________________
२६६
श्री विजयानंदाभ्युदयम् महाकाव्यम् ।। पुण्यां। न मोघं निरर्थकममोघं "मोघं त्रिषु निरर्थके। इत्युक्तत्वात्" एवंविधं पुण्यं सुकृतं “त्याद्धर्ममास्त्रियां पुण्य-श्रेयसी सुकृतं वृषः। इत्यमरः" यस्यां तां वाचं वाणीं श्रुत्वाकर्ण्य सपदि तूर्णं नतु चिरकालानंतरं। अनेनास्य मुनीशस्य वाचः परममहत्त्वं ध्वनितम्। तं प्रसिद्ध तीर्थकरत्वभावमार्हत्यावस्थामाप्य लब्ध्वा जना भव्या धर्मं। मोक्षमार्गमुपदिशंति दर्शयंति। लोकयिष्यंतीति गर्भार्थाः । भक्तिसंभ्रमोक्तित्वादेव वर्तमाननिर्देशोऽदुष्टएव । च पुनस्तत्रोपदेशस्थानके विबुधा निर्जराः कांचनानि सुवर्णनिर्मितानि पानि कमलानि परिकल्पयंति रचयंतीति ॥
હે મુનિરાજ ! સાર્થક પુણ્યવાળી તમારી વાણી સાંભળીને તુરત તીર્થંકરપણું મેળવીને લોકો ધર્મનો ઉપદેશ દીએ છે; તથા ત્યાં દેવો સુવર્ણના કમળો બનાવે છે. । अअ प्रकारांतरेणास्य मुनिवरस्योपदेशमाहात्म्यं
दर्शयन्सन्स्तुतिमाह ॥ भव्यांगिनां तव मुनींद्र यथोपदेशो ।
धत्ते पदं न च तथैव परस्य मह्याम् ॥ यादृक्प्रभामृतकरस्य हि मुत्प्रदात्री।
तादृक्कुतो ग्रहगणस्य विकासिनोऽपि ।। ३६ ॥
।। भव्यांगिनामिति ।। हे मुनींद्र! हे यतीश ! तव भवत उपदेशो धर्मसंबंधिहितकथनं भव्यांगिनां भव्या मोक्षार्हा अंगिनो देहिनस्तेषां प्रतीति शेषः। पदं स्थानं यथा धत्ते धारयति तथैव परस्य त्वदन्यस्य परधर्मोपदेशकस्येतियावत् मह्यां पृथिव्यां नच नैव "चः पादपूरणे पक्षांतरे हेतौ विनिश्चये। इति त्रिकांडशेषः" उपदेशो नैव पदं धत्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org