________________
श्री विजयानंदाभ्युदयम् महाकाव्यम् ।।
।। तेजस्विभिरिति ।। हे मुनीश ! हे यतीश्वर ! शिष्यवर्गैः । परिवारसमूहैर्वेष्टितं परिवृत्तं ते तव वर्ण्य श्रेष्ठमंगं शरीरमत्रास्यां पृथिव्यां सुरगिरेर्मेरुपर्वतस्य शातकौंभं कार्तस्वरनिर्मितमुच्चैस्तटमिवोन्नतमेखलेव विभाति शोभतइत्युत्प्रेक्षा । अनेनास्य मुनिराजस्य भास्वरकार्तस्वरकांतिनिभा शरीरप्रभा ध्वनिता । किंविशिष्ठैः शिष्यवर्गैरित्यथाह। ग्रहगणैरिव नक्षत्रसमूहैरिवेत्युत्प्रेक्षा । तारकनिकरैर्वेष्टितं च मेरुतटं लोकप्रसिद्धमेव । पुनः किंविशिष्ठैस्तेजस्विभिः प्रभावयुक्तैः "तेजो दीसौ प्रभावे च । स्यात्पराक्रमरेतसोरिति मेदिनी" ग्रहपक्षे । दीप्तियुक्तैः । च पुनः किंविशिष्ठैर्नित्यमनिशं चरणक्रमसंश्रितैश्चारित्रपरंपराश्रितैः । ग्रहपक्षे- भ्रमणक्रमाश्रितैरिति । ।
२६४
હે મુન્નીશ! પ્રભાવવાળા (પક્ષે—કાંતિવાળા) તથા હમેશાં ચારિત્રના ક્રમને આશ્રિત થયેલા (પક્ષે ભ્રમણના ક્રમને આશ્રિત થએલા) એવા ગ્રહોના સમૂહ સરખા શિષ્યોના સમૂહોથી વીંટાએલું તમારું ઉત્તમ શરીર આ દુનિયામાં મેરું પર્વતના ઊંચા સુવર્ણતટ સરખું શોભે છે.
।। अथास्य मुनींद्रस्योदरं वर्णयन्सन्स्तुतिमाह ॥
मन्ये मुनीश परमोदरगं तवेदं ।
सिद्धांतपारग वलित्रयमायतं च ॥
संसारसागरशरण्य द्रुतं हि भावि ।
प्रख्यापयत्त्रिजगतः परमेश्वरवम् ।। ३४ ॥
।। मन्यइति ।। हे मुनीश ! हे योगींद्र ! हे सिद्धांतपारग! सिद्धांता आप्तप्रणितागमास्तेषां पारं तटं गच्छतीति सिद्धांतपारगस्तत्संबोधनं हे सिद्धांतपारग! हे संसारसागरशरण्य! संसारसागर: संसृतिरूपाकूपारस्तस्य तरणे पोत इव शरण्यः शरणाय योग्य-स्तारणसमर्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org