________________
२७२
श्री विजयानंदाभ्युदयम् महाकाव्यम् ।। અંધકાર, તેમ તમારા કીર્તનથી તુરત નાશ પામે છે. ।। अथ प्रकारांतरेणास्य मुनीशस्य चरणमाहात्म्यं
वर्णयन्सन्स्तुतिमाह संसारतापपरितापितमंगमेत ।
द्विष्ठाद्यनिष्टमिह हि प्रविहाय तूर्णम् ॥ एकांतशांतपदमव्ययमोक्षरूपं । त्वत्पादपंकजवनाश्रयिणो लभंते ।। ४२ ॥
॥ संसारेति ।। हे मुनींद्र ! संसारतापपरितापितम्। संसारो भवस्तस्मिन्यस्ताप आतपः खेद इतियावत् । तेन परितापितं समंताहु:खं नीतम्। च विष्ठाद्यनिष्टं विष्ठा पुरीषमादिर्येषां ते विष्ठादयः। आदिशब्दाद्रुधिरास्थिमांसमेदादयोऽपि। तैरनिष्ठं निंद्य। एवंविधमेतत्प्रसिद्धमंगं शरीरमिहस्मिञ् जगति हीतिनिश्चयेन तूर्णं द्रुतं प्रविहाय प्रकर्षेण त्यक्त्वा। अव्ययमोक्षरूपं । अव्ययः क्षयरहितो यो मोक्षोऽपवर्गः सएव रूपं स्वरूपं यस्य। एवंविधं ॥ एकांतशांतपदम् । एकांतशांतं विषयकषायादिभीरहितं पदं स्थानं लभंतेऽधिगच्छति। केऽधिगच्छंतीत्यथाह। त्वत्पादपंकजवनायिणः। त्वत्पादौ भवच्चरणौ तावेव पंकजवनं कमलकाननं तदाश्रयिणस्तत्प्रति शरणं गताः। युष्मदंघ्रिसेवका जना इति भावार्थः। पंकजवनायिणां च तापनिवृत्तिर्लोकप्रसिद्धैवेति ।।
હે મુનીંદ્ર! તમારાં ચરણોરૂપી કમળવનને આશ્રિત થએલા માણસો, સંસારના તાપે તાપયુક્ત કરેલા, તથા વિષ્ટાદિકથી નિંદનિક એવા આ શરીરને અહીં ખરેખર તુરત તજીને, અક્ષય મોક્ષરૂપ એવા એકાંત શાંતપદને મેળવે છે.
।। अथास्य मुनिराजस्य स्मरणमाहात्म्यं वर्णयन्सन्स्तुतिमाह।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org