________________
૨૧૮
વાકયાર્થ વિશે ભિન્ન મતે
નિરૂપણ તે અન્ય શાસ્ત્રમાં ! = વ્યાકરણશાસ્ત્રમાં , વિસ્તારથી કરવામાં આવ્યું છે. તેનું ખેડાણ કરવાનું અમારું પ્રયજન નથી તે ક્ષેત્ર અતિ વિસ્તૃત છે. એટલે અન્ય દિશાની પરીક્ષા કરવા માટે અમે સમય ફાળવીએ છીએ | શબ્દના ] જાતિ વગેરે અર્થનું સમર્થન કરવા દ્વારા શબ્દો બાહ્ય અર્થને સ્પર્શે છે, ગ્રહે છે એ અમે જણાવી દીધું. આ અવસરે એટલાથી જ અમે કૃતાર્થ છીએ.
161. एवं पदार्थे निर्णीते वाक्यार्थश्चिन्त्यतेऽधुना ।
तत्र विप्रतिपत्तिश्च बहुरूपा विपश्चिताम् ॥ केचिदाचक्षते ---बाह्यस्य वाक्यार्थस्यासम्भवात् पदार्थसंसर्गनिर्भासं ज्ञानमेव वाक्यार्थ इति ।
अन्ये तु–वास्तवः पदार्थानां परस्परसंसर्गों बाह्य एव वाक्यार्थ इत्याहुः ।
अन्यव्यवच्छेदो वाक्यार्थ इत्यपरे, शुक्लादिपदान्तरोच्चारणे कृष्णादिनिवृत्तेरवगमात् ।
अपरे सङ्गिरन्ते- संसर्गस्य दुरपह्नवत्वात् तस्य च गुणप्रधानभावगर्भत्वाद् गुणीभूतकारकनिकरनिर्या प्रधानभूता क्रिया वाक्यार्थ इति ।
अन्ये मन्यन्ते --- भाव्यनिष्ठः पुरुषव्यापारः करोत्यर्थो भावनाशब्दवाच्यो वाक्यार्थः । लिङादिशब्दव्यापारवाच्यस्तु शब्दभावनाख्यः पुरुषार्थभावनाऽनुष्ठाने प्रवर्तकः स एव विधिरुच्यते ।
अन्ये ब्रवते द्वयाभिधाने लिङादेः प्रत्ययस्य भारगौरवाद्विधिरेव वाक्यार्थः. स एवानुष्ठेयः प्रवर्तकश्चेति । तत्रापि द्वयी विमतिः। कैश्चित् प्रेषणात्मकत्वं शब्दस्याभ्युपगतं, लिडादिशब्दैस्तथा तदवगमात् कार्यान्तरानवगमाद् भावार्थमात्रकार्यत्वपक्षस्य चातिदौर्बल्याद्विधिरेवानुष्ठेय इत्यर्थात् तस्य कार्यत्वम् । अन्यैस्तु कार्यत्वेन नियोगप्रतीतेरर्थात् तस्य प्रेरकत्वमिति संश्रितम् । कार्यमवगतं खसिद्धये पुरुषं नियुङ्क्ते, ममेदं कार्यमित्यवगते हि तत्सिद्धये पुरुषः प्रवर्तते इति ।
अन्ये पुनः अभिनवं वाक्यार्थमुद्योगं नाम वर्णयांबभूवुरित्यनेकशाखा विप्रतिपत्तिः । तदत्र किं तत्त्वमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org