________________
સન્મતિતી અને તેનું મહત્વ
वादद्वात्रिंशिका ग्रामान्तरोपगतयोरेकामिषसंगजातमत्सरयोः । स्यात् सौ (? स) ख्यमपि शुनोांवोरपि वादिनोर्न स्यात् ॥ १॥ क्व च तत्त्वाभिनिवेशः क्व च संरंभातुरेक्षणं वदनम् । क्व च सा दीक्षा विश्वसनीयरूपतानुजुर्वादः ( ? ) ॥२॥
तावद् बकमुग्धमुख स्तिष्ठति यावन्न रङ्गभवतरति ! रङ्गावतारमत्तः काकोद्धतनिष्ठुरो भवति ।।३।।
क्रीडनकमीश्वराणां कुर्कुटलावकसमानबालेभ्यः । शास्त्राण्यपि हास्यकथां लघुतां वा क्षुल्लको नाति ॥ ४ ॥ अन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय । कृत्स्नं वाङ्मयमित इति खादत्यनानि दर्पण ॥५॥
अन्यत एव श्रेयांस्यन्यत एव विचरन्ति वादिवृषाः । वाक्संरम्भः क्वचिदपि न जगाद मुनिः शिवोपायम् ॥७॥ यद्यकलहाभिजातं वाक्छलरमावतार निर्वाच्यम् । स्वस्थमनोभिस्तत्त्वं परिमीमांसेन्न दोषः स्यात् ।। ८ ॥
साधयति पक्षमेकोऽपि हि विद्वान् शास्त्रवित् प्रशमयुक्तः । न तु कलहकोटिकोट्याऽपि समेता (? संगता) वाक्यलालभुजः ॥९॥ आतध्यानोपगतो वादी प्रतिवादिनस्तथा स्वस्य । चिन्तयति पक्षनयहेतुशास्त्रवाग्बाणसामर्थ्यम् ॥ १० ॥ हेतुविदसौ न शब्दः (शाब्दः) शाब्दोऽसौ न तु विदग्धहेतुकथः । उभयज्ञो भावपटुः पटुरन्योऽसौ स्वमतिहीनः ॥ ११ ॥
सा नः कथा भवित्री तत्रैता जातयो मया योज्याः । इति रागविगतनिद्रो वाग्मुखयोग्यां निशि करोति ॥ १२ ।।
अशुभवितर्कविधूमितहृदयः कृत्स्ना क्षपामपि न शेते । कुण्ठितदर्पः परिषदि वृथात्मसंभावनोपहतः ॥ १३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org