________________
અસખ્યાતિનું ખંડન
४०५ भवति, न त्वत्यन्तासदर्थविषयः । तथा हि द्विविधा भ्रान्ति:-बाह्येन्द्रियजा मानसी च। तत्र बाह्येन्द्रियजे भ्रमज्ञाने विषयदोषाद् इन्द्रियदोषाद्वा समुत्पद्यमाने न क्वचिनिरालम्बनता दृश्यते। भास्वररूपसादृश्येन हि विषयदोषेण शुक्तिका रजतमिति परिस्फुरति, मरुस्थलपतितोत्फलितं च साविां तेजस्तरलतरङ्गसारूप्येण पय इति । चकास्ति । इन्द्रियदोषादपि पित्तोपहतरसनस्य तिक्ततया शर्कराऽवभासते, तिमिरसीमन्तितनयनवृत्तेश्चन्द्रमण्डलमेकमपि द्विधा प्रतिभाति, तिमिरकणनिकरविवरविरचितप्रसृताश्च नयनरश्मयः सूर्या शुसंवलिताः सन्तः सूक्ष्मतया केशकूर्चकाकाराः प्रतिभान्तीति ।
अन्तःकरणदोषेण विभ्रमो यस्तु जायते ।
असत्यपि महेलादौ पुष्पेषुमुषितात्मनाम् ।। सोऽपि कश्चिद्विषयदोषसहायो भवति । स चालम्बन एव ।
तस्याः पाणिरिति ज्ञानं यथा भवति कुत्रचित् । कोमलानिलकल्लोलवेल्लिते बालपल्लवे ।। अनपेक्षिततत्तल्यपदार्थस्यैव या पुनः ।
मानसी मन्मथोन्मादमहिम्ना मानिनीमतिः ।।
तस्यामपि रागादिवासनाबलोपप्लवमानस्मृत्युपस्थापितदेशकालव्यवहितोपलब्धपूर्वपुरन्ध्रीरूपादिसमुल्लेखः, न त्वेकान्तासतः खरविषाणादेरिव । प्रतिभानिद्रादिमनोदोषजन्मनि स्वप्नेऽपि दृष्टपूर्वस्यैव तस्याकारस्योल्लेखः ।
ज्वलज्जलगलद्वह्निद्रवदद्रयादिदर्शने । . रूपमन्यस्थमन्यत्र वेत्ति न त्वसदेव तत् ॥ तदेवं भ्रान्तबोधेषु नास्त्यत्यन्तासतां प्रथा । देशकालान्यथात्वं तु केवलं भाति वस्तुनः ।।
111. ભ્રમજ્ઞાન અસખ્યાતિ પણ નથી કારણ કે એકાન્ત અત આકાશકુસુમ વગેરેને પ્રતિભ સ સંભવતો નથી. દેશ અને કાળથી વ્યવહિત પહેલાં અનુભવેલા પદાર્થ વિષયક જ ભ્રમજ્ઞાન પ્રાણીઓને થાય છે, અત્યન્ત અસત પદ થ વિષયક ભ્રમજ્ઞાન થતું નથી, બ્રાન્તિ દિવિધ છે–બાન્દ્રિયજ અને માનસ તેમાં બદ્રિયજ શ્રમજ્ઞાન વિષયદેવને લીધે કે ઈન્દ્રિયદેષને લીધે ઉન્ન થાય છે, એટલે ભ્રમજ્ઞ ને ક્યારેય નિવિષયક દેખાતું નથી. ભાસ્કર રૂપના સાદક્યને કારણે અર્થાત વિષયદેષને કારણે છીપ રજતરૂપે દેખાય છે રણપ્રદેશમાં પરાવર્તન પામતાં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org