________________
२७०
श्री विजयानंदाभ्युदयम् महाकाव्यम् ।। किलेति निश्चयेन त्वन्नामकीर्तनजलं। त्वन्नाम भवदभिधानं तस्य कीर्तनं कथनं स्मरणमितियावत् । तदेव जलं पानीयं शमयति शांततां नयति विध्यापयतीतियावत् । मोक्षं प्रयच्छतीति गर्भार्थ इति ।।
હે મુનીંદ્ર ! ક્રોધાદિકરૂપ ધુંવાડાના સમૂહથી આંધળા થએલ છે લોકોનાં નેત્રો જેનાથી તથા સ્ત્રી, પુત્રાદિકરૂપ ઘાસ અને કાષ્ટોથી વૃદ્ધિ પામેલા એવા કર્મરૂપી અગ્નિને ખરેખર તમારા નામના કીર્તનરૂપી પાણી ઠારી નાખે છે. ।। पुनरपि प्रकरांतरेणास्य मनीशस्य नाम्रो माहात्म्यं
वर्णयन्सन्स्तुतिमाह ॥ कटोपदेशविषवारविदग्धलोक । __मिथ्यात्विनायकभुजंगमसंचयश्च॥ नैवं कदर्थयति तं हि कदापि लोके।
त्वन्नामनागदमनी हृदि यस्य पुंसः ।। ४० ॥
।। कूटोपदेशेति।। हे मुनीश! यस्य पुंसः पुरुषस्य हृदि मानसे त्वन्नामनागदमनी। त्वन्नाम भवदभिधानं तदेव नागदमनी सर्पविषध्वंसक्षमावल्लिरस्तीति शेषः। तमेतं पुमांसं लोकेऽस्मिञ् जगति कदापि कस्मिंश्चिद्दिवसेऽपि। कूटोपदेशविषवारविदग्धलोकमिथ्यात्विनायकभुजंगमसंचयः। कूटो दंभयुक्तो य उपदेशो धर्मसंबंधिहितकथनं तदेव विषवारो गरलव्रजस्तेन विदग्धा भस्मीकृताः। दुर्गतिगमना_कृता इति गर्भार्थः। लोका जना यैस्ते। एवंविधा ये मिथ्यात्विनायकाः परधर्मगुरवस्तएव भुजंगमाः। 'भुजेन कौटिल्येन गच्छंतीति भुजंगमाः' सरीसृपास्तेषां संचयो निकरः। च पादपूरणार्थे । हीति निश्चयेन नैवं नैव "एवं प्रकारोपमयो-रंगीकारेऽवधारणे। इति धरणिः" कदर्थयति दुःखयतीति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org