________________
२६७
एकादशमः सर्गः । इति भावार्थः। अथैतदृष्टांतेन समर्थयन्सन्नाह । हि यतोऽमृतकरस्य। अमृतयुक्ताः पीयूषयुक्ताः करा अंशवो यस्य कलानिधेरितियावत् । प्रभा कांतिर्यादृक् यथा मुत्प्रदात्री हर्षदायिन्यस्तीति शेषः। तादृक् तथा विकासिनोऽपि भास्वरस्यापि ग्रहगणस्य नक्षत्रसमूहस्य कुतः क्वास्तीति शेषः। नास्त्येवेति। एवं ग्रहसमूहस्यापि प्रभा यदा चंद्रतुल्या नास्ति तदैकस्य ग्रहस्य तु का वार्ता। एवं च त्वत्परसमूहस्याप्युपदेशनिर्बलत्वं यद्यस्ति तदा तदेकस्योपदेशनिर्बलत्वे तु का वार्तेति गर्भार्थ इति ॥
હે મુનીંદ્ર ! આપનો ઉપદેશ જેવી રીતે ભવ્ય પ્રાણીઓ પ્રતે સ્થાનકને ધારણ કરે છે, તેવી જ રીતે અન્ય દર્શનીઓનો ઉપદેશ ધારણ કરી શકતો નથી જ, કેમકે, ચંદ્રની કાંતિ જેવી (લોકોને) હર્ષ આપનારી છે, તેવી વિકસ્વર એવા પણ ગ્રહોના સમૂહની ક્યાં છે?
।। अथास्य मुनीशस्य चरणमाहात्म्यं वर्णन्सस्तुतिमाह ॥ संसारतोयनिधितारणयानरूपौ ।
लक्ष्मीप्रभूतपरमध्वजमंडितौ च ॥ पादौ मुनीश भवतो भवतो जनानां ।
दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ।। ३७ ॥
।। संसारेति ॥ हे मुनीश! हे यतींद्र ! भवतस्तव पादौ चरणौ दृष्ट्वा विलोक्य। अनेन तच्चरणसेवाफलं तु तस्मादप्यधिकतरं सूचितम्। भवदाश्रितानां भवंतं त्वामाश्रितानां संश्रितानांभवदत्तोपदेशस्यानुवर्तनं कुर्वतामिति यावत् । अनेन तदाश्रयंविना केवलं तत्पादालोकनमात्रकुर्वतां जनानां निरासः कृतः। जनानां लोकानां भवतः संसारतो भयं साध्वसं नो भवति न विद्यते। किं विशिष्टौ पादावित्याह। संसारतोयनिधितारणयानरूपौ। संसारो भवः सएव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org