन मार्गणता. ६. संकोच-विको चमपि खलु प्रतीत्य अवगाहनाया एवमेव, तथा सूक्ष्मबादर-निरेज-सेज-शब्दादि-परिणामम् . ७. एवं यः सर्वः एव परिणामः पुद्गलानामिह समये, तं तं प्रतीत्य एषां कालेन अप्रदेशत्वम् . ८. कालेन अप्रदेशा एवं भावाऽप्रदेश केभ्यः, भवन्तिः असंख्येयगुणा सिद्धाः परिणामबाहुल्यात् . ९. इतो द्रव्यादेशेन अप्रदेशा भवन्ति-असंख्यगुणाः, के पुनस्ते? परमाणवः, का ते बहुकाः ? इति तत् शृणु, १०. अणु-संख्येयप्रदेशिक-असंख्य गुण-अनन्तप्रदेशिका एव, चत्वार एव राशयः पुद्गलाना लोकेऽनन्तानाम् . ११. तथाऽनन्तेभ्यः सूत्रेऽन्तप्रदेशि केभ्यः, येन प्रदेशार्थतया भणिताः अणवोऽनन्तगुणाः. १२. सर्वतोका अनन्तप्रदेशिकाः स्कन्धा द्रव्यार्थतया, ते एव प्रदेशार्थतया अनन्तगुणाः, परमाणुपुद्गला द्रव्यार्थतया-प्रदेशार्थतया अनन्तगुणाः, संख्येयप्रदेशिकाः स्कन्धा द्रव्यार्थतया संख्यगुगाः, ते एव प्रदेशाधत या असंख्येय गुणाः. असंख्येयप्रदेशिकाः स्कन्धा द्रव्यार्थतया असंख्य यगुणाः, ते एव प्रदेशार्थतया असंख्यगुणा इति. १३. संख्येयतमे भागे संख्येयप्रदेशिकानां वर्तन्ते, नवरमसंख्येयप्रदेशिकानां भागेऽसंख्यतमे. १४. सत्यपि असंख्येयप्रदेशिकानां तेषामसंख्यभागत्वे सारल्यं कथ्यते स्फटमवशेषै राशिमि:-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.