________________
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक ५.-उद्देशक ८.
खामेति, खामित्ता संजमेणं, तसा अपाणं भावेमाणे जाव- विनयपूर्वक वारंवार तेओनी पासे क्षमा मांगे छे, खमावी संयम विहरड़.
अने तपवडे आत्माने भावता यावत्-विहरे छे. १. सप्तमोद्देशके पुद्गलाः स्थितितो निरूपिताः, अष्टमे तु त एव प्रदेशतो निरूप्यन्ते-इत्येवंसंबन्धस्याऽस्य इदं प्रस्तावनासूत्रम्:--' ते णं काले णं' इत्यादि.' दव्वादेसेणं' ति द्रव्य प्रकारेण द्रव्यत इत्यर्थ:--परमाणुत्वाद्याऽऽश्रित्य इति यावत्. 'खेत्तादेसेणं' ति एकप्रदेशावगाढत्यादिना इत्यर्थः. 'कालादेसेणं' ति एकादिसमयस्थितिकत्वेन. 'भावादेसेणं' ति एकगुणकालत्वादिना. 'सव्व. पोग्गला सपएसा वि ' इत्यादि. इह च यत् सविपर्ययसार्धादिपुद्गलविचारे प्रक्रान्ते सप्रदेशाः, अप्रदेशा एव ते प्ररूपिताः-तत् तेषां प्ररूपणे सार्धत्वादि प्ररूपितमेव भवति इति कृत्वा-इत्यवसेयम् . तथाहिः--सप्रदेशाः सार्धाः, समध्या वा; इतरे तु अनर्धाः, अमध्याश्चेति. ' अणंत ' त्ति तत्परिमाणज्ञापनपरं तत्स्वरूपाऽभिधानम्, अथ द्रव्यतः-अप्रदेशस्य क्षेत्राद्याश्रित्याऽप्रदेशादित्वं निरूपयन्नाहः-- 'जे दव्वओ अप्पएसे' इत्यादि. यो द्रव्यतोऽप्रदेशः परमाणुः, स च क्षेत्रतो नियमाद् अप्रदेशः, यस्माद् असौ क्षेत्रस्य एकत्रैव प्रदेशे अवगाहते. प्रदेशद्वयाद्यवगाहे तु तस्याऽप्रदेशत्वमेव न स्यात्. कालतस्तु यद्यसौ एकसमयस्थितिकस्तदाऽप्रदेशः, अनेकसमयस्थितिकस्तु सप्रदेश इति. भावतः पुनः यद्येकगुण कालकादिस्तदाऽप्रदेशः, अनेकगुणकाल कादिस्तु सप्रदेशः इति. निरूपितो द्रव्यतोऽप्रदेशः, अथ क्षेत्रतोऽप्रदेशं निरूयन्नाह:--'जे खेत्तओ अप्पएसे' इत्यादि. यः क्षेत्रतोऽप्रदेशः स द्रव्यतः स्यात् सप्रदेश:-व्यणुकादेरपि एक.प्रदेशाऽवगाहित्वात् , स्याद् अप्रदेश:--परमाणोरपि एकप्रदेशाऽवगाहित्वात्. 'कालओ भयणाए' त्ति क्षेत्रतोऽप्रदेशो यः स कालतो भजनयाऽप्रदेशादिर्वाच्यः. तथाहि:--एकप्रदेशाऽवगाढः एकसमयस्थितिक वाद् अप्रदेशोऽपि स्यात् , अनेकसमयस्थितिकत्वाच्च सप्रदेशोऽपि स्याद्-इति. 'भावओ भयगाए ' ति क्षेत्रतोऽप्रदेशो योऽसौ एकगुणकालकादित्वाद् अप्रदेशोऽपि स्यात् , अमेकगुणकालकादित्वाच्च सप्रदेशोऽपि स्याद्-इति. अथ कालाऽप्रदशम् , भावाऽप्रदेशं च निरूपयन्नाह:--' जहा खेतओ एवं कालओ, भावओ 'त्ति यथा क्षेत्रतोऽप्रदेश उक्तः, एवं कालतः, भावतश्चाऽसौ वाच्यः. तथाहि:--' जे कालओ अप्पएसे से दबओ सिय सप्पएसे, सिय अप्पएसे' एवं क्षेत्रतः, भावतश्च तथा 'जे भावओ अप्पएसे से दबओ सिय सप्पएसे, सिय अप्पएसे' एवं क्षेत्रतः, कालतश्च इति. उक्तोऽप्रदेशः, अथ सप्रदेशमाहः-- जे दबओ सप्पएसे' इत्यादि. अयमर्थः--यो द्रव्यतो द्वयणुकत्वादित्वेन सप्रदेशः, स क्षेत्रतः स्यात् सप्रदेश:--द्वयादिप्रदेशाऽगाहित्वात् , स्याद् अप्रदेश:-- एकप्रदेशावगाहित्वात्. एवं कालतः, भावतश्च. तथा यः क्षेत्रतः सप्रदेशो द्वयादिप्रदेशाऽवगाहित्वात् स द्रव्यतः सप्रदेश एव, द्रव्यतोऽप्रदेशस्य द्वयादिप्रदेशाऽवगाहित्वाऽभावात्. कालतः, भावतश्चासौ द्विधाऽपि स्याद्-इति. तथा यः कालतः सप्रदेशः स द्रव्यतः, क्षेत्रतः, भावतश्च द्विधाऽपि स्यात्. तथाऽपि यो भावतः सप्रदेशः स द्रव्य-क्षेत्र-कालैविधाऽपि स्याद्-इति सप्रदेशसूत्राणां भावार्थ इति. अथ एषामेव द्रव्यादितः सप्रदेशा-ऽप्रदेशानाम् अल्प-बहुत्व-विभागमाह:--'एएस णं' इत्यादि सूत्रसिद्धम् , नवरम् :--अस्यैव सूत्रोक्ताऽल्प-बहुत्वस्य भावनार्थं गाथाप्रपञ्चो वृद्धोक्तोऽभिधीयते:---
“वोच्छं अप्पा-बहुयं दब्ब-खेत्त-द्ध-भावओ वा वि, अपएस-सपएसाण पोग्गलाणं समासेणं. दव्वेणं परमाणू खेत्तेणेगपएसं ओगाढा, कालेणेगसमईया अपएसा पोग्गला होति.
भौवणं अपएसा एगगुणा जे हवंति वनाई." वर्णादिभिरित्यर्थः.
___ " ते चिय थोवा जं गुणबाहुल्लं पायसो दव्वे." द्रव्ये प्रायेण द्वयादिगुणा अनन्तगुणान्ता: कालकत्वादयो भवन्ति. एकागुणकालवादयस्तु अल्पा इति भावः. . "एत्तो कालाएसेणं अप्पएसा भवे असंखगुणा, किं कारणं पुण भवे ? भन्नति-परिणामबाहुल्ला." अयमर्थ:--यो हि यस्मिन् समये यद्वर्ण-गन्ध-रस- स्पर्श-संघात-भेद-सूक्ष्मत्व-वादरत्वादिपरिणामान्तरमाऽऽपन्नः स तस्मिन् समये तदपेक्षया कालतोऽप्रदेश उच्यते. तत्र च एक.समयस्थिति:- इति, अन्ये परिणामाश्च बह्व इति प्रतिपरिणाम कालाऽप्रदेशसंभवात् तबहुलत्वमिति. एतदेव भाव्यतेः--
भावेणं अपएसा जे ते कालेण हुंति दुविहा वि, दुगुणादओ वि एवं भावेणं जावऽणतगुणा." भावतो ये-अप्रदेशा एकगुणकालत्वादयो भवन्ति ते कालतो द्विधाऽपि भवन्ति-सप्रदेशाः, अप्रदेशाश्च इत्यर्थः. तथा भावेन
१. मूलच्छाया:-क्षमयति, क्षगयिला संयमेन, तपसाऽऽत्मानं भावयन् यावत्-विहरतिः-अनु०
१. प्र. छा:-वक्ष्येऽल्प-बहुत्वं द्रव्य-क्षेत्रा-ऽद्धा-भावतो वाऽपि, अप्रदेश-सप्रदेशानां पुद्गलानां समासेन. द्रव्येण परमाणयः क्षेत्रेणएकप्रदेशमवगाढाः, कालेनैकसमयिका अप्रदेशाः पुद्गला भवन्ति २. भावेन अप्रदेशा एकगुणा ये भवन्ति वर्णादयः, ३. ते एव स्तोका यद् गुणयाहुल्यं प्रायशो द्रव्ये. ४. इतः कालादेशेन अप्रदेशा भवेयुरसंख्यगुणाः, किं कारणं पुनर्भवेत् ? भण्यते-परिणामबाहुल्यात् . ५. भावेन भनदेशा ये ते कालेन भवन्ति द्विविधा अपि, द्विगुणादयोऽपि एवं भावेन यावद्-अनन्तगुणाः-अनु०
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International