SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ श्री विजयानंदाभ्युदयम् महाकाव्यम् || ।। जैनेंद्रेति । हे जिन ! हे जित्वर ! “जिनोऽर्हति च बुद्धे च । पुंसि स्याज्जित्वरे त्रिषु । इत्युक्तत्वात् " तुभ्यं ते नमो नमस्कारो भवतु । किंविशिष्ठाय तुभ्यमित्याह । जैनेंद्रदर्शनसमुद्रसुधाकराय । जैनेंद्रं च तद्दर्शनं च जैनेंद्रदर्शनं । तदेव समुद्रोऽपांनिधिस्तस्य वृद्धये सुधाकराय मृगांकतुल्याय । पुनः किंविशिष्ठाय । सिद्धांतसारकमलभ्रमरोपमाय । सिद्धांतानामाप्तप्रणितागमानां यः सारस्तत्वं तदेव कमलं नीरजं तस्य रसग्रहणे भ्रमरोपमाय द्विरेफतुल्याय । पुनः किंविशिष्ठाय । अज्ञानसुप्तजनजागरणारुणाय । अज्ञानमविद्या तस्यां सुप्तानां निद्रितानां प्रलीनानामितियावत् । स्वपरावभासिज्ञानशून्यत्वात् । एवंविधानां जनानां लोकानां जागरणाय निद्रावस्थाविलोपनकृतेऽरुणाय सूर्यतुल्याय " अरुणोऽव्यक्तरागेऽर्के । इत्युक्तत्वात्”।।*।। यथा भास्करो रजनीसुप्तदेहिनां जागरणं करोति तथा भवानप्यज्ञाननिशानिद्रितजनानां ज्ञानमार्गप्रकाशनेन जागरणं करोषीति गर्भार्थः ॥*॥ पुनः किंविशिष्ठाय । भवोदधिशोषणाय । भवः संसारः सएवोदधिर्मकराकरः । धीवरैरपि दुस्तरितुं शक्यत्वात् । तस्य शोषणायागस्तिरिव तनुकरणसमर्थाय विनाशकाय । अपुनर्जन्मदायकायेतियावदिति । । २६० હે જયશીલ મુનિરાજ! જૈનેંદ્ર દર્શનરૂપી સમુદ્રને વૃદ્ધિ કરવામાં ચંદ્ર સમાન, તથા સિદ્ધાંતોના સારરૂપી કમલ પ્રતે ભ્રમરતુલ્ય, અને અજ્ઞાનમાં નિદ્રાવશ થએલા લોકોને જગાડવામાં સૂર્યસમાન, તથા સંસારરૂપી સમુદ્રને શોષનારા એવા તમો પ્રતે નમસ્કાર થાઓ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004562
Book TitleVijayanand abhyudayam Mahakavyam athwa Atmaramji charitam
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages400
LanguageGujarati
ClassificationBook_Gujarati & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy