________________
श्रीमदाजचन्द्रात् श्रीजिनागमविषयकमिदं शिक्षणमस्माभिर्लब्धम् , अहम्मदावादनिवासिने श्रीमते हीराभाइ-सूनुश्रीपुंजामाइनाम्ने स्वस्नेहिने
.. तेषामियमाज्ञाऽऽसीद् यद् द्रव्यव्ययो ज्ञानोद्धाराय कार्यः, तदाज्ञानुसारेण श्रीपुंजाभाइनाम्ना ज्ञानरसिकेन धनिना अकाले श्रीमद्रायचयः।
कालेन कवलितस्य स्वैकतरुणपुत्रश्रीकचराभाइनाम्नः संस्मरणार्थ श्रीजिनागमप्रकटनयोजना कारिता, यत्र सर्वतः प्रथमं श्रीमत्सुधर्मवामिसंकलितं श्रीभगवतीसूत्रमिदं प्रथमखण्डरूपेण संमुद्र्य प्रकाश्यते. एतच्च भगवतीसूत्रप्रथमखण्डं न्यायतीर्थ-व्याकरणतीर्थेतिपदवीद्वयधारिणा पण्डितवर्येण श्रीजीवराजतनुजन्मना बेचरदासेन अनुवादितम्, स्थले स्थले मूल-टीकागतप्राकृतच्छाया-टिप्पणादिभिश्च संटिप्पितम् , सशोधितं च. आसीदिच्छा यद् एका आलोचनायुक्ता ऐतिहासिकी, शास्त्रसंमता च प्रस्तावनाऽनेन खण्डेन सहैव प्राकट्यं प्राप्नुयात् परम् अत्रार्थेऽधिककालाऽपेक्षा इति अतः परं प्रकटयितुं चिकीर्षितम्. अत्राऽस्माभिरस्माकं सर्वाः शक्तयः असंकुचितं नियोज्य इदं पुस्तकं यथोत्तमं स्यात् तथा सर्वे प्रयंनाः कृताः. तदिदं पुस्तकं प्रजाजनप्रेमपात्रीभवतु इति प्रबलत्वेन समाकाङ्क्षन्
मनसुखलाल रवजीभाइ मेहता.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org