________________
." यस्मिन् कस्मिन् पुरुषे यावतांऽशेन वीतरागता संभवति, तावतोऽशेन तस्य पुरुषस्य वाक्यं माननीयं स्यात्. "
घुम्
"सर्वेभ्यो वीतरागवचनं संपूर्णतया प्रतीतिपात्रं कथयितुं समुचितम् यतो यत्र रागादिदोषाणां संपूर्णः क्षयः स्यात् तत्र " “संपूर्णज्ञानस्वभावप्रकटनोचितनियमो घटते - श्रीजिने या वीतरागता सा सर्वेभ्योऽतिरिच्यते, तेषां वचनं प्रत्यक्षं प्रमाणं ततः” शारीरिकाद्यनन्तप्रकारैर्दुःखैर्व्याप्ता अत एव विह्वला जीवास्तानि त्यक्तुमिच्छवोऽपि न त्यक्तुं शक्नुवन्ति किमस्य कारणम् ? एतादृशं प्रश्नं नैके पुरुषाः समुत्पादबन्ति, परन्तु तं समाधातुं तु कश्चिद् विरल एव शक्नोति. यावच्च यथार्थतया दुःखमूलमेव न ज्ञातम्, तावत् कृतेऽपि तत्क्षयोपाये न तद् विनश्यति, किन्तु दुःखं प्रति आकण्ठं चाप्रियतायाम्, अभावुकतायां सत्यामपि तद् अनुभवनीयमेव. विपरीतोपायैर्दुःखं नाशयितुं प्रयतमाने जने, तन्नाशार्थं च असह्यपरिश्रमपूर्वकं कृतेऽपि प्रयत्ने यदि न तद् नश्येत् तदा मुमुक्षुरत्यन्तं व्यामुह्यति, अथवा स मुमुक्षुः पुनः पुनरेवं चिन्तयति यत् किमेतत् ? कथं नेदं दुःखं टलति ? केनाऽपि प्रकारेण न तद् ममेस्वमेऽपि न तत् प्रति वृत्तिलवः, तथापि तत् प्राप्यते, अहं च यान् प्रयत्नान् तन्नाशाय करोमि, ते सर्वेऽपि केवलं विफला भवन्ति इति न, किन्तु अहं दुःखमेव अनुभवामि; किमेतत् ? किमस्य कारणम् ? किं न नाशार्हं दुःखम् ! किं दुःखानुभूतिरेव जीवस्वभावः ? किमस्ति कश्चिद् जगतः कर्ता ? किं तेनैवमेव कर्तुमुचितं गणितम् ? किं वैषा वृत्तिः भवितव्याधीना ? किमथवा केषांचिद् मत्कृतापराधानामेवेदं फलम् ? इत्येवंप्रकारान् अनेकान् विकल्पान् ते प्राणिनः कुर्वन्ति, ये सन्ति देह - मनोधारिणः ये तु देहिनोऽपि मनोरहितास्ते प्राणिनः अव्यक्तं दुःखम् अनुभवन्ति, इच्छन्ति च अव्यक्ततया यदेतद् अस्मदीयं दुःखं केनाऽपि प्रकारेण प्रणश्येत्. अस्मिन् जगति सर्वे शरीरिणः व्यक्तं वाऽव्यक्तं तदेव समाकाङ्क्षन्ति यत् केनाऽपि प्रकारेण दुःखं संनश्येत् कयाऽपि रीत्या नाहं दुःखमनुभवेयम्, सर्वथा सुखभागेव स्याम्, तेषां प्रयत्नोऽपि तदर्थमेव, एवं सत्यपि कथं न नश्यति तद् दुःखम् ? एतादृशः प्रश्नो बहूनां विचारवतां मनसि पूर्वकाले समभूत्, वर्तमानेऽपि भवति, भविष्यत्यपि तादृशविचारवन्तो भविष्यन्ति तेषु अनन्ताऽनन्तविचारवत्सु अनन्ता विचारवन्तः पूर्वोक्तप्रश्नसमाधानं प्राप्तवन्तः, मुक्ताश्च दुःखेभ्यः, वर्तमानेऽपि ये ये विचारवन्तस्तथ्यं समाधानं प्राप्तवन्तस्तेऽपि तथारूपं फलं प्राप्नुवन्ति, भविष्यति चापि ये ये विचारवन्तो यथार्थं समाधानं संप्राप्स्यन्ति ते ते तथारूपं फलं प्राप्स्यन्ति, नात्र संशयावकाशः.
"
धर्मोत्पत्तिमूलकारणम् ।
केबलमौषधेनैव यदि शरीरदुःखं नश्येत्, धनादिप्राप्त्या मनोदुःखनाशो भवेत्, वा बाह्यसंसर्गजं दुःखं मनसि न किमपि प्रभावं विदयात् तदा दुःखनाशाय ये ये प्रयत्नाः क्रियन्ते, तेषां जीवानां ते ते सफलाः स्युः किन्तु नैतादृग् भवत् कैरपि दृष्टम्, तदैव विचार'बतां मनसि प्रश्नः समुत्पन्नः यद् दुःखनाशाय अन्य एव उपायः स्यात्, योऽयं तदर्थं क्रियते प्रयत्नः स तु अयथार्थ एव, एवमेव प्रवृत्तौ तु सर्वः श्रमो व्यर्थ एव, अतो यदि दुःखस्य मूलकारणं यथार्थतया ज्ञायेत, तदनुसारेण च उपायविधिर्भवेत् तदा दुःखं विनश्येत्, नान्यथा यथार्थतया दुःखमूलकारणजिज्ञासोत्कण्ठिता अपि केचिदेव विचारशीलाः तद्विषयं सत्यं समाधानं प्राप्ताः केचित् तु यथार्थ समाधानम् अप्राप्नुवन्तो मतिव्यामोहादिना आत्मानं यथार्थसमाधानप्रापकं मन्यमानास्तदनुसारेण उपदेष्टुं प्रवृत्ताः, लोका अपि बहवः तदुपदेशानुसारेण प्रवृत्तिं विधातुं लग्नाः. जगति यदेतानि धर्मविषये भिन्नभिन्नमतान्तराणि दृश्यन्ते तेषां सर्वेषामिदमेव मुख्यमूलम्. “धर्माद् दुःखं विनश्येत्” एतादृशः सिद्धान्तो बहूनां विचारवतां संजातः, परन्तु तेषां धर्मखरूपसंज्ञाने परस्परमधिको भेदः समजनि, केचित् तु स्वीयाद् मूलविषयाद् भ्रंशं प्राप्ताः पुनश्च केऽपि तद्विषये मतिमोहाद् विविधतया नास्तिकादिपरिणामं गताः.
क़िमस्ति दुःखम् ? कानि च दुःखमूलकारणानि तानि च कथं नश्येयुः १ तत्संबन्धे जिनैर्वीतरागैर्यद् मतं दर्शितम् तत् - श्रीमतो श्रीरागधर्माऽ- वर्धमानजिनस्य - वर्तमानकाले अन्तिमतीर्थंकरदेवस्य - शिक्षयाऽधुना मोक्षमार्गाऽस्तित्वं वरिवर्ति, एतच्चात्र संक्षेपे - णोच्यतेः-
भिप्रायः ।
Jain Education International
“सर्वे जीवाः सुखं समिच्छन्ति, दुःखं तु सर्वेषामप्रियम्, दुःखाद् मुक्ता भवितुं सर्वे जीवा वाञ्छन्ति, तत्स्वरूपस्य यथार्थतया -
2 भ० सू०
For Private & Personal Use Only
www.jainelibrary.org