________________
२२८
ક્ષણભંગવામાં પલેક આદિ ઘટતાં નથી कर्मानुवृत्तिरप्येषा न चैकस्यास्ति कस्यचित् ।। कार्यकारणयोर्भेदात् कार्पासकुसुमादिवत् । अन्यत्रौव हिं कर्म स्यादन्यत्रौव च तत्फलम् ।। न च सन्तानभोगाय कश्चित् कर्मानुतिष्ठति । फलमस्मान्ममैव स्यादिति सर्वः प्रवर्तते ॥ सर्वथा शाक्यभिक्षूणां परलोको विसंष्ठुलः । न तत्प्रसाधने तेषां काचिद्गमनिकाऽस्ति वा ।। गर्भादौ प्रथमं ज्ञानं विज्ञानान्तरपूर्वकम् । ज्ञानत्वादित्ययं हेतुरप्रयोजक इष्यते ।। मूर्छाद्यनन्तरोद्भूतज्ञानैश्च व्यभिचार्ययम् । मूर्छितस्यापि विज्ञानमस्तीत्येतत्तु कौतुकम् ।। न ह्यर्थावगते रन्यद्पं ज्ञानस्य किञ्चन । मूर्छादिषु कुतस्तस्यात् कुतो वा कललादिषु ।। कललादिदशायां वा यदि विज्ञानमिष्यते । मातापितृस्थयोरस्तु शुक्रशोणितयोरपि ॥ ततश्चैकत्र सन्ताने चेतनद्वयमापतेत् । चेतनानां वहुत्वं वा दम्पत्योर्बहुपुत्रयोः ॥ न चैष नियमो लोके सदृशात् सदृशोद्भवः । वृश्चिकादेः समुत्पादो गोमयादपि दृश्यते । शरीरान्तरसञ्चारचातुर्य च धियां कथम् । ज्वालादिवन्न मूर्तत्वं न च व्यापकताऽऽत्मवत् ॥ आतिवाहिकदेहेन नीयन्ते चेद्भवान्तरम् । नन्वातिवाहिकेऽप्यासां कथं सञ्चारसंभवः ।। आस्तामेवैष वा जीवद्देहेऽपि पथि गच्छताम् । प्रदेशान्तरसंचारो ज्ञानानां भवतां कथम् ॥ न ह्येषां भूतधर्मत्वं न स्वतो गतिशक्तिता । न च जात्यादिवद् वृत्तिर्न च व्यापकताऽऽत्मवत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org