________________
२६८
श्री विजयानंदाभ्युदयम् महाकाव्यम् ।। तोयनिधिर्यादःपतिस्तस्मात्तारणे परतटप्राप्तिदाने यानरूपी पोततुल्यौ। च पुन: किंविशिष्ठौ लक्ष्मीप्रभूतपरमध्वजमंडितौ लक्ष्मीप्रभूतौ सामुद्रिकशास्त्रोक्तचिन्हविशेषरूपौ। एवंभूतौ यौ परमध्वजौ श्रेष्ठकेतने ताभ्यां मंडितौ शोभितौ। नौरपि लक्ष्मीप्रभूतध्वजमंडिता लोकप्रसिद्धैवेति।।
હે મુનીશ ! સંસારરૂપી સમુદ્રથી તારનારા વહાણ સરખા તથા ચિન્હરૂપ થએલી ઉત્કૃષ્ટ ધજાઓથી મંડિત થએલાં એવાં તમારાં ચરણોને જોઈને તમોને આશ્રિત થએલા લોકોને સંસારથી ભય થતો નથી. ।। अथास्य मुनिराजस्य प्रकारांतरेण चरणमाहात्म्यं
वर्णन्सन्स्तुतिमाह ॥ आक्रांतलोकनिवहो भटकोटिकल्पो ।
दामोदरादिसुरसंहतिनाप्यजेयः॥ एवंविधोऽपि मदनो मुनिराज भव्यं ।
नाक्रामति क्रमयुगाचलसंश्रितं ते।। ३८ ॥
।। आक्रांतेति।। हे मुनिराज! हे वाचंयमेश! आक्रांतलोकनिवह आक्रांत आक्रमणं नीतो लोकनिवहो जनसमूहो येन स। मरणावधिकष्टदायित्वात् । च भटकोटिकल्पो भटानां वीराणां कोटयो भटकोटयस्तत्कल्पस्तन्निभो दुर्जेयत्वात्। च दामोदरादिसुरसंहतिनाप्यजेयः। दामोदरो नारायण स आदिर्येषां ते दामोदरादयः सुरा देवास्तेषां संहतिनापि समूहेनाप्यजेयो जेतुमशक्यः। यदाह भर्तृहरिः- "शंभुस्वयंभुहरयो हरिणेक्षणानां। येनाक्रियंत सततं गृहकर्मदासाः" एवं विधोऽपीत्थंप्रकारोऽपि मदनो मन्मथस्ते भवतः क्रमयुगाचलसंश्रितं क्रमयुगं चरणद्वंद्वं तदेवाचलः पर्वतस्तंप्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org