________________
१०९
અથવાદવાક ઉપર અપ્રામાણ્યને આક્ષેપ (ते०सं० २.१.१], 'देवा वै देवजयनमध्यवसाय दिशो न प्राजानन्' [ ०सं० ६.१.५] इत्येवमादीनामर्थवादानां किं यथाश्रतवस्तुपरत्वमुत तेभ्यः कार्यरूपार्थोंपदेशपरिकल्पनम् उत लिङादियुक्तवाक्यान्तरप्रतिपाद्यमानकार्यरूपार्थोपयिकत्वमिति चिन्त्यम् । सर्वथा च प्रमादः ।
205. શંકાકાર–તર્કશાસ્ત્રમાં નિપુણ હોવા છતાં આપે હજુ પણ વેદના પિતાન દેહમાંથી ઉદ્ભવતા બધા દોષને દૂર કર્યા નથી. તે દર્શાવીએ છીએ. તેણે (=) રુદન કર્યું તેણે રૂદન કર્યું એટલે જ રુદ્રમાં સ્વત્વ આપ્યું', “પ્રજાપતિએ પોતાના માંસને કાપી બહાર કાઢયું, પછી તેને અગ્નિમાં હેમ્યું, તેના પરિણામે તેમાંથી શિંગડા વિમાને અજ (બક) ઉપર આવ્ય, દેવ દેવયજનને ‘="જ્ઞસ્થાનને નિશ્ચિતપણે જાણ્યા પછી દિશાઓ ભૂલી ગયા” વગેરે અર્થવાદ શબ્દશઃ સાચા છે (અર્થાત વસ્તુ જેવી વર્ણવવામાં આવી છે તેવી જ છે એમ જણાવનાર છે) ?, કે તેમના દ્વારા કમરૂપ અર્થના ઉપદેશની (=વિધિની) કલ્પના થાય છે ? કે લિંગ વગેરેથી યુક્ત અન્ય વાક્ય દ્વારા પ્રતિપાદિત કમરૂપ અર્થને ઉપાયભૂત છે ? --मे वियान मे. सधी रात विय:२di ar argr] ..
205. स्वरूपपरत्वे तावत् प्रमाणान्तरविरुद्धार्थोपदेशादप्रामाण्यमेवावतरति, रोदनवपोखेदनदिङ्मोहादेरर्थस्य तथात्वे निश्चयाभावात् । किञ्च 'स्तेनं मनोऽनतवादिनी वाक्' इत्येवंजातीयकानामर्थवादवाक्यानां विस्पष्टमेव प्रमाणान्तरविरुद्धार्थप्रतिपादकत्वम् । न हि निसर्गत एव सर्वप्राणिनामनृतवादिनी वाग्भवति, स्तेनं वा मनः । अपि च 'धूम एवाग्नेर्दिवा ददृशे नार्चिस्तस्मादर्चिरेवाऽग्नेर्नक्तं दृश्यते, न धूम:' तै० ब्रा० २.१.२] इति प्रत्यक्षविरुद्धमिदमभिधीयते, नक्तं दिनं द्वयोरपि. इन्द्रियार्थसन्निकर्षे सति ग्रहणात् । किञ्च ‘एतन्न विद्मो यदि ब्राह्मणा: स्मोऽब्राह्मणा वा' इति [गो० ब्रा० ५.२१] ब्राह्मणजातेरुपदेशसहायप्रत्यक्षगम्यत्वात् तद्विरुद्ध' एषोऽर्थवादः । शास्त्रविरोधोऽप्यस्ति 'को ह वै तद्वेद यदमुष्मिल्लोकेऽस्ति वा न ला' इति तै० सं० ६.१.१] । शास्त्रे स्वर्गादिफलानां ज्योतिष्टोमादिकर्मणामुपदेशात् केयमनवक्लप्तिः । अपि च गर्गत्रिरात्रब्राह्मणमधिकृत्य श्रूयते 'शोभतेऽस्य मुखं य . एवं वेद" इति [तां० ब्रा० २०.१६.६] । न हि कस्यचिदेवं विदत्तो मुखं शोभते इति प्रत्यक्षविरोधः । अन्यकर्मानर्थक्यशंसी च कश्चिदर्थवादो भवति. 'पूर्णाहुत्या सर्वान् कामानवाप्नोति' 'पशुबन्धयाजी सर्वान् लोकानभिजयति' 'तरति मृत्यु तरति पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजते यश्चैवं वेद' इति । यदि पूर्णाहुत्यैव सर्यकामावाप्तिः, पशुबन्धयागेनैव सर्वलोकजयः,अश्वमेघवेदनेनैव तत्फलावाप्तिः,तत्किमर्थमन्यकर्मोपदेशः ? उपदिष्टान्यपि तानि बहुक्लेशसाध्यानि कर्माणि व्यर्थानि भवेयुः, अनेनैव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org