________________
२२३
शतक ५.-उद्देशक ७. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. अयमर्थ:-क्षेत्रस्य अमूर्तत्वेन क्षेत्रण सह पुद्गलानां विशिष्टबन्धप्रत्ययस्य स्नेहादेरभावाद नैकत्र ते चिरं तिष्ठन्ति इति शेषः, यस्मादं एवं तत इत्यादि व्यक्तम् . अथाऽवगाहनायुर्बहुवं भाव्यो:--
"अणखेत्तगयस्स वि तं चिय माणे चिरं पि संधरइ, ओगाहणानासे पुण खेत्तन्नत्तं फुडं होइ." इह पूर्वाऽर्धन क्षेत्राद्धाया अधिका अवगाहनाद्धा इत्युक्तम्. उत्तरार्धेन तु अवगाहनादातो नाऽधिका क्षेत्राद्धा-इति. कथम् एतदेवम् ! इत्युच्यतेः
" ओगाहणीवबद्धा खेत्तद्धा आकियाऽवबद्धा य, न उ ओगाहणकालो खेत्तद्धामेत्तसंबद्धो." अवगाहनायाम्-अगमनक्रियायां च नियता क्षेत्राद्धा-विवक्षित-अवगाहनासद्भाव एव, अक्रियासद्भाव एव च तस्या भावात्उक्तव्यतिरेके च अभावात्-अवगाहनाद्धा न क्षेत्रमात्रे नियता, क्षेत्राद्धाया अभावेऽपि तस्या भावादिति. अथ निगमनम्:--
___“जम्हा तत्थ-ऽग्णत्थ य स चिय ओगाहणा भवे खेत्ते, तम्हा खेत्तद्धाओ-वगाहणद्धा असंखगुणा." अथ द्रव्याऽऽयुर्बहुत्वं भाव्यतेः--
“संकोच-विकोएण व उवरमियाए वगाहणाए वि, तत्तियमेत्ताणं चिय चिरं पि दव्वाणऽवत्थाणं." संकोचेन, विकोचेन चोपरतायाम् अपि अवगाहनायां यावन्ति द्रव्याणि पूर्वमासन् तावतामेव चिरमपि तेषाम् अवस्थानं संभवति, अनेनाऽवगाहनानिवृत्तौ अपि द्रव्यं न निवर्तते इत्युक्तम्. अथ द्रव्यनिवृत्तिविशेषेऽवगाहना निवर्तते एव इत्युच्यतेः--
" संघाय-भेयओ वा दव्वोवरमे पुणाइ संखित्ते, नियमा तद्दव्वोगाहणाए नासो न संदेहो.". संघातेन, पुद्गलानां भेदेन वा तेषामेव यः संक्षिप्तः-स्तोकावगाहनः स्कन्धः-नतु प्राक्तनाऽवगाहनः, तत्र यो द्रव्योपरमो द्रव्याऽन्यथात्वम् , तत्र सति न च संघातेन न संक्षिप्तः स्कन्धो भवति, तत्र सति सूक्ष्मतरत्वेनाऽपि तत्परिणते:-श्रवणात्-नियमात् तेषां व्याणाम् अवगाहनाया नाशो भवति, कस्माद् एवम् ? इत्यत उच्यते:--
“ओगा हद्धा दवे संकोय-विकोयओ य अवबद्धा, न उ दव्वं संकोयण-विकोयण-मित्तम्मि संबद्धं." अवगाहनाद्धा द्रव्येऽवबद्धा नियतत्वेन संबद्धा, कथम् ? संकोचाद् विकोचाच-संकोचादि परिहृत्य इत्यर्थः. अवगाहना हि द्रव्ये संकोच-विकोचयोरभावे सति भवति, तत्सद्भावे च न भवति; इत्येवं द्रव्ये अवगाहना अनियतत्वेन संबद्धा इत्युच्यते 'द्रुमः खदिरत्वम् इव' इति. उक्तविपर्ययमाह-न पुनद्रव्यं संकोचन-विकोचनमात्रे सत्यप्यवगाहनायां नियतत्वेन संबद्धम् , संकोचन-विकोचाभ्याम् अवगाहनानिवृत्तावपि द्रव्यं न निवर्तते इत्यवगाहनायां तन्नियतत्वेनाऽसंबद्धम् इत्युच्यते, खदिरत्वे दुमत्ववत् ' इति. अथ निगमनम्:--
" जम्ही तत्यण्णत्थ व दव्वं ओगाहणाए तं चेव, दव्वद्धाऽ संखगुणा तम्हा ओगाहणद्धाओ." अथ भावायुर्बहुत्वं भाव्यतेः--
“संघार्य-भेयओ वा दव्योवरमे वि पज्जवा संति, तं कसिणगुणविरामे पुणाइ दव्वं न ओगाहो." संघातादिना द्रव्योपरमेऽपि पर्यवाः सन्ति, यथा घृ (म)ष्टपटे शुक्लादिगुणाः-सकलगुणोपरमे तु न तद् द्रव्यम् , न चावगाहनाऽनुवर्ततेअनेन पर्यवाणां चिरं स्थानम् , द्रव्यस्य तु अचिरम् इत्युक्तम् . अथ कस्मादेवम् ! इत्युच्यतेः--
“संघार्य-भेय-बंधाणुवत्तिणी निचमेव दवद्धा, न गुणकालो - संघाय-भेयमेतद्धसंबद्धो." संघात-भेदलक्षणाभ्यां धर्माभ्यां यो बन्धः संबन्धः, तदनुवर्तिनी तदनुसारिणी, संघाताद्यभाव एव द्रव्याद्धायाः सद्भावात् , तद्भावे चाऽभावाद्, न पुनर्गुणकालः संघात-भेदमात्रकालसंबद्धः, संघातादिभावेऽपि गुणानामनुवर्तनाद् इति. अथ निगमनम्:
" जम्हा तत्थ-ऽण्णत्थ य दव्वे खेत्तावगाहणासु च, ते चेव पज्जवा संति तो तदद्धा असंखगुणा." " आह अणेगंतोऽयं दव्वोवरमे गुणाणऽवत्थाणं, गुणविप्परिणामम्मि य दव्वविसेसो य णेगतो."
१. प्र. छा:-अन्यक्षेत्रगतस्यापि तदेव मानं चिरमपि संधरति, अवगाहनानाशे पुनः क्षेत्रान्यत्वं स्फुटं भवति. २. अवगाहनावबद्धा क्षेत्राद्धा अक्रियावबद्धा च, न तु अवगाहनकालः क्षेत्राद्धामात्रसंबद्धः, ३. यस्मात् तत्राऽन्यत्र च सा एव अवगाहना भवेत् क्षेत्रे, तस्मात् क्षेत्राद्धातोऽवगाहनाद्धा असंख्यगुणा. ४. संकोच-विकोचेन वा उपरतायाम् अवगाहनायामपि, तावन्मात्राणामेव चिरमसि द्रव्याणामवस्थानम् . ५. संघात-मेदतो वा द्रव्योपरमे पुनः संक्षिप्ते, नियमात् तद्न्यावगाहनाया नाशो न संदेहः. ६. अवगाहनाद्धा द्रव्ये संकोच-विकोचतश्च अवबद्धा, न तु द्रव्यं संकोचन-विकोचनमात्रे संबद्धम्. ७. यस्मात् तत्रान्यत्र वा द्रव्यम् अवगाहनायां तच्चैव, द्रव्याद्धाऽसंख्यगुणा तस्मादू अवगाह नाद्धातः. ८. संघात-भेदतो वा द्रव्योपरमेऽपि पर्यवाः सन्ति, तत् कृत्स्नगुणविरामे पुनद्रव्यं न अवगाहः. ९. संघात-भेद-वन्धानुवर्तिनी नित्यमेव द्रध्याद्धा, न गुणकालः संघात-भेदमात्राद्धसंबदः, १०. यस्मात् तत्र अन्यत्र च द्रव्ये क्षेत्रावगाहनासु च, ते एव पर्यवाः सन्ति ततस्तदद्धा असंख्य गुणा. आह अनेकान्तोऽयं द्रव्योपरमे गुणानामवस्थानम्, गुणविपरिणामे च द्रव्यविशेषश्च नैकान्तः-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org