________________
२६२
श्री विजयानंदाभ्युदयम् महाकाव्यम् ।।
।। अथास्य मुनिराजस्य वक्त्रं वर्णयन्सन्स्तुतिमाह ।
श्यामत्ववारपरिणिःकृतभृंगवृंद | केशोच्चयालिपरिचुंबितशीर्षभागम् ॥
वक्त्रं मुनीश तव भाति सुधोर्मिगौरं ।
बिंबं रवेरिव पयोधरपार्श्ववर्ति ।।३१ ॥
।। श्यामत्वेति ।। हे मुनीश ! हे यतिनायक! तव ते वक्त्रं मुखं पयोधरपार्श्ववर्ति । पयोधराः सजलमेघास्तेषां पार्श्वे निकटे वर्ति स्थितं रवेः सूर्यस्य बिंबमिव मंडलवद्भाति शोभते । किंविशिष्टं तव वक्त्रमित्याह । श्यामत्ववारपीरणिः कृतभृंगवृंदकेशोच्चयालिपरिचुंबितशीर्षभागम् । श्यामस्य मेचकस्य भावः श्यामत्वं तस्य वार: समूहस्तेन परिणिः कृतं समंतात्तिरस्कृतं भृंगवृंदं भ्रमरकदंबकं यैस्ते । एवंविधा ये केशाश्चिकुराः ॥ * ॥ अनेनास्य मनीशस्य परमयौवनावस्थायामपि दुष्करजैनवृत्तपालनत्वं ध्वनितं ॥ * ॥ तेषामालि: पंक्तिस्तया परिचुंबित आश्लिष्टः खचित इतियावत् । शीर्षभागो मस्तकस्थानं यस्य यस्मिन्वा तत् । पुनः किंविशिष्टं । सुधोर्मिगौरम् | सुधा पीयूषं तस्योर्मयस्तरंगा : " ऊर्मिः पीडा। जवोत्कंठा भंगप्राश्यवीचिषु । इति हैम : " तइव गौरं श्वेतं "गौर: श्वेतेऽरुणे पीते । विशुद्धे चंद्रमस्यपीति हैमः" इति ॥
હે મુનિરાજ! શ્યામપણાના સમૂહથી દૂર કરેલ છે ભમરાઓનો સમૂહ જેણે, એવા કેશોના સમૂહની શ્રેણિથી ભરેલો છે મસ્તકનો ભાગ જેમાં, એવું તમારું અમૃતના મોજાંઓ સરખું ગૌર મુખ, વાદળાંઓની સમીપમાં રહેલા સૂર્યના બિંબ સરખું शोले छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org