SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ एकादशमः सर्गः । || अथ प्रकरांतरेण तस्य मुनिराजस्य वचोमाहात्म्यं वर्णयन्सन्स्तुतिमाह ।। सिद्धांतसारकलितानि हितानि तानि । भव्ये वचांसि विगतानि हि ते प्रसारम् ॥ प्रातर्यथाशु किरणानि महत्प्रभाणि । तुंगोदयाद्रिशिरसीह सहस्त्ररश्मेः ।। ३२ ॥ ।। सिद्धांतेति ।। हे मुनींद्र ! सिद्धांतसारकलितानि । सिद्धांतानामागमानां सारास्तत्त्वानि तैः कलितानि युक्तानि च हितानि यथार्थत्वेन भव्योपकारकारीणि तानि प्रसिद्धानि ते तव वचांसि वचनानि भव्ये मोक्षार्हे जने । जातित्वादेकवचनम् । हीति निश्चयेन प्रसारं विस्तारं गतानि प्राप्तानि । कानीवेत्याह । इहास्मिञ् जगति प्रात: प्रत्यूषकाले सहस्ररश्मेर्मार्तिंडस्य महत्प्रभाणि । महती प्रभा कांतिर्येषां तानि महत्प्रभाणि किरणानि मरीचयो यथाशु तूर्णं तुंगोदयाद्रिशिरसीव । तुंग उन्नतो य उदयाद्रिः पूर्वाचलस्तस्य शिरसीव शिखरेवेति । । હે મુનિરાજ! પ્રભાતમાં સૂર્યના મહાન કાંતિવાળાં કિરણો જેમ તુરત પૂર્વાંચલના શિખર પર વિસ્તાર પામે છે, તેમ તમારાં સિદ્ધાંતોના સારોવાળાં તે હિતકારી વચનો ભવ્ય લોકો પ્રતે ખરેખર વિસ્તાર પામેલાં છે. अथास्य मुनिनाथस्यांगं वर्णयन्सन्स्तुतिमाह ॥ तेजस्विभिर्ग्रहगणैरिव शिष्यवर्गे । र्नित्यं मुनीश चरणक्रमसंश्रितैश्च ॥ अंगं विभाति तव वेष्ठितमत्र वर्ण्य । मुच्चैस्तटं सुरगिरेरिव शातकौंभम् ।। ३३ ॥ २६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004562
Book TitleVijayanand abhyudayam Mahakavyam athwa Atmaramji charitam
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages400
LanguageGujarati
ClassificationBook_Gujarati & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy