SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ज्ञानात तद दःखं न नश्यति. तद्दुःखात्यन्तिकाभावं मोक्षमाचक्ष्महे. अत्यन्तवीतरागतामसंप्राप्य न भवेद् आत्यन्तिको मोक्षः, सम्यग्ज्ञानमन्तरा वीतरागता प्राप्तुमशक्या, सम्यग्दर्शनं विना ज्ञानमपि असम्यगुच्यते, येन स्वभावेन वस्तुनः स्वरूपम् , तेनैव स्वभावेन वस्तुनो ज्ञानं सम्यग्ज्ञानमुच्यते. सम्यग्दर्शनेन, सम्यग्ज्ञानेन च प्रतीतमात्मभावमनुसृत्य यद् वर्तनं तच्चारित्र्यमुच्यते. एषां त्रयाणाम् [ सम्यग्ज्ञानसम्यग्दर्शन-सम्यक्चारित्राणाम् ] एकतया जायते मोक्षमार्गः. जीवः स्वाभाविकः, जीवाश्चानन्ताः, परमाणवोऽप्यनन्ताः, जीव-पदलयोरनादिकः संयोगः, [ परमाणूनां समूहः पुद्गलः ] यावच्च जीवः पुद्गलेन संबद्धस्तावत् स सकर्मोच्यते, जीवो भावकर्मणां विधाता, भावकर्मणामपरं नाम विभावः, भावकर्मप्रभावेण जीवः पुद्गलराशिं संचिनोति, ततएव तैजसादिशरीरसंबन्धः, औदारिकादिशरीरसंबन्धश्च संजायते. यदि जीवो भावकर्मतो विमुखो जायेत तदा निजभावपरिणामी भवेत्. विना सम्यग्दर्शनं वास्तवेन भावकर्मतो जीवो विमुखीभवितुं न शक्नोति. जिनवचनाद् या तत्त्वार्थे प्रतीतिः, सैव सम्यग्दर्शने मुख्यं साधनम्. __समुपदर्शिता इमे उपायाः-सम्यग्दर्शन-सम्यग्ज्ञान-सम्यक्चारित्रादयः, अथवा एषां त्रयाणां यदेकं नाम सम्यग्मोक्षः. सम्यग्दर्शनादिषु 'सम्यग्दर्शनमेव मुख्यम्' एवं रीत्या नैकस्थलेषु श्रीवीतरागैः प्ररूपितम्, यद्यपि सम्यग्ज्ञानादेव सम्यग्दर्शनमपि अवउक्ष्यते, तथापि सम्यग्दर्शनप्राप्तिरहितं ज्ञानं संसारस्य-दुःखस्य-कारणमिति मत्वा मुख्यतया सम्यग्दर्शनमेव गृहीतम्. यथा यथा सम्यग्दर्शनं शुद्धं संजायते, तथा तथा सम्यक्चारित्रं प्रति वीयं समुल्लसति. एवं क्रमेण सम्यक्चारित्रावाप्तिसमयो नैकव्यमेव प्राप्नोति, तत एव चात्मनि स्थिरः स्वभावः सिध्यति, क्रमाच्च पूर्णतया स्थिरता प्राकव्यं प्रामोति, तत आत्मा निजपदे लीनो भूत्वा सर्वकर्मकलङ्करहितः शुद्धात्मस्वभावैकरूपे मोक्षे परमाऽव्याबाधसुखानुभवसमुद्रे च स्थितो भवति. यथा सम्यग्दर्शनप्राप्त्या ज्ञानं सम्यक्स्वभावं प्राप्नोति, एषः सम्यग्दर्शनस्य परमोपकारः तथा सम्यग्दर्शनं क्रमेण शुद्धं सत् पूर्णत्वेन यत् स्थिरतारूपं चारित्र्यं प्राप्नोति, तदर्थं तत् सम्यग्ज्ञानसामर्थ्य समपेक्षते. सम्यग्ज्ञानप्राप्तावुपायभूतं वीतरागश्रुतम् , तत्तत्त्वोपदेष्टा महात्मा च. वीतरागश्रुतपरमरहस्यज्ञाता, असङ्गः, परमकरुणाशीलो महात्मा अत्यन्तं र दुर्लभः, महाभाग्येनैव तद्योगः प्राप्यते तदसंशयम् ईदृशमहात्मनां योगो दुर्लभतमः, यदा सुषमे देशे, कालेऽपि एतादृशमवीतरागशास्त्राणि। हात्मनो योगो दुर्लभः, तदा दुःषमे काले स दुर्लभः स्यादेव, तत्र किं केन वक्तव्यम्. यद्यपि तादृशमहात्मनां योगः क्वचिदेवलभ्यते, तथाऽपि यदि शुद्धवृत्तियुतो मुमुक्षुः स्यात् तदैव स तादृशपुरुषस्य मौहूर्तिकेऽपि समागमे अप्राप्तपूर्व गुणं प्राप्नोति. येषां महात्मनां वचनप्रभावाद मुहर्तमात्रेऽपि काले चक्रवर्तिनोऽपि राजानः स्वीयं राज्य-विभवादिकं परित्यज्य भयंकरे वने तपश्चर्यामाचरितुं संचरिताः, तेषां महात्मनां योगेन कथं नाऽपूर्वा गुणप्राप्तिर्भवेत् ? सुषमे देशे, कालेऽपि कचिदेव तादृशां महात्मनां योगो जायेत, यतस्ते अप्रतिबद्धविहारिणो भवन्ति. कश्चिद् मुमुक्षुरेवममिलषेद् यद् एवंप्रकाराणां महात्मनां निरन्तरः समागमः कथं स्यात् ? यतो मुमुक्षवो मानवा दुःखक्षयेऽनन्यकारणभूतान् तान् पूर्णत्वेन समुपासीरन्. तद्विषयो मार्गः श्रीजिनेन भगवता एवमवलोकितः नित्यं तत्समागमे आज्ञाधीनत्वेन वर्तनीयम् , तदर्थं च बाह्यान्तरपरिग्रहादिः त्याज्यः, ये तु तं [परिग्रहादिकम् ] सर्वथा परित्यक्तुं न शक्तास्तैर्देशतस्तत्त्यागपूर्वकमेवं वर्तनीयम्. तेषां महात्मना गुणातिशयत्वेन, सम्यगाचरणात्, परमज्ञानात् , परमशान्तेः, परमनिवृत्तेश्च मुमुक्षुजीवस्य अशुभवृत्तयः परावृत्ताः सत्यः शुभस्वभावं प्राप्य स्वरूपं प्रति वलन्ति. तेषां पुरुषाणां वचनानि आगमस्वरूपाणि, तदपि पुनः पुनः स्ववचनयोगाऽप्रवृत्तेः, निरन्तरं समागमयोगाभावात्, तद्वचनयथास्थितस्मरणविरहात्, केषांचिद् भावानां स्वरूपज्ञाने परावर्तनज्ञानापेक्षणात् , अनुप्रेक्षाबलवृद्ध्यर्थं च वीतरागश्रुतम्-वीतरागशास्त्रम्-बलवदेकम् उपकारकारकं साधनम्, यद्यपि तादृशमहापुरुषयोगेनैव प्रथमं तद्रहस्य ज्ञानीयम्, पश्चाद् दृष्टौ विशुद्धायां सत्या महात्मसमागमविरहेऽपि तत् श्रुतं बलवदुपकारकारकम् , अथवा यत्र केवलं तादृशां महात्मनां योगो भवितुमशक्यः, तत्रापि विशुद्धदृष्टिमा वीतरागश्रुतं परमोपकारं करोति, तदर्थ चैव महापुरुषैरेकश्लोकाद् आरभ्य आद्वादशाङ्गं श्रुतप्रणयनमकारि. तद्द्वादशाङ्गस्य मूलतः उपदेष्टा श्रीसर्वज्ञो वीतरागः, यस्य स्वरूपं महात्मानो निरन्तरं ध्यायन्ति, स्वप्रतीत्या च तत्पदप्राप्तिमेव सर्वस्वप्राप्तिम् अनुभवन्ति. सर्वज्ञवचनानि संप्रधार्य महाचार्यैः तद् द्वादशाङ्गं न्यबन्धि, तदाऽऽश्रितैरपरैराज्ञाङ्कितैर्महात्मभिः इतराण्यनेकशास्त्राणि संरचितानि. द्वादशाङ्गनामानि चैवमः . आचार-अङ्गम् , सूत्रकृत-अङ्गम् , स्थान-अङ्गम् , समवाय-अङ्गम् , व्याख्याप्रज्ञप्ति-भगवती-अङ्गम् , ज्ञाताधर्मकथा-अङ्गम् , उपासकदशा-अङ्गम् , अन्तकृद्दशा-अङ्गम् , अनुत्तरौपपातिकदशा-अङ्गम् , प्रश्नव्याकरण-अङ्गम् , विपाक-अङ्गम् , दृष्टिवाद-अङ्गम्. तेभ्यः श्रीआचारादिशास्त्रेभ्यः कालदोषादनेकानि स्थलानि विसर्जनतां प्राप्तानि, अवशिष्टानि चाल्पानि स्थलानि; यानि चाल्पस्थलानि अवशि .ष्टानि तानि 'एकादशाङ्ग' इति संज्ञया श्वेताम्बरेषु प्रतीतानि. तन्मतं दिगम्बरैर्नानुमतम्. जिनदर्शने मुख्यतया श्वेताम्बर-दिगवीतरागशास्त्रं प्रति वेताम्बर-दिगम्बरौ। म म्बरनाम्ना भेदद्वयं प्रसिद्धम्. विसंवादापेक्षया, मताग्रहदृष्ट्या च तद् भेदद्वयं केवलं भिन्नभिन्नमार्गद्वयमिव दृश्यते. मतदृष्ट्या " तु तदवलोकने तयोर्भेदयोर्महदन्तरम्. तत्त्वदृष्ट्या जिनदर्शने मुख्यतया तादृशो विशेषभेदः परोक्षः, दीर्घदृष्ट्या तत्संप्रेक्षणे तयोर्द्वयोः मिन्नान्येव कारणानि दृश्यन्ते, विवादसंबन्धीनि बहुनि स्थलानि तु अप्रयोजनायमानान्येव तयोः, तान्यपि च परोक्षाणि. यानि च प्रत्यक्षकार्यभिन्नानि, न तेषु तादृशो भेदः, ततः संप्रदायद्वये उत्पद्यमाना गुणवन्तो जनाः सम्यग्दृष्ट्या पश्यन्ति, तथा च प्रवर्तन्ते यथा तत्त्वप्रतीतावन्तरायाऽल्पता भवेत्. यत् किञ्चिदस्तु, परन्तु तद्भेदद्वयमत्यन्तं सांनिध्यमागच्छति. "मोक्षमार्गप्रकाश" नामके दैगम्बरे ग्रन्थे वर्तमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004640
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherDadar Aradhana Bhavan Jain Poshadhshala Trust
Publication Year
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy