________________
नजिनागमाः, ये श्वेताम्बरसंप्रदायसंमान्याः, ते निषिद्धाः, किन्तु न तन्निषेधः समुचितः, इतरदर्शनग्रन्थेष्विव वर्तमानागमेषु अमुकानि स्थलानि मधिकतया संदिग्धानीवावभासन्ते, तथाऽपि सत्पुरुषदृष्ट्या संप्रेक्षणे समस्ति तन्निर्णयः. ततः उपशमदृष्ट्या तदागमावलोकने न कार्यः संशयः. श्रीजिनागमा उपशमस्वरूपाः, उपशमस्वरूपैरेव पुरुषैरुपशमार्थमेते प्ररूपिताः-उपदिष्टाः, स समुपशम आत्मार्थम् , नान्यप्रयोजनाय,
सत्राणि (जिनागमाः), तदनुसारेण च प्राचीनाचार्य रचितानि अन्यान्यपि बहूनि शास्त्राणि सन्ति विद्यमानानि. बीतरागश्रुतस्य
सुविहितपुरुषैस्तु तानि हितावहमत्यैव विरचितानि, कैश्चिदपि मतवादिभिः, हठाग्रहिभिः, शैथिल्यपोषकैश्च पुरुषैः माहारम्यम्। संकलितानि कानिचित् पुस्तकानि सूत्रेभ्यः, जिनाचारेभ्यो वा भिन्नानि, प्रयोजनमर्यादाबाह्यानि च ज्ञायेरन् , तेषां पुस्तकानामदाहरणात प्राचीनसुविहिताचायेवचनोत्थापनप्रयत्नो न भवभीरुभिर्महात्मभिर्विधीयते. परन्तु ततो भवति उपकार इति ज्ञात्वा तद्रहमानं कुर्वद्भिर्यथोचितं तानि सदुपयोगतया गृह्यन्ते.
येन मतभेदेनाऽयं जीवो गृहीतः, स एव मतभेदः तस्वरूपमावृणोति-वीतरागपुरुषस्य समागममन्तरा, तदुपासनां विना चास्मिन् जीवे कथं समुत्पद्येत मुमुक्षुता ? कुतः स्यात् सम्यग्ज्ञानम् ! कथं भवेत् सम्यग्दर्शनम् ! केन प्रकारेण चाऽऽविःस्यात् सम्यक्चारित्रम् ! तानि त्रीणि वस्तूनि नान्यत्र संभवन्ति. वीतरागपुरुषाभावप्रायो वर्तमानः समयः, [ जिनमार्गे ] आश्चर्यकरा भेदाः, [ स मार्गः ] खण्डितः, [ तम् ] संपूरयितुं दुर्गमं साधनं
दृश्यते, [तस्य ] प्रभावे महानन्तरायः समस्ति, [तदर्थम् ] च देश-कालादयः बहुप्रतिकूलाः वर्तन्ते, वीतरागवर्तमाने वीतराग-.
'.मतं लोकप्रतिकूलं संजातम् , ये लोका वीतरागमतानुयायिनः, तेऽपि न तत्प्रत्ययं खलक्ष्ये लक्षयन्ति, अथवा अन्यमार्गदशा।
मतमेव वीतरागमतं संज्ञाय ते सन्ति धर्मकरणे धावमानाः, यथार्थतया वीतरागमतज्ञानयोग्यता न तेषु लोकेषु लोक्यते, दृष्टिरागस्य प्रबलं साम्राज्यं समस्ति, वेषादिव्यवहारे विटम्बनां कृत्वा मोक्षमार्गे अन्तरायं विदधानाः समुपविष्टाः संसन्ति. तुच्छाः, दीनाः, विराधकवृत्तियुक्ताश्च पुरुषा अग्रेसरा वर्तन्ते, यदि किमपि तथ्यं सत्यं बहिराविःस्यात् तदा ते प्राणघातजमिव दुःखं समनुभवन्ति इति विलोक्यते.
वीतरागपदं पुनः पुनः संविचारणीयम् , समुपासनीयम् , ध्येयं च. कालदोषाद् अपारश्रुतसागरस्य बहुलो भागो विसृष्टः, अवशिष्टं अवज्ञानम-जिना. च वर्तमाने बिन्दुमात्रम् , अल्पमात्रं वा; बहुस्थलेषु च स्थूलनिरूपणापारिशेष्यादेव न लभते इदानीन्तनो जनो निम्रगमरूपसाधन- न्थभगवदुक्तश्रुतस्य पूर्ण लाभमस्मिन् क्षेत्रे, स एव हेतुर्मतमतान्तरोत्पत्तौ, तत एव च निर्मलात्मतत्त्वाभ्यासिनां महाशक्तिः ।
__ त्मनां संजाता अल्पता, अल्पतां प्राप्ते श्रुतज्ञाने बहुषु उत्पन्नेषु मतमतान्तरेषु, समाधानसाधनेषु परोक्षेष्वपि च 'सम्यग्दर्शनम्-श्रुतरहस्यम्' ईदृशो ह्यात्मानुभवहेतुर्मोक्षमार्गः-सम्यक्चारित्रम् , विशुद्धध्यानं चाद्यापि विद्यते, तंत् किल परमहर्षकारणम्, श्रीजिनेन कथिता भावा अध्यात्मपरिभाषाभूषिताः समवभासन्ते, अत एव ते दुःसंज्ञानाः, (तद्वेदनार्थम् ) परमपुरुषस्य योगः संप्राप्यः
जिनपरिभाषाविषयको विचारो यथावकाशं विशेषतो निदिध्यासितव्यः, भगवता जिनेन कथितो लोकसंस्थानादि वो, श्रीजिनपरिभाषा।
ऽध्यात्मपरिभाषया साधयितुं शक्यः, चक्रवादिस्वरूपमपि तथाविधम्, मनुष्योच्चताप्रमाणाद्यपि तथाप्रकारम् , कालप्रमाणादिष्यपि तथाविधतैव घटामटति, निगोदादिस्वरूपमपि न तथाप्रकारतामतिकामति, सिद्धस्वरूपमपि तेनैव प्रकारेण निदिध्यासनीयम्संप्रापणीयम् , 'लोक'-शब्दार्थः, 'अनेकान्त'-शब्दार्थश्च आध्यात्मिकः, 'सर्वज्ञ'-शब्दसंज्ञानं बहुगूढम् , धर्मकथारूपाणि चरित्राणि आध्यात्मिकपरिभाषया परिभूषितानि, जम्बुद्वीपादिवर्णनमपि तथाप्रकारमेव. भगवतीप्रभृतिसिद्धान्तेषु यत् किमपि जीवानां भवान्तरवर्णनमकारि, न तत्र किमपि संशयनीयम्, तीर्थंकरास्तु पूर्णात्मस्वरूपाः, परन्तु ये
पुरुषाः केवलं योग-ध्यानादिसमभ्यासबलात् स्थिताः, तेष्वपि कियन्तः पुरुषाः तानि भवान्तराणि ज्ञातुं शक्नुवन्ति भगवतीवर्णनानि।
' एवं च यद् भवति न तत्र काऽपि कल्पितप्रकारता, यस्य पुरुषस्य आत्मनो निश्चयात्मकं ज्ञानम्, स भवान्तरज्ञानी भवितुमर्हति, कचिच्च ज्ञानतारतम्येन क्षयोपशमभेदाद् न तथा भवितुमञ्चति, किन्तु यो जनः आत्मानं पूर्णतया, शुद्धतया च अनुभवति स तु तद् ज्ञानं (भवान्तरज्ञानम् ) जानातीति सुनिर्णीतम्.
'आत्मा नित्यः, अनुभवरूपः, वस्तुरूपञ्च' इत्यादि संस्कारदृढीकरणार्थ शास्त्रेषु ते ते प्रसङ्गाः समुपवर्णिताः, यदि कोऽपि स्पष्टतया न स्याद् भवान्तरज्ञानी तदा तु कोऽपि आत्मज्ञान्यपि न भवेदिति वक्तव्यं स्यात्. किन्तु तथा तु नास्ति, यतः-आत्मज्ञानं जायते स्पष्टतया, तत एव च भवान्तरज्ञानमपि स्पष्टतयैवावभासते यस्य कस्याऽपि ज्ञानिनः. स्वीयपरकीयभावसंज्ञानज्ञानं नैव केनाऽपि प्रकारेण विसंवादं प्राप्नोति.
-श्रीमद्राजचन्द्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.