SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २७४ श्री विजयानंदाभ्युदयम् महाकाव्यम् ।। प्रधाना आचार्यादयस्तेष्वपि शक्रइव श्रेष्ठस्तत्संबोधनं हे मुनिवरेंद्र ! हे वाचंयमेश! भव्या मोक्षार्हा मा जना अत्रास्मिञ् जगति त्वत्तो भवतो रत्नत्रयं सम्यग्ज्ञानदर्शनचारित्ररूपाणि त्रिरत्नानि विलभ्याधिगम्य मुक्तिस्त्रियोऽपि मोक्षरूपवरवर्णिन्या अपि ।।।। अत्र 'अपि' शब्देन मुक्तिस्त्रियः सामान्यजनानां दुर्लभत्वं ध्वनितं ॥*।। हीति निश्चयेनाभीष्टा वांछिता भवंति । किं विशिष्टं रत्नत्रयमित्याह। भवाहिशमनौषधरूपं। भवः संसारः सएवाहिः सर्पो दुख:दायित्वात्तस्य शमने शांतय औषधरूपं भेषजतुल्यं। भुजंगमविषध्वंसने रत्नानां क्षमत्वं प्रसिद्धमेव। अथ ते भव्या माः कथं संतोऽभीष्टा भवंतीत्याह । गतरूपविभाः। गता नष्टा रूपविभा देहसंबंधिरूपकांतिर्येषां ते। सिद्धानामशरीरित्वप्रसंगात्। व्यंग्ये तु गतसौंदर्यकांतिनामपि पुरुषाणांप्रति स्त्रियो मोहप्रसंग आश्चर्यसूचक एव। पुनः कथं संत इत्याह। मकरध्वजतुल्यरूपाः। मकरध्वजः कंदर्पस्तस्य तुल्यं रूपं येषां ते। मकरध्वजतुल्यरूपाणां पुरुषाणांप्रति स्त्रियो मोहप्रसंगस्तु युक्त एव। ननु “गतरूपविभाः" च "मकरध्वजतुल्यरूपाः" इति द्वयोरपि विशेषणयोर्मध्ये विरोधप्रसंगः। नैवं। मकरध्वजतुल्यरूपा इत्यनंगतुल्यरूपा अशरीरिण इति यावदिति ।। હે મુનિવરેંદ્ર! ભવરૂપી સર્પને શાંત કરવામાં ઔષધરૂપ એવા (સમ્યગ જ્ઞાન, દર્શન, ચારિત્રરૂપી) ત્રણ રત્નોને અહીં મેળવીને ભવ્ય માણસો ખરેખર રૂપકાંતિ રહિત થયા થકા, તથા કામદેવ સરખા રૂપવાળા થયા થકા મુક્તિ રૂપી સ્ત્રીને પણ વહાલા થાય છે. ।। अथ प्रकारांतरेणास्य मुनीशस्य वचोमाहात्म्यं वर्णयन्सन्स्तुतिमाह।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004562
Book TitleVijayanand abhyudayam Mahakavyam athwa Atmaramji charitam
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages400
LanguageGujarati
ClassificationBook_Gujarati & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy