________________
एकादशमः सर्गः ।
भव्या मुनीश तव वागमृतं निपीये । हास्येंदुनिर्गतममूल्यरसप्रवाहम् ॥ आनंददामतुलभां प्रविलभ्य मुक्तिं ।
सद्यः स्वयं विगतबंधभया भवंति ।। ४५ ॥
।। भव्याइति ।। हे मुनीश ! हे योगींद्र ! इहास्मिञ् जगति भव्या मोक्षार्हा जनास्तव त आस्येंदुनिर्गतमास्यं मुखं तदेवेंदुश्चंद्रस्तस्मान्निर्गतं निःसृतं प्रादुर्भूतमितियावत् । चामूल्यरसप्रवाहं । अमूल्योऽनर्थ्यो रसप्रवाहः शांताख्यरसप्रवृत्तिर्यस्मिंस्तत्तत् " प्रवाहस्तु प्रवृत्तिः स्यादित्यमरः” एवंविधं वागमृतं । वाग् वाणी सैवामृतं पीयूषं तन्निपीय पीत्वा । आनंददां प्रमोदप्रदां चातुलभां । अतुला निरुपमा भा कांतिर्यस्यास्तामेवंविधां मुक्तिं मोक्षं प्रविलभ्याधिगम्य सद्यो द्रुतं स्वयं स्वयमेव विगतबंधभया विगतो नष्टो बंधभयः कर्मबंधनदरो येषां ते । एवंविधा भवतीति ॥
હે મુનીશ! આ જગતમાં ભવ્યલોકો તમારા મુખરૂપી ચંદ્રથી નીકળેલા અમૂલ્ય રસ પ્રવાહવાળા વાણીરૂપી અમૃતને પીને, આનંદ આપનારી, તથા નિરુપમ કાંતિવાળી મુક્તિને મેળવીને તુરત પોતાની મેળે કર્મબંધનોના ભયથી રહિત થાય છે.
२७५
।। अथास्य मुनीशस्य स्तवमाहात्म्यं वर्णयन्सन्स्तुतिमाह । । भव्य जो भवति वै भवतोऽभिमुक्तो ।
वाचंयमेश निखिलं प्रविहाय पापम् ॥
साहित्यसाररसने रसनारसज्ञो ।
यस्तावकं स्तवमिमं मतिमानधीते । । ४६ ॥
।। भव्यव्रजइति ।। हे वाचंयमेश! हे मनींद्र ! साहित्यसाररसने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org