________________
एकादशमः सर्गः ।
२६१
।। अथास्य सूरींद्रस्य मिथ्यात्विकृतादर्शनं दर्शयन्सन्स्तुतिमाह । ।
क्रोधोग्रधूमनिकरांधितनेत्रयुग्मै ।
रज्ञानरात्रितिमिराटनमत्तचित्तैः ॥
मिथ्यात्विघूकनिवहैर्भुवि लोकबंधो।
स्वप्रांतरेऽपि न कदाचिदपीक्षितोऽसि ॥ ३० ॥
।। क्रोधोग्रेति ।। हे लोकबंधो ! लोकानां जनानांप्रति बंधुतुल्यो हितकारित्वात् । तत्संबोधनं हे लोकबंधो ! | व्यंग्ये तु-हे सूर्य ! । भुवि पृथिव्यां मिथ्यात्विषूकनिवहैः । मिथ्यात्विनः पूर्ववर्णिताज्ञानयुक्त जनास्तएव घूका: पेचकास्तेषां निवहाः समूहास्तैः कदाचिदपि कस्मिंश्चित्समयेऽपि स्वप्नांतरेऽपि निद्रावस्थायां चित्तविकारजन्यविचारच्छद्मनापि ।। * ।। अनेन तेषां गाढदुर्लभबोधित्वं सूचितम् ॥ * ॥ नेक्षितोऽसि नोदृष्टोऽसि भवानिति शेषः । घूकानामपि सूर्यदर्शनदुर्लभत्वं लोकप्रसिद्धमेव । किंविशिष्ठौर्मिथ्यात्विघूकनिवहैरित्यथाह । क्रोधोग्रधूमनिकरांधितनेत्रयुग्मैः । क्रोधः कोपः सएवोग्रधूम उत्कटधूम्रस्तस्य निकरो व्रजस्तेनांधितान्यंधत्वं प्राप्तानि नेत्रयुग्मानि लोचनयुगलानि येषां तैः । पुनः किंविशिष्ठैरज्ञानरात्रितिमिराटनमत्तचित्तैः | अज्ञानं मिथ्याज्ञानं तदेव रात्रितिमिरं निशासंबंधितमः । सद्बोधाच्छादनत्वात् । तस्मिन् यदटनं भ्रमणं तस्मिन्मत्तानि हृष्टानि "हृष्टे मत्तस्तृप्तः । इत्यमरः " तेन वा मत्तानि मदोन्मत्तानि चित्तानि चेतांसि येषां तैः । घूकानामपि रात्रितिमिराटनमत्तचित्तत्वं लोकप्रसिद्धमेवेति ।।
हे सोडबंधु ! (पक्षे - हे सूर्य!) अधइची लयंडर धुंवाडाना સમૂહથી અંધ થએલ છે બન્ને નેત્રો જેમનાં તથા અજ્ઞાનરૂપી રાત્રિના અંધકારમાં હર્ષિત (અથવા-મદોન્મત્ત) થએલ છે ચિત્ત જેમનાં એવા મિથ્યાત્વીઓરૂપી ઘુવડોના સમૂહોથી પૃથ્વીમાં તમો કોઈ વખતે પણ સ્વપ્રદશામાં પણ જોવાએલા નથી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org