________________
एकादशमः सर्गः ।
२६५
इतियावत् । तत्संबोधनं हे संसारसागरशरण्य! मन्येऽहमेवं तर्कयामि । किं तर्कयामीत्यथाह । तव ते इदं प्रसिद्धमायतं विस्तृतं परमोदरगं श्रेष्ठशोभान्विततुंदप्राप्तं "सुषमा परमा शोभा । इत्यमरः " वलित्रयं । च पादपूरणार्थे । हीति निश्चयेन द्रुतं तूर्णं त्रिजगत: स्वर्गमृत्युपातालात्मकत्रयाणां लोकानां लोकानां भाव्यागामिनि भाव्यागामिनि काले भविष्यत्परमेश्वरत्वं महेश्वरत्वं तीर्थकरत्वमितियावत् । प्रख्यापयत् प्रकर्षेण ख्यापयत्सूचयदस्तीति शेष ॥ * ॥ एवं विधस्या- साधारणगुणगणमणिमाणिक्यनिकरमकराकरायमाणस्यास्य सूरीश्वरस्यानेकनिर्जरनिकरनायकसेव्यतीर्थकरत्वाप्तिसुलभता निर्विवादैवेति । * ।।
હે મુનિરાજ! હે સિદ્ધાંતોના પારંગામી! તથા હે સંસારરૂપી સાગરથી તરવાને શરણારૂપ! હું એમ માનું છું કે, ઉત્કૃષ્ટ શોભાવાળા ઉદર પર રહેલી આ તમારી વિસ્તારવાળી ત્રણ વળીઓ ખરેખર તુરત થનારા ત્રણે જગતના ૫૨મેશ્વરપણાને (તીર્થંકરपशाने) सूयवनारी छे.
|| हे मुनिराज ! " एवंविधं भावि तव तीर्थकरत्वं त्वास्तां । परंतु तव वाचं श्रुत्वा भव्यजना अपि तीर्थकरपदमधिगमिष्यंति "
इति वर्णयन्सन्नथ तस्य मुनींद्रस्य स्तुतिमाह ॥
वाचंयमेश तव वाचममोघपुण्यां ।
श्रुत्वाप्य तं सपदि तीर्थकरत्वभावम् ॥
धर्मं जना उपदिशंति च कांचनानि ।
पद्मानि तत्र विबुधाः परिकल्पयंति ॥ ३५ ॥
।। वाचंयमेशेति । हे वाचंयमेश! हे मुनींद्र ! तव ते अमोघ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org