SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ एकादशमः सर्गः । त्वत्तः परो मुनिवरेंद्र सदैव लक्ष्मीं । लब्ध्वा वृथा स्वपुरुषोत्तमतां व्यनक्ति ॥ ज्ञात्वा त्वकिंचनमथेति विनिश्चितं त्वां । व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि ॥ २८ ॥ ।। त्वत्त इति ।। हे मुनिवरेंद्र ! मुनयो यतयस्तेषु वराः श्रेष्टास्ते षामपींद्रः पुलोमीपतिरिव नायकस्तत्संबोधनं हे मुनिवरेंद्र ! त्वत्तः परो भवतोऽन्यो जिनोक्तचरणकरणरूपसंयममार्गाद्विपरीताचारयुक्तपरिग्रहासक्तो यतिः । व्यंग्ये तु परैर्देवरूपमतो विष्णुः । सदैव सर्वदैव लक्ष्मीं धनं । पक्षे पद्मालयां पद्मालयां लब्ध्वाऽधिगम्य स्वपुरुषोत्तमतां निजनरोत्तमत्वं । पक्षे- स्वकीयनारायणत्वं वृथा मुधा व्यनक्ति प्रकाशयति ।। * ।। यतो लक्ष्मीलुब्धानां पुरुषोत्तमत्वं तु दुर्लभमेवेति च लोकप्रसिद्धं ॥ * ॥ अथ च त्वांतु भवंतंपुनरकिंचनं लक्ष्म्यादिपरिग्रहरहितं ज्ञात्वा बुध्ध्वा । इत्येवं निश्चितं निर्णीतं मयेति शेषः । किं निर्णीतमित्यथाह । हे भगवन् हे महात्म्यवंस्त्वमेव भवानेव व्यक्तं प्रकटंयथास्यात्तथा पुरुषोत्तमोऽसि पुरुषेषु नरेषूत्तमः श्रेष्ठोऽसि । लक्ष्म्यादिपरिग्रहलुब्धत्वाभावादिति । । હે મુનિવરેંદ્ર ! તમારાથી ઊલટી રીતે વર્તનારો (નામધારી यति) (पक्षे-विष्णु) हमेशां लक्ष्मीने (घनने) भेजवीने पोतानी ફોકટ પુરુષોત્તમતા પ્રગટ કરે છે; અને તમોને નિષ્પરિગ્રહી જાણીને મેં એવો નિશ્ચય કર્યો કે, હે ભગવન્! પ્રગટ રીતે તો તમો ४. “पुरुषोत्तम छो." ।। अथास्मै मुनिंद्राय कविर्नमस्कारं कुर्वन्सन्स्तुतिमाह । । जैनेंद्रदर्शनसमुद्रसुधाकराय । सिद्धांतसारकमलभ्रमरोपमाय ॥ अज्ञानसुप्तजनजागरणारुणाय । तुभ्यं नमो जिन भवोदधिशोषणाय ।। २९ ॥ Jain Education International २५९ For Private & Personal Use Only www.jainelibrary.org
SR No.004562
Book TitleVijayanand abhyudayam Mahakavyam athwa Atmaramji charitam
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages400
LanguageGujarati
ClassificationBook_Gujarati & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy